१४७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘श्रत्ते’ इति पञ्चर्चमेकोनविंशं सूक्तं शिरीषपुत्रस्य सुवेदस आर्षम् । पञ्चमी त्रिष्टुप् शिष्टा जगत्यः । इन्द्रो देवता । अनुक्रम्यते हि - श्रत्ते पञ्च सुवेदाः शैरीषिस्त्रिष्टुबन्तम्’ इति । तृतीये रात्रिपर्याये प्रशास्तुः शस्त्र इदं सूक्तम् । सूत्रितं च - ‘ श्रत्ते दधामीदं त्यत्पात्रमिन्द्रपानमिति याज्या’ ( आश्व. श्रौ. ६. ४) इति ।

Jamison Brereton

147 (973)
Indra
Suvedas Śairīṣi
5 verses: jagatī, except triṣṭubh 5
The poet begins his hymn (vs. 1, 2ab) by proclaiming his trust in Indra’s “battle fury” (manyú), on the basis of the god’s deeds and his dominance over the cosmic spaces. It turns out that the poet has something more than simply praise on his mind. Indra and his battle fury are much in demand among men in search of vic
tory and its spoils (vs. 2cd), and the poet recommends his patrons to Indra’s atten tion and care (vs. 3). He realizes, however, that securing Indra’s help requires proper ritual observance (vs. 4). The hymn ends (vs. 5) with explicit requests for Indra’s aid and bounty, such desires having been only indirectly expressed earlier in the hymn.

01 श्रत्ते दधामि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

श्र᳓त् ते दधामि प्रथमा᳓य मन्य᳓वे
अ᳓हन् य᳓द् वृत्रं᳓ न᳓रियं विवे᳓र् अपः᳓
उभे᳓ य᳓त् त्वा भ᳓वतो रो᳓दसी अ᳓नु
रे᳓जते शु᳓ष्मात् पृथिवी᳓ चिद् अद्रिवः

02 त्वं मायाभिरनवद्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुव᳓म् माया᳓भिर् अनवद्य मायि᳓नं
श्रवस्यता᳓ म᳓नसा वृत्र᳓म् अर्दयः
तुवा᳓म् इ᳓न् न᳓रो वृणते ग᳓विष्टिषु
तुवां᳓ वि᳓श्वासु ह᳓वियासु इ᳓ष्टिषु

03 ऐषु चाकन्धि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अइ᳓षु चाकन्धि पुरुहूत सूरि᳓षु
वृधा᳓सो ये᳓ मघवन्न् आनशु᳓र् मघ᳓म्
अ᳓र्चन्ति तोके᳓ त᳓नये प᳓रिष्टिषु
मेध᳓साता वाजि᳓नम् अ᳓ह्रये ध᳓ने

04 स इन्नु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ इ᳓न् नु᳓ रायः᳓ सु᳓भृतस्य चाकनन्
म᳓दं यो᳓ अस्य रं᳓हियं चि᳓केतति
तुवा᳓वृधो मघवन् दाशु᳓अध्वरो
मक्षू᳓ स᳓ वा᳓जम् भरते ध᳓ना नृ᳓भिः

05 त्वं शर्धाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ श᳓र्धाय महिना᳓ गृणान᳓
उरु᳓ कृधि मघवञ् छग्धि᳓ रायः᳓
तुवं᳓ नो मित्रो᳓ व᳓रुणो न᳓ मायी᳓
पित्वो᳓ न᳓ दस्म दयसे विभक्ता᳓