१४५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ इमाम्’ इति षडृचं सप्तदशं सूक्तमिन्द्राण्या आर्षम् । षष्ठी पङ्क्तिः शिष्टा अनुष्टुभः । अनेन सूक्तेन सपन्या बाधनं प्रतिपाद्यते । अत एतत्सूक्तजपादिना सपन्या विनाशो भवति । अतस्तद्देवताकमिदम् । तथा चानुक्रान्तम्—- ‘ इमामिन्द्राण्युपनिषत्सपत्नीबाधनमानुष्टुभं तु पङ्क्त्यन्तम् इति । अस्य सूक्तस्य विनियोगो भगवतापस्तम्बेन कस्मिंश्चित् सपत्नीघ्नप्रयोगविशेषे दर्शितः – ‘ त्रिःसप्तैर्यवैः पाठां परिकिरति यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामीति । श्वोभूत उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया। वश्यो भवति । सपत्नीबाधनं च ’ ( आप. गृ. ९. ५. ८/३.९.८) इति । अयमर्थः । आद्यया पाठा नामौषधिः खातव्या । ततस्तिसृभिरोषधेरभि, मन्त्रणम् । षष्ठ्याबद्धा सौषधिर्यथा भर्तारं स्पृशति तथा तस्य भर्तुरालिङ्गनमिति ।।

Jamison Brereton

145 (971)
Against Cowives
Indrāṇī
6 verses: anuṣṭubh, except paṅkti 6
Attributed to Indra’s wife, Indrāṇī, this hymn is spoken in the 1st person by a woman conjuring against her cowife for the affections of their joint husband. In Atharvan style (and with an Atharvaveda correspondent, AVŚ III.18), it combines ritual/magic action with a verbal spell. The speaker digs the efficacious plant (vss. 1–2) and applies the plant to her husband (vs. 6), while confidently proclaiming her victory over her rival (esp. vss. 3–5). A similar hymn against cowives is found at X.159.

01 इमां खनाम्योषधिम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमां᳓ खनामि ओ᳓षधिं
वीरु᳓धम् ब᳓लवत्तमाम्
य᳓या सप᳓त्नीम् बा᳓धते
य᳓या संविन्द᳓ते प᳓तिम्

02 उत्तानपर्णे सुभगे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓त्तानपर्णे सु᳓भगे
दे᳓वजूते स᳓हस्वति
सप᳓त्नीम् मे प᳓रा धम
प᳓तिम् मे के᳓वलं कुरु

03 उत्तराहमुत्तर उत्तरेदुत्तराभ्यः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓त्तरा अह᳓म् उत्तर
उ᳓त्तरा इ᳓द् उ᳓त्तराभ्यः
अ᳓था सप᳓त्नी या᳓ म᳓म
अ᳓धरा सा᳓धराभियः

04 नह्यस्या नाम - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नह्य् अ᳡स्या ना᳓म गृभ्णा᳓मि
नो᳓ अस्मि᳓न् रमते ज᳓ने
प᳓राम् एव᳓ पराव᳓तं
सप᳓त्नीं गमयामसि

05 अहमस्मि सहमानाथ - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अह᳓म् अस्मि स᳓हमाना
अ᳓थ त्व᳓म् असि सासहिः᳓
उभे᳓ स᳓हस्वती भूत्वी᳓
सप᳓त्नीम् मे सहावहै

06 उप तेऽधाम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓प ते ऽधां स᳓हमानाम्
अभि᳓ त्वाधां स᳓हीयसा
मा᳐᳓म् अ᳓नु प्र᳓ ते म᳓नो
वत्सं᳓ गउ᳓र् इव धावतु
पथा᳓ वा᳓र् इव धावतु