१४३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

दशमे मण्डले एकादशेऽनुवाके चतुर्दश सूक्तानि व्याकृतानि । ‘त्यं चित्’ इति षडृचं पञ्चदशं सूक्तं संख्यपुत्रस्यात्रेरार्षमानुष्टुभमश्विदेवताकम् । तथा चानुक्रान्तं- त्यं षट् सांख्योऽत्रिराश्विनम्’ इति । प्रातरनुवाकाश्विनशस्त्रयोरानुष्टुभे छन्दसीदं सूक्तम् । सूत्र्यते हि- ’आ नो विश्वाभिस्त्यं चिदत्रिमित्यानुष्टुभम् ’ ( आश्व. श्रौ. ४. १५) इति ॥

Jamison Brereton

143 (969)
Aśvins
Atri Sāṃkhya
6 verses: anuṣṭubh
The poet of this hymn is presumably one of the younger Atrids, not the Atri who is the eponymous poet of the Vth Maṇḍala, and the whole hymn is devoted to requests for help from the Aśvins for him and his fellows. In the first two verses he asks that the Aśvins aid him as they did others in past times. The third verse offers recompense for their aid: if they help him to produce insightful poems, these poems will be for them alone. Verses 4 and 6 expand the targets of the aid from Atri alone to his ritual companions, while verse 5 offers the mythological example of Bhujyu, often mentioned elsewhere as a client whose life the Aśvins saved, as a model for what we ourselves hope for.

01 त्यं चिदत्रिमृतजुरमर्थमश्वम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्यं᳓ चिद् अ᳓त्रिम् ऋतजु᳓रम्
अ᳓र्थम् अ᳓श्वं न᳓ या᳓तवे
कक्षी᳓वन्तं य᳓दी पु᳓ना
र᳓थं न᳓ कृणुथो᳓ न᳓वम्

02 त्यं चिदश्वम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्यं᳓ चिद् अ᳓श्वं न᳓ वाजि᳓नम्
अरेण᳓वो य᳓म् अ᳓त्नत
दॄळ्हं᳓+ ग्रन्थिं᳓ न᳓ वि᳓ ष्यतम्
अ᳓त्रिं य᳓विष्ठम् आ᳓ र᳓जः

03 नरा दंसिष्टवत्रये - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓रा दं᳓सिष्ठाव् अ᳓त्रये
शु᳓भ्रा सि᳓षासतं धि᳓यः
अ᳓था हि᳓ वां दिवो᳓ नरा
पु᳓न स्तो᳓मो न᳓ विश᳓से

04 चिते तद्वाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

चिते᳓ त᳓द् वां सुराधसा
रातिः᳓ सुमति᳓र् अश्विना
आ᳓ य᳓न् नः स᳓दने पृथउ᳓
स᳓मने प᳓र्षथो नरा

05 युवं भुज्युम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

युव᳓म् भुज्युं᳓ समुद्र᳓ आ᳓
र᳓जसः पार᳓ ईङ्खित᳓म्
यात᳓म् अ᳓छा पतत्रि᳓भिर्
ना᳓सत्या सात᳓ये कृतम्

06 आ वाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ वां सुम्नइः᳓ शंयू᳓ इव
मं᳓हिष्ठा वि᳓श्ववेदसा
स᳓म् अस्मे᳓ भूषतं नरा
उ᳓त्सं न᳓ पिप्यु᳓षीर् इ᳓षः