१४१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अग्ने’ इति षडृचं त्रयोदशं सूक्तं तापसगुणविशिष्टस्याग्नेरार्षं वैश्वदेवमनुष्टुभम् । तथा चानुक्रान्तम्-‘ अग्नेऽच्छाग्निस्तापसो वैश्वदेवमानुष्टुभं हि’ इति । गतो विनियोगः ॥

Jamison Brereton

141 (967)
All Gods
Agni Tāpasa
6 verses: anuṣṭubh
This simple hymn continues the message of the immediately preceding one, but with far less subtlety. The poet calls upon Agni (vss. 1, 3, 6, and implicitly 5) and an array of other gods, particularly Br̥haspati (vss. 2–5), to ensure that he and his fellow officiants are well rewarded for their ritual service. The focus on Agni and Br̥haspati clearly reflects the ritual orientation of the hymn, with Agni representing the physical activity of sacrifice and Br̥haspati the verbal portion.

01 अग्ने अच्छा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने अ᳓छा वदेह᳓ नः
प्रत्य᳓ङ् नः सुम᳓ना भव
प्र᳓ नो यछ विशस् पते
धनदा᳓ असि नस् तुव᳓म्

02 प्र नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ नो यछतु अर्यमा᳓
प्र᳓ भ᳓गः प्र᳓ बृ᳓हस्प᳓तिः
प्र᳓ देवाः᳓ प्रो᳓त᳓ सूनृ᳓ता
रायो᳓ देवी᳓ ददातु नः

03 सोमं राजानमवसेऽग्निम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓मं रा᳓जानम् अ᳓वसे
अग्निं᳓ गीर्भि᳓र् हवामहे
आदित्या᳓न् वि᳓ष्णुं सू᳓रियम्
ब्रह्मा᳓णं च बृ᳓हस्प᳓तिम्

04 इन्द्रवायू बृहस्पतिम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रवायू᳓ बृ᳓हस्प᳓तिं
सुह᳓वेह᳓ हवामहे
य᳓था नः स᳓र्व इ᳓ज् ज᳓नः
सं᳓गत्यां सुम᳓ना अ᳓सत्

05 अर्यमणं बृहस्पतिमिन्द्रम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्यम᳓णम् बृ᳓हस्प᳓तिम्
इ᳓न्द्रं दा᳓नाय चोदय
वा᳓तं वि᳓ष्णुं स᳓रस्वतीं
सविता᳓रं च वाजि᳓नम्

06 त्वं नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ नो अग्ने अग्नि᳓भिर्
ब्र᳓ह्म यज्ञं᳓ च वर्धय
तुवं᳓ नो देव᳓तातये
रायो᳓ दा᳓नाय चोदय