१४०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अग्ने तव ’ इति षडृचं द्वादशं सूक्तम् । पावकगुणविशिष्टोऽग्निर्षिः । शुद्धाग्निर्देवता । आद्या विष्टारपङ्क्तिरष्टकद्विद्वादशाष्टकवती । अथ तिस्रः सतोबृहत्यः ‘अयुजौ जागतौ ’ ( अनु. ८. ४) इति लक्षणोपेताः । पञ्चम्युपरिष्टाज्ज्योतिः । षष्ठी त्रिष्टुप् । तथा चानुक्रान्तम्-अग्ने तवाग्निः पावक आग्नेयं विष्टारपङ्क्तिस्तिस्रः सतोबृहत्य उपरिष्टाज्ज्योतिः’ इति । महाव्रत आग्निमारुतशस्त्र इदं सूक्तं स्तोत्रियानुरूपार्थम् । तथैव पञ्चमारण्यके सूत्रितम् (ऐ. आ. ५. ३. २ ) ।

Jamison Brereton

140 (966)
Agni
Agni Pāvaka
6 verses: viṣṭārapaṅkti 1, satobr̥hatī 2–4, upariṣrḁ̄ jjyotis 5, triṣṭubh 6 [per the Anukramaṇī, but this doesn’t accurately reflect the meter of 5 and 6. Former is rather satobr̥hatī, while latter is 12 12 12 8]
Metrically varied but unremarkable in contents, this hymn recycles and enchains its vocabulary and phraseology while staying close to its core message: the ritual fire is lovely and brilliant, and it brings—or should bring—precious prizes to the humans who tend it.

01 अग्ने तव - विष्टारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने त᳓व श्र᳓वो व᳓यो
म᳓हि भ्राजन्ते अर्च᳓यो विभावसो
बृ᳓हद्भानो श᳓वसा वा᳓जम् उक्थि᳓यं
द᳓धासि दाशु᳓षे कवे

02 पावकवर्चाः शुक्रवर्चा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पवाक᳓वर्चाः+ शुक्र᳓वर्चा अ᳓नूनवर्चा
उ᳓द् इयर्षि भानु᳓ना
पुत्रो᳓ मात᳓रा विच᳓रन्न् उ᳓पावसि
पृण᳓क्षि रो᳓दसी उभे᳓

03 ऊर्जो नपाज्जातवेदः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ᳓र्जो नपाज् जातवेदः सुशस्ति᳓भिर्
म᳓न्दस्व धीति᳓भिर् हितः᳓
तुवे᳓ इ᳓षः सं᳓ दधुर् भू᳓रिवर्पसश्
चित्रो᳓तयो वाम᳓जाताः

04 इरज्यन्नग्ने प्रथयस्व - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इरज्य᳓न्न् अग्ने प्रथयस्व जन्तु᳓भिर्
अस्मे᳓ रा᳓यो अमर्तिय
स᳓ दर्शत᳓स्य व᳓पुषो वि᳓ राजसि
पृण᳓क्षि सानसिं᳓ क्र᳓तुम्

05 इष्कर्तारमध्वरस्य प्रचेतसम् - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

इष्कर्ता᳓रम् अध्वर᳓स्य प्र᳓चेतसं
क्ष᳓यन्तं रा᳓धसो महः᳓
रातिं᳓ वाम᳓स्य सुभ᳓गाम् मही᳓म् इ᳓षं
द᳓धासि सानसिं᳓ रयि᳓म्

06 ऋतावानं महिषम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋता᳓वानम् महिषं᳓ विश्व᳓दर्शतम्
अग्निं᳓ सुम्ना᳓य दधिरे पुरो᳓ ज᳓नाः
श्रु᳓त्कर्णं सप्र᳓थस्तमं तुवा गिरा᳓
दइ᳓वियम् मा᳓नुषा युगा᳓