१४०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अग्ने तव ’ इति षडृचं द्वादशं सूक्तम् । पावकगुणविशिष्टोऽग्निर्षिः । शुद्धाग्निर्देवता । आद्या विष्टारपङ्क्तिरष्टकद्विद्वादशाष्टकवती । अथ तिस्रः सतोबृहत्यः ‘अयुजौ जागतौ ’ ( अनु. ८. ४) इति लक्षणोपेताः । पञ्चम्युपरिष्टाज्ज्योतिः । षष्ठी त्रिष्टुप् । तथा चानुक्रान्तम्-अग्ने तवाग्निः पावक आग्नेयं विष्टारपङ्क्तिस्तिस्रः सतोबृहत्य उपरिष्टाज्ज्योतिः’ इति । महाव्रत आग्निमारुतशस्त्र इदं सूक्तं स्तोत्रियानुरूपार्थम् । तथैव पञ्चमारण्यके सूत्रितम् (ऐ. आ. ५. ३. २ ) ।

Jamison Brereton

140 (966)
Agni
Agni Pāvaka
6 verses: viṣṭārapaṅkti 1, satobr̥hatī 2–4, upariṣrḁ̄ jjyotis 5, triṣṭubh 6 [per the Anukramaṇī, but this doesn’t accurately reflect the meter of 5 and 6. Former is rather satobr̥hatī, while latter is 12 12 12 8]
Metrically varied but unremarkable in contents, this hymn recycles and enchains its vocabulary and phraseology while staying close to its core message: the ritual fire is lovely and brilliant, and it brings—or should bring—precious prizes to the humans who tend it.

01 अग्ने तव - विष्टारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो ।
बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं१॒॑ दधा॑सि दा॒शुषे॑ कवे ॥

02 पावकवर्चाः शुक्रवर्चा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ ।
पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ॥

03 ऊर्जो नपाज्जातवेदः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः ।
त्वे इषः॒ सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥

04 इरज्यन्नग्ने प्रथयस्व - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य ।
स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म् ॥

05 इष्कर्तारमध्वरस्य प्रचेतसम् - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्तं॒ राध॑सो म॒हः ।
रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिं र॒यिम् ॥

06 ऋतावानं महिषम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जनाः॑ ।
श्रुत्क॑र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥