१३४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘उभे यत्’ इति सप्तर्चं षष्ठं सूक्तं युवनाश्वपुत्रस्य मान्धातुरार्षम् । ‘पूर्वेण’ इत्यर्धर्चसहितायाः सप्तम्यास्तु गोधा नाम ब्रह्मवादिन्यृषिः । सप्तमी पङ्क्तिः । शिष्टाः षळष्टका महापङ्क्तयः । इन्द्रो देवता । तथा चानुक्रान्तम्—‘उभे यन्मान्धाता यौवनाश्वो महापाङ्क्तं पङ्क्तिरन्या तामध्यर्धा गोधापश्यत्’ इति । गतः सूक्तविनियोगः । चतुर्विंशिकेऽहनि माध्यंदिनेऽच्छावाकस्याद्यस्तृचो वैकल्पिकः स्तोत्रियः । सूत्रितं च— ‘उभे यदिन्द्र रोदसी अव यत्त्वं शतक्रतो ’ (आश्व. श्रौ. ७. ४) इति ॥

Jamison Brereton

134 (960)
Indra
Māndhātar Yauvanāśva (1–6a), Godhā (6b–7)
7 verses: mahāpaṅkti, except paṅkti 7
Although the Anukramaṇī assigns X.133 and X.134 to different poets, they seem to be companion pieces. The latter hymn shares its meter, mahāpaṅkti, with the second triplet (vss. 4–6) of X.133; both hymns are dedicated to Indra and share phraseol ogy (e.g., 133.4bc and 134.2cd); and 134 also has a refrain in its first six verses, though one without the slangy sassiness of 133.1–6.
Like the last hymn, this one asks Indra for help against our enemies and also for bounties. These are of course standard requests, but the imagery toward the end of the hymn (vss. 5–6) is both precise and quirky, particularly the picture of Indra using his ability like a long crook to pull down a high branch and shake down its fruit, an image in turn compared to a goat doing the same with his forefoot. (Anyone familiar with goat behavior will recognize this picture instantly.)

01 उभे यदिन्द्र - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

उभे᳓ य᳓द् इन्द्र रो᳓दसी
आपप्रा᳓थ उषा᳓ इव
महा᳓न्तं त्वा मही᳓नां᳐
सम्रा᳓जं चर्षणीनां᳐᳓
देवी᳓ ज᳓नित्र्य् अजीजनद्
भद्रा᳓ ज᳓नित्र्य् अजीजनत्

02 अव स्म - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व स्म दुर्हणायतो᳓
म᳓र्तस्य तनुहि स्थिर᳓म्
अधस्पदं᳓ त᳓म् ईं कृधि
यो᳓ अस्माँ᳓ आदि᳓देशति
देवी᳓ ज᳓नित्र्य् अजीजनद्
भद्रा᳓ ज᳓नित्र्य् अजीजनत्

03 अव त्या - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व त्या᳓ बृहती᳓र् इ᳓षो
विश्व᳓श्चन्द्रा अमित्रहन्
श᳓चीभिः शक्र धूनुहि
इ᳓न्द्र वि᳓श्वाभिर् ऊति᳓भिर्
देवी᳓ ज᳓नित्र्य् अजीजनद्
भद्रा᳓ ज᳓नित्र्य् अजीजनत्

04 अव यत्त्वम् - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व य᳓त् त्वं᳓ शतक्रतव्
इ᳓न्द्र वि᳓श्वानि धूनुषे᳓
रयिं᳓ न᳓ सुन्वते᳓ स᳓चा
सहस्रि᳓णीभिर् ऊति᳓भिर्
देवी᳓ ज᳓नित्र्य् अजीजनद्
भद्रा᳓ ज᳓नित्र्य् अजीजनत्

05 अव स्वेदा - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व स्वे᳓दा इवाभि᳓तो
वि᳓ष्वक् पतन्तु दिद्य᳓वः
दू᳓र्वाया इव त᳓न्तवो
वि᳓ अस्म᳓द् एतु दुर्मति᳓र्
देवी᳓ ज᳓नित्र्य् अजीजनद्
भद्रा᳓ ज᳓नित्र्य् अजीजनत्

06 दीर्घं ह्यङ्कुशम् - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

दीर्घं᳓ हि᳓ अङ्कुशं᳓ यथा
श᳓क्तिम् बि᳓भर्षि मन्तुमः
पू᳓र्वेण मघवन् पदा᳓
अजो᳓ वयां᳓ य᳓था यमो
देवी᳓ ज᳓नित्र्य् अजीजनद्
भद्रा᳓ ज᳓नित्र्य् अजीजनत्

07 नकिर्देवा मिनीमसि - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓किर् देवा मिनीमसि
न᳓किर् आ᳓ योपयामसि
मन्त्रश्रु᳓त्यं चरामसि
पक्षे᳓भिर् अपिकक्षे᳓भिर्
अ᳓त्राभि᳓ सं᳓ रभामहे