१३३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रो षु’ इति सप्तर्चं पञ्चमं सूक्तं पिजवनपुत्रस्य सुदास आर्षमैन्द्रम् । आद्यस्तृचः शाक्वरः । षट्पञ्चाशदक्षरा शक्वरी । द्वितीयस्तृचो महापाङ्क्तः । षळष्टका महापङ्क्तिः । सप्तमी त्रिष्टुप् । तथा चानुक्रान्तं – प्रो षु सुदाः पैजवनः शाक्वरमहापाङ्क्तावाद्यौ तृचावन्त्या त्रिष्टुप् ’ इति । षोळशिशस्त्र आद्यस्तृचः शंसनीयः । सूत्रितं च – त्रिकद्रुकेषु महिषो यवाशिरं प्रो ष्वस्मै पुरोरथमिति तृचावातिच्छन्दसौ ’ ( आश्व. श्रौ. ६. २) इति । महाव्रते माध्यंदिनसवने ब्रह्मशस्त्रेऽनुरूपतृचस्य ‘ प्रो ष्वस्मै ’ इत्येका। तथैव पञ्चमारण्यके सूत्रितं च– ‘ प्रो ष्वस्मै पुरोरथमित्यतोऽनुरूपः । (ऐ. आ. ५. १. १ ) इति ।।

Jamison Brereton

133 (959)
Indra
Sudās Paijavana
7 verses: śakvarī 1–3, mahāpaṅkti 4–6, triṣṭubh 7
The most salient feature of this hymn is the refrain of the first six verses, “let the little bowstrings of the other squirts burst on their bows,” an elaboration on the Nābhāka Kāṇva refrain of VIII.39–42 “let all the other squirts burst,” though there is no apparent connection between the two poets. Our hymn is attributed to Sudās Paijavana; Sudās is the name of the leading king in the Battle of the Ten Kings, on whose side Indra fought, and it is perhaps not an accident that the first three verses in this hymn are in a form of śakvarī meter (here seven pādas of eight syllables). In VII.33.4 “a lofty cry in śakvarī” is what attracted Indra to fight on the side of Sudās in this battle. It is meter that also provides the possible connection with the Nābhāka Kāṇva hymns just mentioned: the rare śakvarī meter is also found in VIII.40.2, and the likewise rather rare mahāpaṅkti meter (six pādas of eight syllables) of the second three verses of our hymn (4–6) is also the meter of the Nābhāka hymns VIII.39, VIII.40 (save for vss. 2 and 12), and VIII.41.
The hymn celebrates the martial deeds and powers of Indra and urges the god to use his powers against our enemies, both within and without.

01 प्रो ष्वस्मै - शक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

प्रो᳓ षु᳓ अस्मै पुरोरथ᳓म्
इ᳓न्द्राय शूष᳓म् अर्चत
अभी᳓के चिद् उलोककृ᳓त्†
संगे᳓ सम᳓त्सु वृत्रहा᳓
अस्मा᳓कम् बोधि चोदिता᳓
न᳓भन्ताम् अन्यके᳓षां᳐
जियाका᳓ अ᳓धि ध᳓न्वसु

02 त्वं सिन्धूँरवासृजोऽधराचो - शक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ सि᳓न्धूँर् अ᳓वासृजो
अधरा᳓चो अ᳓हन्न् अ᳓हिम्
अशत्रु᳓र् इन्द्र जज्ञिषे
वि᳓श्वम् पुष्यसि वा᳓रियं
तं᳓ त्वा प᳓रि ष्वजामहे
न᳓भन्ताम् अन्यके᳓षां᳐
जियाका᳓ अ᳓धि ध᳓न्वसु

03 वि षु - शक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ षु᳓ वि᳓श्वा अ᳓रातयो
अर्यो᳓ नशन्त नो धि᳓यः
अ᳓स्तासि श᳓त्रवे वधं᳓
यो᳓ न इन्द्र जि᳓घांसति
या᳓ ते राति᳓र् ददि᳓र् व᳓सु
न᳓भन्ताम् अन्यके᳓षां᳐
जियाका᳓ अ᳓धि ध᳓न्वसु

04 यो न - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ न इन्द्राभि᳓तो ज᳓नो
वृकायु᳓र् आदि᳓देशति
अधस्पदं᳓ त᳓म् ईं कृधि
विबाधो᳓ असि सासहि᳓र्
न᳓भन्ताम् अन्यके᳓षां᳐
जियाका᳓ अ᳓धि ध᳓न्वसु

05 यो न - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ न इन्द्राभिदा᳓सति
स᳓नाभिर् य᳓श् च नि᳓ष्टियः
अ᳓व त᳓स्य ब᳓लं तिर
मही᳓व द्यउ᳓र् अ᳓ध त्म᳓ना
न᳓भन्ताम् अन्यके᳓षां᳐
जियाका᳓ अ᳓धि ध᳓न्वसु

06 वयमिन्द्र त्वायवः - महापङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

वय᳓म् इन्द्र तुवाय᳓वः
सखित्व᳓म् आ᳓ रभामहे
ऋत᳓स्य नः पथा᳓ नय
अ᳓ति वि᳓श्वानि दुरिता᳓
न᳓भन्ताम् अन्यके᳓षां᳐
जियाका᳓ अ᳓धि ध᳓न्वसु

07 अस्मभ्यं सु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्म᳓भ्यं सु᳓ तुव᳓म् इन्द्र तां᳓ शिक्ष
या᳓ दो᳓हते प्र᳓ति व᳓रं जरित्रे᳓
अ᳓छिद्रउध्नी पीप᳓यद् य᳓था नः
सह᳓स्रधारा प᳓यसा मही᳓ गउः᳓