१२८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ ममाग्ने ’ इति नवर्चं षोडशं सूक्तमाङ्गिरसस्य विहव्यस्यार्षं वैश्वदेवम् । अन्त्या जगती शिष्टास्त्रिष्टुभः । अनुक्रम्यते हि– ‘ ममाग्ने नव विहव्यो वैश्वदेवं जगत्यन्तम् ’ इति । संसवे निमित्तभूते वैश्वदेवसूक्तस्य पुरस्तादेतत् शंस्यम् । सूत्रितं च — ममाग्ने वर्च इति वैश्वदेवसूक्तस्यापि वैतेष्वेव निविदो दध्यात् ’ (आश्व. श्रौ. ६.६ ) इति । समावर्तनेऽनेन सूक्तेन सिष्णासुना प्रत्यृचं समिदाधातव्या । सूत्रितं च – ‘ममाग्ने वर्च इति प्रत्यृचं समिधोऽभ्यादध्यात् ’ (आश्व. गृ. ३.९.२) इति ।।

Jamison Brereton

128 (954)
All Gods
Vihavya Āṅgirasa
9 verses: triṣṭubh, except jagatī 9
Anxiety about rival sacrifices, a common preoccupation of the R̥gveda, begins and informs this hymn. The first two verses situate the performance of the hymn “at the competing invocation(s)” (vihavá, a derivative of which provides the poet’s name, Vihavya, in the Anukramaṇī)—a moment when sacrificers all over the Ārya lands are inviting the same gods to their own separate sacrifices. The poet urges his own case with a series of emphatic fronted 1st-person singular pronominal forms (“mine,” “to me,” etc.) in the first four verses. The potential competing sacrificers in these early verses are transformed into even more threatening figures as the hymn progress—haters (vs. 5), violent challengers in battle (vs. 6), rivals (vs. 9). The poet then asks for the aid of the gods in repulsing them and in protecting him.
The grammar and diction of the hymn are straightforward and spring no surprises.

01 ममाग्ने वर्चो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम ।
मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥

02 मम देवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः ।
ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥

03 मयि देवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ।
दैव्या॒ होता॑रो वनुषन्त॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ॥

04 मह्यं यजन्तु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु ।
एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता नः ॥

05 देवीः षळुर्विरुरु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देवीः॑ षळुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् ।
मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥

06 अग्ने मन्युम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् ।
प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॒३॒॑ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥

07 धाता धातछर्’थ६श्णाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

धा॒ता धा॑तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हम् ।
इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा॑न्तु॒ यज॑मानं न्य॒र्थात् ॥

08 उरुव्यचा नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षुः ।
स नः॑ प्र॒जायै॑ हर्यश्व मृळ॒येन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥

09 ये नः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥