१२७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ रात्री ’ इत्यष्टर्चं पञ्चदशं सूक्तं सोभरिपुत्रस्य कुशिकस्यार्षम् । यद्वा । भारद्वाजस्य सुता रात्र्याख्या अस्य सूक्तस्यर्षिका । गायत्रं रात्रिदेवताकम् । तथा चानुक्रान्तं - रात्री कुशिकः सौभरो रात्रिर्वा भारद्वाजी रात्रिस्तवं गायत्रम् इति । दुःस्वप्नदर्शन उपोषितेन कर्त्रा पायसेन होतव्यम् । तत्रैत्सूक्तं करणत्वेन विनि युक्तम् । तथा चारण्यके श्रूयते – स यद्येतेषां किंचित्पश्येदुपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्यृचं हुत्वा ’ ( ऐ. आ. ३. २. ४ ) इति ।।

Jamison Brereton

127 (953)
Night
Kuśika Saubhara or Rātri Bhāradvājī
8 verses: gāyatrī
In contrast to the numerous hymns dedicated to the lovely and welcome Dawn, Night is barely celebrated in the R̥gveda, only in this one hymn. The night described here is not that of the frightening and formless darkness so often mentioned in the text, but rather starry night, who has beauties of her own. In fact, she is described in places (see vss. 2 and 3c especially) with phraseology more appropriate to Dawn, whose own advent is anticipated in verse 7.

01 रात्री व्यख्यदायती - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभिः॑ ।
विश्वा॒ अधि॒ श्रियो॑ऽधित ॥

02 ओर्वप्रा अमर्त्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१॒॑द्वतः॑ ।
ज्योति॑षा बाधते॒ तमः॑ ॥

03 निरु स्वसारमस्कृतोषसम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती ।
अपेदु॑ हासते॒ तमः॑ ॥

04 सा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि ।
वृ॒क्षे न व॑स॒तिं वयः॑ ॥

05 नि ग्रामासो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ ।
नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥

06 यावया वृक्यण्ट् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

या॒वया॑ वृ॒क्यं१॒॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये ।
अथा॑ नः सु॒तरा॑ भव ॥

07 उप मा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित ।
उष॑ ऋ॒णेव॑ यातय ॥

08 उप ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः ।
रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥