१२२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

वसुं न ’ इत्यष्टर्चं दशमं सूक्तं वसिष्ठपुत्रस्य चित्रमहस आर्षमाग्नेयम् । आद्यापञ्चमी त्रिष्टुभौ शिष्टा जगत्यः । तथा चानुक्रान्तं– वसुं नाष्टौ चित्रमहा वासिष्ठ आग्नेयं जागतमाद्यां पञ्चमीं चर्ते ’ इति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ जागते छन्दसीदं सूक्तम् । सूत्रितं च— वसुं न चित्रमहसमिति जागतम्’ ( आश्व. श्रौ. ४, १३) इति ।।

Jamison Brereton

122 (948)
Agni
Citramahas Vāsiṣṭha
8 verses: jagatī, except triṣṭubh 1, 5
Attributed to a Vasiṣṭhid by the Anukramaṇī, this hymn ends (vs. 8) with a men tion of the Vasiṣṭhas and with the Vasiṣṭha refrain from Maṇḍala VII. It is a fairly standard praise of Agni, deploying a wide range of his standard epithets and ritual roles and titles. The ritual is the complete focus of the hymn, and the rewards that the sacrificer will receive from properly performing it and serving Agni are also at the forefront. There is much recycling of vocabulary.

01 वसुं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓सुं न᳓ चित्र᳓महसं गृणीषे
वामं᳓ शे᳓वम् अ᳓तिथिम् अद्विषेण्य᳓म्
स᳓ रासते शुरु᳓धो विश्व᳓धायसो
अग्नि᳓र् हो᳓ता गृह᳓पतिः सुवी᳓र्यम्

02 जुषाणो अग्ने - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

जुषाणो᳓ अग्ने प्र᳓ति हर्य मे व᳓चो
वि᳓श्वानि विद्वा᳓न् वयु᳓नानि सुक्रतो
घृ᳓तनिर्णिग् ब्र᳓ह्मणे गातु᳓म् ए᳓रय
त᳓व देवा᳓ अजनयन्न् अ᳓नु व्रत᳓म्

03 सप्त धामानि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सप्त᳓ धा᳓मानि परिय᳓न्न् अ᳓मर्तियो
दा᳓शद् दाशु᳓षे सुकृ᳓ते मामहस्व
सुवी᳓रेण रयि᳓णाग्ने सुआभु᳓वा
य᳓स् त आ᳓नट् समि᳓धा तं᳓ जुषस्व

04 यज्ञस्य केतुम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञ᳓स्य केतु᳓म् प्रथम᳓म् पुरो᳓हितं
हवि᳓ष्मन्त ईळते सप्त᳓ वाजि᳓नम्
शृण्व᳓न्तम् अग्निं᳓ घृत᳓पृष्ठम् उक्ष᳓णम्
पृण᳓न्तं देव᳓म् पृणते᳓ सुवी᳓रियम्

05 त्वं दूतः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ दूतः᳓ · प्रथमो᳓ व᳓रेण्यः
स᳓ हूय᳓मानो अमृ᳓ताय मत्स्व
त्वा᳓म् मर्जयन् मरु᳓तो दाशु᳓षो गृहे᳓
तुवां᳓ स्तो᳓मेभिर् भृ᳓गवो वि᳓ रुरुचुः

06 इषं दुहन्त्सुदुघाम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓षं दुह᳓न् सुदु᳓घां विश्व᳓धायसं
यज्ञप्रि᳓ये य᳓जमानाय सुक्रतो
अ᳓ग्ने घृत᳓स्नुस् त्रि᳓र् ऋता᳓नि दी᳓दियद्
वर्ति᳓र् यज्ञ᳓म् परिय᳓न् सुक्रतूयसे

07 त्वामिदस्या उषसो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुवा᳓म् इ᳓द् अस्या᳓ उष᳓सो वि᳓उष्टिषु
दूतं᳓ कृण्वाना᳓ अयजन्त मा᳓नुषाः
त्वां᳓ देवा᳓ महया᳓यियाय वावृधुर्
आ᳓जियम् अग्ने निमृज᳓न्तो अध्वरे᳓

08 नि त्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ त्वा व᳓सिष्ठा अहुवन्त वाजि᳓नं
गृण᳓न्तो अग्ने विद᳓थेषु वेध᳓सः
राय᳓स् पो᳓षं य᳓जमानेषु धारय
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः