११८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अग्ने हंसि’ इति नवर्चं षष्ठं सूक्तममहीयुगोत्रस्योरुक्षयस्यार्षं गायत्रम् । रक्षोहाग्निर्देवता । • तथा चानुक्रम्यते– अग्ने हंस्युरुक्षय आमहीयव आग्नेयं राक्षोघ्नं गायत्रं तु ’ इति । मथ्यमानेऽग्नावजायमान इदमनुवक्तव्यम् । सूत्रितं च – अजायमाने त्वेतस्मिन्नेवावसानेऽग्ने हंसि न्यत्रिणमिति सूक्तमावपेत ’ ( आश्व. श्रौ. २. १६ ) इति । प्रातरनुवाकाश्विनशस्त्रयोरपि गायत्रे छन्दसीदं सूक्तम् । “सूत्रितं च — अग्ने हंस्यग्निं हिन्वन्तु नः’ ( आश्व. श्रौ. ४. १३ ) इति । दशमेऽहनि धिष्ण्याङ्गाराभिविहरण आद्या जप्या। सूत्रितं च – परि त्वाग्ने पुरं वयमित्येतस्याः स्थानेऽग्ने हंसि न्यत्रिणम् ( आश्व. श्रौ. ८. १२ ) इति ।।

Jamison Brereton

118 (944)
Agni Raksohan ̣
Urukṣaya Āmahīyava
9 verses: gāyatrī
Although the Anukramaṇī assigns the hymn to Agni Rakṣohan “Demon-Smiter,” this aspect of the god is very muted in the hymn—found only in verses 1, 7–8 and rather tamely even there. The exuberantly and ingeniously violent punishments envisaged in the other Rakṣohan hymn in X (X.87) are entirely absent. Instead the dominant picture is of a peaceful sacrificial hearth in which the fire responds happily to the attentions, and especially the butter oblations, of his worshipers. Stylistically the hymn is characterized by chaining: the repetition of a word or phrase from one verse in the next, with a different word or phrase from that verse repeated in the following one.

01 अग्ने हंसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने हं᳓सि नि᳓ अत्रि᳓णं
दी᳓दियन् म᳓र्तियेषु आ᳓
सुवे᳓ क्ष᳓ये शुचिव्रत

02 उत्तिष्टसि स्वाहुतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓त् तिष्ठसि सु᳓आहुतो
घृता᳓नि प्र᳓ति मोदसे
य᳓त् त्वा स्रु᳓चः सम᳓स्थिरन्

03 स आहुतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ आ᳓हुतो वि᳓ रोचते
अग्नि᳓र् ईळे᳓नियो गिरा᳓
स्रुचा᳓ प्र᳓तीकम् अज्यते

04 घृतेनाग्निः समज्यते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

घृते᳓नाग्निः᳓ स᳓म् अज्यते
म᳓धुप्रतीक आ᳓हुतः
रो᳓चमानो विभा᳓वसुः

05 जरमाणः समिध्यसे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ज᳓रमाणः स᳓म् इध्यसे
देवे᳓भ्यो हव्यवाहन
तं᳓ त्वा हवन्त म᳓र्तियाः

06 तं मर्ता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् मर्तिआ° अ᳓मर्तियं
घृते᳓नाग्निं᳓ सपर्यत
अ᳓दाभियं गृह᳓पतिम्

07 अदाभ्येन शोचिषाग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓दाभियेन शोचि᳓षा
अ᳓ग्ने र᳓क्षस् तुवं᳓ दह
गोपा᳓ ऋत᳓स्य दीदिहि

08 स त्वमग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ त्व᳓म् अग्ने प्र᳓तीकेन
प्र᳓त्य् ओष यातुधानि᳓यः
उरुक्ष᳓येषु दी᳓दियत्

09 तं त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं᳓ त्वा गीर्भि᳓र् उरुक्ष᳓या
हव्यवा᳓हं स᳓म् ईधिरे
य᳓जिष्ठम् मा᳓नुषे ज᳓ने