११६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘पिब’ इति नवर्चं चतुर्थं सूक्तं त्रैष्टुभमैन्द्रम् । स्थूरनाम्नः पुत्रोऽग्नियुताख्यं ऋषिरग्नियूपाख्यो वा । तथा चानुक्रम्यते- पिब स्थौरोऽग्नियुतोऽग्नियूपो वा’ इति । गतो विनियोगः ।।

Jamison Brereton

116 (942)
Indra
Agniyuta (or Agniyūpa) Sthaura
9 verses: triṣṭubh
A fairly straightforward hymn that remains focused on its insistent themes: the invitation to Indra to drink the soma, and the expectations we have of him after he has done so. The first four verses issue the invitation; verses 5–6 ask Indra to use the strength imparted by our soma to defeat our enemies, while the invita
tion is reiterated in verses 7–8. The hymn proceeds in part by verses paired in theme and language, though verses 3–4 do not show the repetitions and patterned variation in the other three pairs. The final verse (9) summarizes the poet’s work while ending with a striking image of the gods as dice, giving (and presumably also withholding) luck.

01 पिबा सोमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पिबा॒ सोमं॑ मह॒त इ॑न्द्रि॒याय॒ पिबा॑ वृ॒त्राय॒ हन्त॑वे शविष्ठ ।
पिब॑ रा॒ये शव॑से हू॒यमा॑नः॒ पिब॒ मध्व॑स्तृ॒पदि॒न्द्रा वृ॑षस्व ॥

02 अस्य पिब - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य पि॑ब क्षु॒मतः॒ प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ ।
स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ॥

03 ममत्तु त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु ।
म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ॥

04 आ द्विबर्हा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ द्वि॒बर्हा॑ अमि॒नो या॒त्विन्द्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मन्धः॑ ।
गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्वः॑ स॒त्रा खेदा॑मरुश॒हा वृ॑षस्व ॥

05 नि तिग्मानि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि ति॒ग्मानि॑ भ्रा॒शय॒न्भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूना॑म् ।
उ॒ग्राय॑ ते॒ सहो॒ बलं॑ ददामि प्र॒तीत्या॒ शत्रू॑न्विग॒देषु॑ वृश्च ॥

06 व्यट्र्य इन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व्य१॒॑र्य इ॑न्द्र तनुहि॒ श्रवां॒स्योजः॑ स्थि॒रेव॒ धन्व॑नो॒ऽभिमा॑तीः ।
अ॒स्म॒द्र्य॑ग्वावृधा॒नः सहो॑भि॒रनि॑भृष्टस्त॒न्वं॑ वावृधस्व ॥

07 इदं हविर्मघवन्तुभ्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दं ह॒विर्म॑घव॒न्तुभ्यं॑ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय ।
तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्यं॑ प॒क्वो॒३॒॑ऽद्धी॑न्द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ॥

08 अद्धीदिन्द्र प्रस्थितेमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒द्धीदि॑न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो॑ दधिष्व पच॒तोत सोम॑म् ।
प्रय॑स्वन्तः॒ प्रति॑ हर्यामसि त्वा स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ॥

09 प्रेन्द्राग्निभ्यां सुवचस्यामियर्मि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेन्द्रा॒ग्निभ्यां॑ सुवच॒स्यामि॑यर्मि॒ सिन्धा॑विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः ।
अया॑ इव॒ परि॑ चरन्ति दे॒वा ये अ॒स्मभ्यं॑ धन॒दा उ॒द्भिद॑श्च ॥