११४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ घर्मा ’ इति दशर्चं द्वितीयं सूक्तं वैश्वदेवम् । सध्रिर्नाम वैरूप ऋषिः । तपसः पुत्रो घर्मो वा । चतुर्थी जगती । शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तं - ‘ घर्मा सध्रिस्तापसो वा घर्मों वैश्वदेवं चतुर्थी जगती ’ इति । गतो विनियोगः ।।

Jamison Brereton

114 (940)
All Gods
Sadhri Vairūpa or Gharma Tāpasa
10 verses: triṣṭubh, except jagatī 4
A mystical treatment of the sacrifice, whose mysteries unfortunately remain for the most part unsolved, despite many attempts to identify the referents and relation ships of the striking images presented. We will not here add another, most likely doomed, experiment in exegesis, although some possible referents are inserted in brackets below. What is clear is that the elements in the ritual and elements in the

cosmic world are identified with each other (in the style of the bandhus, or mysti cal identifications, so characteristic of middle Vedic literature), but by way of a mediating esoteric image that can apply to both (at least to “those who know”). This style is especially evident in the first verses of the hymn, while numerology comes more and more to dominate the later verses. Indeed, significant numbers are found from the very beginning (the two heats of vs. 1, the three dissolutions of vs. 2, the four braids and two eagles of vs. 3), but the manipulation of numbers begins in earnest with verses 4–5. These same two verses contrast the poet with his “simple mind,” who sees only one entity (vs. 4), with the inspired ones and sage poets (vs. 5), who use their words to make that single entity manifold. Even though many of the details of this enigmatic hymn remain obscure, we can see in this contrast the inherent message of the hymn, that insight and its verbal product, poetry, have the power to give shape and multiplicity to the perceptible world.

01 घर्मा समन्ता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

घर्मा᳓ स᳓मन्ता त्रिवृ᳓तं वि᳓ आपतुस्
त᳓योर् जु᳓ष्टिम् मातरि᳓श्वा जगाम
दिव᳓स् प᳓यो दि᳓धिषाणा अवेषन्
विदु᳓र् देवाः᳓ सह᳓सामानम् अर्क᳓म्

02 तिस्रो देष्थ्राय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तिस्रो᳓ देष्ट्रा᳓य नि᳓रृतीर् उ᳓पासते
दीर्घश्रु᳓तो वि᳓ हि᳓ जान᳓न्ति व᳓ह्नयः
ता᳓सां नि᳓ चिक्युः कव᳓यो निदा᳓नम्
प᳓रेषु या᳓ गु᳓हियेषु व्रते᳓षु

03 चतुष्कपर्दा युवतिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

च᳓तुष्कपर्दा युवतिः᳓ सुपे᳓शा
घृत᳓प्रतीका वयु᳓नानि वस्ते
त᳓स्यां सुपर्णा᳓ वृ᳓षणा नि᳓ षेदतुर्
य᳓त्र देवा᳓ दधिरे᳓ भागधे᳓यम्

04 एकः सुपर्णः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓कः सुपर्णः᳓ स᳓ समुद्र᳓म् आ᳓ विवेश
स᳓ इदं᳓ वि᳓श्वम् भु᳓वनं वि᳓ चष्टे
त᳓म् पा᳓केन म᳓नसापश्यम् अ᳓न्तितस्
त᳓म् माता᳓ रेळ्हि स᳓ उ रेळ्हि मात᳓रम्

05 सुपर्णं विप्राः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुपर्णं᳓ वि᳓प्राः कव᳓यो व᳓चोभिर्
ए᳓कं स᳓न्तम् बहुधा᳓ कल्पयन्ति
छ᳓न्दांसि च द᳓धतो अध्वरे᳓षु
ग्र᳓हान् सो᳓मस्य मिमते दुवा᳓दश

06 षथ्त्रिंशाँश्च चतुरः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

षट्त्रिंशां᳓श् च चतु᳓रः कल्प᳓यन्तश्
छ᳓न्दांसि च द᳓धत आदुवादश᳓म्
यज्ञं᳓ विमा᳓य कव᳓यो मनीष᳓
ऋक्सामा᳓भ्याम् प्र᳓ र᳓थं वर्तयन्ति

07 चतुर्दशान्ये महिमानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

च᳓तुर्दशान्ये᳓ महिमा᳓नो अस्य
तं᳓ धी᳓रा वाचा᳓ प्र᳓ णयन्ति सप्त᳓
आ᳓प्नानं तीर्थं᳓ क᳓ इह᳓ प्र᳓ वोचद्
ये᳓न पथा᳓ प्रपि᳓बन्ते सुत᳓स्य

08 सहस्रधा पञ्चदशान्युक्था - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्रधा᳓ पञ्चदशा᳓नि उक्था᳓
या᳓वद् द्या᳓वापृथिवी᳓ ता᳓वद् इ᳓त् त᳓त्
सहस्रधा᳓ महिमा᳓नः सह᳓स्रं
या᳓वद् ब्र᳓ह्म वि᳓ष्ठितं ता᳓वती वा᳓क्

09 कश्छन्दसां योगमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓श् छ᳓न्दसां यो᳓गम् आ᳓ वेद धी᳓रः
को᳓ धि᳓ष्णियाम् प्र᳓ति वा᳓चम् पपाद
क᳓म् ऋत्वि᳓जाम् अष्टमं᳓ शू᳓रम् आहुर्
ह᳓री इ᳓न्द्रस्य नि᳓ चिकाय कः᳓ स्वित्

10 भूम्या अन्तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भू᳓म्या अ᳓न्तम् प᳓रि ए᳓के चरन्ति
र᳓थस्य धूर्षु᳓ युक्ता᳓सो अस्थुः
श्र᳓मस्य दायं᳓ वि᳓ भजन्ति एभियो
यदा᳓ यमो᳓ भ᳓वति हर्मिये᳓ हितः᳓