१११

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ मनीषिणः’ इति दशर्चं द्वादशं सूक्तं वैरूपस्याष्ट्रादंष्ट्रस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रम्यते– ‘ मनीषिणो दशाष्ट्रादंष्ट्रः’ इति । गतो विनियोगः ॥

Jamison Brereton

111 (937)
Indra
Aṣṭrādaṃṣṭra Vairūpa
10 verses: triṣṭubh
On the one hand, this hymn simply recites, in straightforward but artful fashion, some of Indra’s most celebrated deeds: the Vala myth and the freeing of the cows/ dawns (vss. 3–4, possibly 2), the Vr̥tra myth and the freeing of the waters (vss. 6, 8–10), with several others glancingly referred to: the propping of heaven and fixation of the earth (vss. 4–5), the smashing of Śuṣṇa (vs. 5). As often, the Vala and Vr̥tra myths are sometimes superimposed upon each other, with the cows/dawns of the former conflated with the waters (also female) of the latter. For example, the first pāda of verse 8 seems to continue the travels of the Dawns found in verse 7, but the next pāda makes it clear that the referent is actually the waters of the Vr̥tra myth.
On the other hand, and especially in its first few verses, the hymn concerns itself with the interaction between poems and deeds. In verse 1 we poets rouse Indra by making his deeds real, that is, by celebrating them in poetry. In verse 2 the poetry almost seems to precede and stimulate the deed, and verse 3 provides us a picture of Indra whose knowledge of his own deeds seems to derive from hearing about them from poets. If our understanding of verse 4 is correct, the power of poetry to provoke the deeds it celebrates is put into the mythic past, with the Aṅgirases bring
ing Indra’s feats to realization by their hymns. Although this theme disappears in the rest of the hymn, to a poetically acute audience its resonances would probably still be felt in the more conventional treatment of Indra’s deeds that follows.

01 मनीषिणः प्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓नीषिणः प्र᳓ भरध्वम् मनीषां᳓
य᳓था-यथा मत᳓यः स᳓न्ति नॄणा᳓म्+
इ᳓न्द्रं सत्यइ᳓र् ए᳓रयामा कृते᳓भिः
स᳓ हि᳓ वीरो᳓ गिर्वणस्यु᳓र् वि᳓दानः

02 ऋतस्य हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋत᳓स्य हि᳓ स᳓दसो धीति᳓र् अ᳓द्यौत्
सं᳓ गार्ष्टेयो᳓ वृषभो᳓ गो᳓भिर् आनट्
उ᳓द् अतिष्ठत् तविषे᳓णा र᳓वेण
महा᳓न्ति चित् सं᳓ विव्याचा र᳓जांसि

03 इन्द्रः किल - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रः कि᳓ल श्रु᳓तिया अस्य᳓ वेद
स᳓ हि᳓ जिष्णुः᳓ पथिकृ᳓त् सू᳓रियाय
आ᳓न् मे᳓नां कृण्व᳓न् अ᳓च्युतो भु᳓वद् गोः᳓
प᳓तिर् दिवः᳓ सनजा᳓ अ᳓प्रतीतः

04 इन्द्रो मह्ना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो मह्ना᳓ महतो᳓ अर्णव᳓स्य
व्रता᳓मिनाद् अ᳓ङ्गिरोभिर् गृणानः᳓
पुरू᳓णि चिन् नि᳓ तताना र᳓जांसि
दाधा᳓र यो᳓ धरु᳓णं सत्य᳓ताता

05 इन्द्रो दिवः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो दिवः᳓ प्रतिमा᳓नम् पृथिव्या᳓
वि᳓श्वा वेद स᳓वना ह᳓न्ति शु᳓ष्णम्
महीं᳓ चिद् द्या᳓म् आ᳓तनोत् सू᳓रियेण
चास्क᳓म्भ चित् क᳓म्भनेन स्क᳓भीयान्

06 वज्रेण हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓ज्रेण हि᳓ वृत्रहा᳓ वृत्र᳓म् अ᳓स्तर्
अ᳓देवस्य शू᳓शुवानस्य मायाः᳓
वि᳓ धृष्णो अ᳓त्र धृषता᳓ जघन्थ
अ᳓थाभवो मघवन् बाहु᳓ओजाः

07 सचन्त यदुषसः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓चन्त य᳓द् उष᳓सः सू᳓रियेण
चित्रा᳓म् अस्य केत᳓वो रा᳓म् अविन्दन्
आ᳓ य᳓न् न᳓क्षत्रं द᳓दृशे दिवो᳓ न᳓
पु᳓नर् यतो᳓ न᳓किर् अद्धा᳓ नु᳓ वेद

08 दूरं किल - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दूरं᳓ कि᳓ल प्रथमा᳓ जग्मुर् आसाम्
इ᳓न्द्रस्य याः᳓ प्रसवे᳓ सस्रु᳓र् आ᳓पः
कु᳓व स्विद् अ᳓ग्रं कु᳓व बुध्न᳓ आसाम्
आ᳓पो म᳓ध्यं कु᳓व वो नून᳓म् अ᳓न्तः

09 सृजः सिन्धूँरहिना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सृजः᳓ सि᳓न्धूँर् अ᳓हिना जग्रसानाँ᳓
आ᳓द् इ᳓द् एताः᳓ प्र᳓ विविज्रे जवे᳓न
मु᳓मुक्षमाणा उत᳓ या᳓ मुमुच्रे᳓
अ᳓धे᳓द् एता᳓ न᳓ रमन्ते नि᳓तिक्ताः

10 सध्रीचीः सिन्धुमुशतीरिवायन्त्सनाज्जार - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सध्री᳓चीः सि᳓न्धुम् उशती᳓र् इवायन्
सना᳓ज् जार᳓ आरितः᳓ पूर्भि᳓द् आसाम्
अ᳓स्तम् आ᳓ ते · पा᳓र्थिवा व᳓सूनि
अस्मे᳓ जग्मुः सूनृ᳓ता इन्द्र पूर्वीः᳓