११०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘समिद्धः’ इत्येकादशर्चमेकादशं सूक्तं त्रैष्टुभम् । भार्गवो जमदग्निर्ऋषिः । तस्य पुत्रो रामो वा यः परशुराम इति प्रख्यातः । आप्रीसूक्तमिदम् । अतः समिदाद्याः सतनूनपातो नराशंसवर्जिताः प्रत्यृचं देवताः । तथा चानुक्रान्तं— समिद्ध एकादश जमदग्निस्तत्सुतो वा राम आप्रियः’ इति । पशौ जामदग्न्यानामिदमाप्रीसूक्तं यद्वाविशेषण सर्वेषाम् । सूत्रितं च – समिद्धो अद्येति सर्वेषां यथर्षि वा ’ ( आश्व. श्रौ. ३. २ ) इति । अग्निचयनाङ्गभूते प्राजापत्ये पशौं सर्वेषां नित्यमिदमाप्रीसूक्तम् । सूत्रितं च - प्राजापत्ये तु जामदग्न्यः सर्वेषाम् ’ ( आश्व. श्रौ. ३. २ ) इति ॥

Jamison Brereton

110 (936)
Āprı̄
Jamadagni Bhārgava or Rāma Jāmadagnya
11 verses: triṣṭubh
One of the ten Āprī hymns in the R̥gveda, structured litanies to be recited at the animal sacrifice, each verse with its own key word. This hymn follows the stan dard Āprī pattern of course, but is notable for the amount of internal recycling of phraseology (see the echoes between vss. 2 and 10; 3 and 9; 4, 7, and 10; 4 and 8). As usual, the key words are italicized.

01 समिद्धो अद्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓मिद्धो अद्य᳓ म᳓नुषो दुरोणे᳓
देवो᳓ देवा᳓न् यजसि जातवेदः
आ᳓ च व᳓ह मित्रमहश् चिकित्वा᳓न्
तुवं᳓ दूतः᳓ कवि᳓र् असि प्र᳓चेताः

02 तनूनपात्पथ ऋतस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓नूनपात् पथ᳓ ऋत᳓स्य या᳓नान्
म᳓ध्वा समञ्ज᳓न् स्वदया सुजिह्व
म᳓न्मानि धीभि᳓र् उत᳓ यज्ञ᳓म् ऋन्ध᳓न्
देवत्रा᳓ च कृणुहि अध्वरं᳓ नः

03 आजुह्वान ईड्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आजु᳓ह्वान ई᳓डियो व᳓न्दियश् च
आ᳓ याहि अग्ने व᳓सुभिः सजो᳓षाः
तुवं᳓ देवा᳓नाम् असि यह्व हो᳓ता
स᳓ एनान् यक्षि इषितो᳓ य᳓जीयान्

04 प्राचीनं बर्हिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राची᳓नम् बर्हिः᳓ प्रदि᳓शा पृथिव्या᳓
व᳓स्तोर् अस्या᳓ वृज्यते अ᳓ग्रे अ᳓ह्नाम्
वि᳓ उ प्रथते वितरं᳓ व᳓रीयो
देवे᳓भियो अ᳓दितये सियोन᳓म्

05 व्यचस्वतीरुर्विया वि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व्य᳓चस्वतीर् उर्विया᳓ वि᳓ श्रयन्ताम्
प᳓तिभ्यो न᳓ ज᳓नयः शु᳓म्भमानाः
दे᳓वीर् द्वारो बृहतीर् विश्वमिन्वा
देवे᳓भियो भवत सुप्रायणाः᳓

06 आ सुष्वयन्ती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ सुष्व᳓यन्ती यजते᳓ उ᳓पाके
उषा᳓सान᳓क्ता सदतां नि᳓ यो᳓नौ
दिव्ये᳓ यो᳓षणे बृहती᳓ सुरुक्मे᳓
अ᳓धि श्रि᳓यं शुक्रपि᳓शं द᳓धाने

07 दैव्या होतारा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दइ᳓व्या हो᳓तारा प्रथमा᳓ सुवा᳓चा
मि᳓माना यज्ञ᳓म् म᳓नुषो य᳓जध्यै
प्रचोद᳓यन्ता विद᳓थेषु कारू᳓
प्राची᳓नं ज्यो᳓तिः प्रदि᳓शा दिश᳓न्ता

08 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो यज्ञ᳓म् भा᳓रती तू᳓यम् एतु
इ᳓ळा मनुष्व᳓द् इह᳓ चेत᳓यन्ती
तिस्रो᳓ देवी᳓र् बर्हि᳓र् ए᳓दं᳓ सियोनं᳓
स᳓रस्वती सुअ᳓पसः सदन्तु

09 य इमे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ इमे᳓ द्या᳓वापृथिवी᳓ ज᳓नित्री
रूपइ᳓र् अ᳓पिंशद् भु᳓वनानि वि᳓श्वा
त᳓म् अद्य᳓ होतर् इषितो᳓ य᳓जीयान्
देवं᳓ त्व᳓ष्टारम् इह᳓ यक्षि विद्वा᳓न्

10 उपावसृज त्मन्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उपा᳓वसृज त्म᳓निया समञ्ज᳓न्
देवा᳓नाम् पा᳓थ ऋतुथा᳓ हवीं᳓षि
व᳓नस्प᳓तिः शमिता᳓ देवो᳓ अग्निः᳓
स्व᳓दन्तु हव्य᳓म् म᳓धुना घृते᳓न

11 सद्यो जातो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सद्यो᳓ जातो᳓ वि᳓ अमिमीत यज्ञ᳓म्
अग्नि᳓र् देवा᳓नाम् अभवत् पुरोगाः᳓
अस्य᳓ हो᳓तुः प्रदि᳓श्य् ऋत᳓स्य वाचि᳓
स्वा᳓हाकृतं हवि᳓र् अदन्तु देवाः᳓