१०८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ किमिच्छन्ती’ इत्येकादशर्चं नवमं सूक्तं त्रैष्टुभम् । ऐन्द्रपुरोहितस्य बृहस्पतेर्गोषु वलनाम्नोऽसुरस्य भटैः पणिनामकैरसुरैरपहृत्य गुहायां निहितासु सतीषु बृहस्पतिप्रेरितेनेन्द्रेण गवामन्वेषणाय सरमा नाम देवशुनी प्रेषिता । सा च महतीं नदीमुत्तीर्य वलपुरं प्राप्य गुप्तस्थाने नीतास्ता गा ददर्श । अथ तस्मिन्नन्तरे पणय इदं वृत्तान्तमवगच्छन्त एनां मित्रीकर्तुं संवादमकुर्वन् । तत्र प्रथमातृतीयाद्या अयुजोऽन्त्यावर्जिताः पणीनां वाक्यानि । अत्र त ऋषयः सरमा देवता । द्वितीया चतुर्थ्याद्या युज एकादशी च षट् सरमाया वाक्यानि । अतस्तासु सर्षिः पणयो देवता । तथा चानुक्रान्तं – किमिच्छन्ती पणिभिरसुरैर्निगूळहा गा अन्वेष्टुं सरमा देवशुनीमिन्द्रेण प्रहितामयुग्भिः पणयो मित्रीयन्तः प्रोचुः सा तान्युग्मान्त्याभिरनिच्छन्ती प्रत्याचष्टे’ इति । गतो विनियोगः ॥

Jamison Brereton

108 (934)
Saramā and the Paṇis
Saramā and Paṇis
11 verses: triṣṭubh
In the interpretation of this well-known and delightful dialogue hymn we follow the compelling study by Hanns-Peter Schmidt in his Br̥haspati und Indra (1968: 185– 89). This dialogue takes place in the midst of a narrative whose outlines are clear, even if its details are not. The Paṇis have entrapped cattle in a cave. Indra and the ancient Vedic seers wish to release the cattle. Therefore, Indra sends his dog Saramā to track down the Paṇis and to demand the release of the cattle. She crosses the Rasā, the river at the border of the world that separates heaven and earth, and finds the Paṇis. The Paṇis refuse to surrender the cattle, however, and at the end Indra and the seers—the Aṅgirases and Navagvas—themselves come to the place where the Paṇis have hidden the cattle. They break open the cave through the power of the hymns they compose and chant. Because Indra’s weapon in this story is not the vajra, the mace with which he destroys Vr̥tra, but the truth embodied in the hymns that Indra and the seers recite, Indra is here called Br̥haspati, “Lord of the Sacred Formulation.”
The story also tells of the coming of the dawns, since the power of Indra’s and the seer’s words lies in the secret truth that the cattle are the dawns. Note that at the end, the poet uses the power of this truth for his own ends: through the truth of his hymn, he should acquire or recover cattle.
Despite the seriousness of the theme, it is hard to believe that the audience did not relish the depiction of a talking dog, especially one as saucy and forthright as the faithful Saramā, who resists the offered blandishments of the Paṇis, to remain loyal to her master Indra.

Geldner

Der Pani:

01 किमिच्छन्ती सरमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

किमि॒च्छन्ती॑ स॒रमा॒ प्रेदमा॑नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः ।
कास्मेहि॑तिः॒ का परि॑तक्म्यासीत्क॒थं र॒साया॑ अतरः॒ पयां॑सि ॥

02 इन्द्रस्य दूतीरिषिता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्ती॑ पणयो नि॒धीन्वः॑ ।
अ॒ति॒ष्कदो॑ भि॒यसा॒ तन्न॑ आव॒त्तथा॑ र॒साया॑ अतरं॒ पयां॑सि ॥

03 कीदृङ्ङिन्द्रः सरमे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

की॒दृङ्ङिन्द्रः॑ सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् ।
आ च॒ गच्छा॑न्मि॒त्रमे॑ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ॥

04 नाहं तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नाहं तं वे॑द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् ।
न तं गू॑हन्ति स्र॒वतो॑ गभी॒रा ह॒ता इन्द्रे॑ण पणयः शयध्वे ॥

05 इमा गावः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मा गावः॑ सरमे॒ या ऐच्छः॒ परि॑ दि॒वो अन्ता॑न्त्सुभगे॒ पत॑न्ती ।
कस्त॑ एना॒ अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा सन्ति ति॒ग्मा ॥

06 असेन्या वः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒से॒न्या वः॑ पणयो॒ वचां॑स्यनिष॒व्यास्त॒न्वः॑ सन्तु पा॒पीः ।
अधृ॑ष्टो व॒ एत॒वा अ॑स्तु॒ पन्था॒ बृह॒स्पति॑र्व उभ॒या न मृ॑ळात् ॥

07 अयं निधिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं नि॒धिः स॑रमे॒ अद्रि॑बुध्नो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्न्यृ॑ष्टः ।
रक्ष॑न्ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गन्थ ॥

08 एह गमन्नृषयः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एह ग॑म॒न्नृष॑यः॒ सोम॑शिता अ॒यास्यो॒ अङ्गि॑रसो॒ नव॑ग्वाः ।
त ए॒तमू॒र्वं वि भ॑जन्त॒ गोना॒मथै॒तद्वचः॑ प॒णयो॒ वम॒न्नित् ॥

09 एवा च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा च॒ त्वं स॑रम आज॒गन्थ॒ प्रबा॑धिता॒ सह॑सा॒ दैव्ये॑न ।
स्वसा॑रं त्वा कृणवै॒ मा पुन॑र्गा॒ अप॑ ते॒ गवां॑ सुभगे भजाम ॥

10 नाहं वेद - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नाहं वे॑द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिन्द्रो॑ विदु॒रङ्गि॑रसश्च घो॒राः ।
गोका॑मा मे अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी॑यः ॥

11 दूरमित पणयो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दू॒रमि॑त पणयो॒ वरी॑य॒ उद्गावो॑ यन्तु मिन॒तीरृ॒तेन॑ ।
बृह॒स्पति॒र्या अवि॑न्द॒न्निगू॑ळ्हाः॒ सोमो॒ ग्रावा॑ण॒ ऋष॑यश्च॒ विप्राः॑ ॥