१०७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आविः’ इत्येकादशर्चमष्टमं सूक्तम् । दिव्यो नामाङ्गिरस ऋषिः । प्रजापतेः सुता दक्षिणा सा वा ऋषिका । ‘शतधारं वायुम्’ इति चतुर्थी जगती शिष्टा दश त्रिष्टुभः । अनेन सूक्तेन ऋत्विग्भ्यो दीयमाना दक्षिणा तद्दातारो यजमाना वा स्तूयन्ते । अतः सैव देवता । तथा चानुक्रान्तम् - आविर्दिव्यो दक्षिणा वा प्राजापत्या दक्षिणां तद्दातॄन्वास्तौच्चतुर्थी जगती’ इति । गतो विनियोगः ॥

Jamison Brereton

107 (933)
Daksiṇ ̣ā (Priestly Gift) or Its Givers
Divya Āṅgirasa or Dakṣiṇā Prājāpatyā
11 verses: triṣṭubh, except jagatī 4
These extravagant praises of the dakṣiṇā (“priestly gift”), which is given by the sacrificer to the various priests who officiate at his sacrifice, are clearly in the poet’s interests, as he stands to receive a portion of the sacrificer’s largesse. The hymn sel dom strays from its point—that a dakṣiṇā, once given, brings untold benefits to the giver, both material and spiritual, far exceeding the value of the original gift. It is a persuasive, if somewhat monotone, piece of work.

01 आविरभून्महि माघोनमेषाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आवि᳓र् अभून् म᳓हि मा᳓घोनम् एषां
वि᳓श्वं जीवं᳓ त᳓मसो नि᳓र् अमोचि
म᳓हि ज्यो᳓तिः पितृ᳓भिर् दत्त᳓म् आ᳓गाद्
उरुः᳓ प᳓न्था द᳓क्षिणाया अदर्शि

02 उच्चा दिवि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उच्चा᳓ दिवि᳓ द᳓क्षिणावन्तो +++(यजमाना)+++ अस्थुर्
ये᳓ अश्व-दाः᳓ सह᳓ ते᳓ सू᳓र्येण ।
हिरण्य-दा᳓ अ-मृतत्वं᳓ भजन्ते
वासो-दाः᳓ सोम प्र᳓ तिरन्त आ᳓युः ॥

03 दैवी पूर्तिर्दक्षिणा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दइ᳓वी पूर्ति᳓र् द᳓क्षिणा देवयज्या᳓
न᳓ कवारि᳓भ्यो नहि᳓ ते᳓ पृण᳓न्ति
अ᳓था न᳓रः प्र᳓यतदक्षिणासो
अवद्यभिया᳓ बह᳓वः पृणन्ति

04 शतधारं वायुमर्कम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

शत᳓धारं वायु᳓म् अर्कं᳓ सुवर्वि᳓दं
नृच᳓क्षसस् ते᳓ अभि᳓ चक्षते हविः᳓
ये᳓ पृण᳓न्ति प्र᳓ च य᳓छन्ति संगमे᳓
ते᳓ द᳓क्षिणां दुहते सप्त᳓मातरम्

05 दक्षिणावान्प्रथमो हूत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द᳓क्षिणावान् प्रथमो᳓ हूत᳓ एति
द᳓क्षिणावान् ग्रामणी᳓र् अ᳓ग्रम् एति
त᳓म् एव᳓ मन्ये नृप᳓तिं ज᳓नानां
यः᳓ प्रथमो᳓ द᳓क्षिणाम् आविवा᳓य

06 तमेव ऋषिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् एव᳓ ऋ᳓षिं त᳓म् उ ब्रह्मा᳓णम् आहुर्
यज्ञनि᳓यं सामगा᳓म् उक्थशा᳓सम्
स᳓ शुक्र᳓स्य तनु᳓वो वेद तिस्रो᳓
यः᳓ प्रथमो᳓ द᳓क्षिणया ररा᳓ध

07 दक्षिणाश्वं दक्षिणा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द᳓क्षिणा᳓श्वं द᳓क्षिणा गां᳓ ददाति
द᳓क्षिणा चन्द्र᳓म् उत᳓ य᳓द् धि᳓रण्यम्
द᳓क्षिणा᳓न्नं वनुते यो᳓ न आत्मा᳓
द᳓क्षिणां व᳓र्म कृणुते विजान᳓न्

08 न भोजा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ भोजा᳓ मम्रुर् न᳓ निअर्थ᳓म् ईयुर्
न᳓ रिष्यन्ति न᳓ व्यथन्ते ह भोजाः᳓
इदं᳓ य᳓द् वि᳓श्वम् भु᳓वनं सु᳓वश् च
एत᳓त् स᳓र्वं द᳓क्षिणैभ्यो ददाति

09 भोजा जिग्युः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भोजा᳓ जिग्युः सुरभिं᳓ यो᳓निम् अ᳓ग्रे
भोजा᳓ जिग्युर् वधु᳓वं या᳓ सुवा᳓साः
भोजा᳓ जिग्युर् अन्तःपे᳓यं सु᳓राया
भोजा᳓ जिग्युर् ये᳓ अ᳓हूताः प्रय᳓न्ति

10 भोजायाश्वं सम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भोजा᳓य अ᳓श्वं स᳓म् मृजन्ति आशु᳓म्
भोजा᳓यास्ते कनि᳓या शु᳓म्भमाना
भोज᳓स्येद᳓म् पुष्करि᳓णीव वे᳓श्म
प᳓रिष्कृतं देवमाने᳓व चित्र᳓म्

11 भोजमश्वाः सुष्टुवाहो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भोज᳓म् अ᳓श्वाः सुष्ठुवा᳓हो वहन्ति
सुवृ᳓द् र᳓थो वर्तते द᳓क्षिणायाः
भोजं᳓ देवासो अवता भ᳓रेषु
भोजः᳓ श᳓त्रून् समनीके᳓षु जे᳓ता