१०५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘कदा’ इत्येकादशर्चं षष्ठं सूक्तमैन्द्रम् । कुत्सपुत्रो नाम्ना दुर्मित्रो गुणतः सुमित्रः यद्वा नाम्ना सुमित्रो गुणतो दुर्मित्रः स ऋषिः । ‘ हरी यस्य सुयुजा ’ ‘वज्रं यश्चक्रे ’ इति द्वे पिपीलिकमध्ये एकादशषट्कैकादशके उष्णिहौ । अन्त्या त्रिष्ट्रप् । आद्या गायत्री वा । अक्षरब्यून पक्षान्तर उष्णिक् । शिष्टाः सर्वाः सप्तोष्णिहः । तथा चानुक्रान्तं- कदा कौत्सो दुर्मित्रो नाम्ना सुमित्रो गुणतः सुमित्रो वा नाम्ना दुर्मित्रो गुणत औष्णिहं हरी वज्रं पिपीलिकमध्ये त्रिष्टबन्त्याद्या गायत्री वा ’ इति । गतो विनियोगः ॥

Jamison Brereton

105 (931)
Indra
Durmitra Kautsa or Sumitra Kautsa
11 verses: predominately uṣṇih (per Anukramaṇī)
The meter of this hymn is, to say the least, highly irregular and variable from verse to verse. Despite the Anukramaṇī analysis it is better analyzed as consisting mainly of verses with a seven-syllable middle pāda, and one or more triṣṭubh pādas before and/or after. See Oldenberg (1888: 158–59).
The hymn also poses many problems of interpretation, and the metrical and ver bal anomalies have led many commentators to consider the text corrupt—a judg ment by which we are tempted. Even if not corrupt, the text is stylistically abrupt, contorted, and compressed, and many puzzles remain unsolved. The hymn also appears to be jocular in places, making sly fun of Indra and cutting him down to size. This is especially clear in the section devoted to Indra’s pair of fallow bay horses (vss. 2–5), where the poet implies that without his horses Indra is nothing

much: it’s the horses that give him prestige (see esp. vss. 3–4). The sections concern ing his weapon (vss. 6–7) and the sacrifice (vss. 8–10) accord Indra more of his usual glory, but still in oblique phraseology.

01 कदा वसो - उष्णिग्गायत्री वा

विश्वास-प्रस्तुतिः ...{Loading}...

कदा᳓ वसो · स्तोत्रं᳓ ह᳓र्यते आ᳓
अ᳓व श्मशा᳓ रुधद्† वाः᳓
दीर्घं᳓ सुतं᳓ वाता᳓प्याय

02 हरी यस्य - पिपीलिकमध्या

विश्वास-प्रस्तुतिः ...{Loading}...

ह᳓री य᳓स्य सुयु᳓जा वि᳓व्रता वे᳓र्
अ᳓र्वन्ता अ᳓नु शे᳓पा
उभा᳓ रजी᳓ न᳓ केशि᳓ना प᳓तिर् द᳓न्

03 अप योरिन्द्रः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓प यो᳓र् इ᳓न्द्रः पा᳓पज
आ᳓ म᳓र्तो न᳓ शश्रमाणो᳓ बिभीवा᳓न्
शुभे᳓ य᳓द् युयुजे᳓ त᳓विषीवान्

04 सचायोरिन्द्रश्चकृड़्ष आँ - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓चायो᳓र् इ᳓न्द्रश् च᳓र्कृष
आँ᳓ उपानसः᳓ सपर्य᳓न्
नद᳓योर् वि᳓व्रतयोः शू᳓र इ᳓न्द्रः

05 अधि यस्तस्थौ - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धि य᳓स् तस्थउ᳓ के᳓शवन्ता
व्य᳓चस्वन्ता न᳓ पुष्टियइ᳓
वनो᳓ति शि᳓प्राभ्यां शिप्रि᳓णीवान्

06 प्रास्तौदृष्वौजा ऋष्वेभिस्ततक्ष - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रा᳓स्तौद् ऋष्वउ᳓जा ऋष्वे᳓भिस्
तत᳓क्ष शू᳓रः श᳓वसा
ऋभु᳓र् न᳓ क्र᳓तुभिर् मातरि᳓श्वा

07 वज्रं यश्चक्रे - पिपीलिकमध्या

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓ज्रं य᳓श् चक्रे᳓ सुह᳓नाय द᳓स्यवे
हिरीमशो᳓ हि᳓रीमान्
अ᳓रुतहनुर् अ᳓द्भुतं न᳓ र᳓जः

08 अव नो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓व नो वृजिना᳓ शिशीह्य्
ऋचा᳓ वनेम अनृ᳓चः
ना᳓ब्रह्मा यज्ञ᳓ ऋ᳓धग् जो᳓षति त्वे᳓

09 ऊर्ध्वा यत्ते - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वा᳓ य᳓त् ते त्रेति᳓नी भू᳓द्
यज्ञ᳓स्य धूर्षु᳓ स᳓द्मन्
सजू᳓र् ना᳓वं स्व᳓यशसं स᳓चायोः᳓

10 श्रिये ते - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रिये᳓ ते पृ᳓श्निर् उपसे᳓चनी भूच्
छ्रिये᳓ द᳓र्विर् अरेपाः᳓
य᳓या सुवे᳓ पा᳓तरे सिञ्च᳓से उ᳓त्

11 शतं वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं᳓ वा य᳓द् असुरिय प्र᳓ति त्वा
सुमित्र᳓ इत्था᳓ अस्तौद्
दुर्मित्र᳓ इत्था᳓ अस्तौत्
आ᳓वो य᳓द् दस्युह᳓त्ये कुत्सपुत्र᳓म्
प्रा᳓वो य᳓द् दस्युह᳓त्ये कुत्सवत्स᳓म्