१०३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ आशुः शिशानः’ इति त्रयोदशर्चं चतुर्थं सूक्तमिन्द्रपुत्रस्याप्रतिरथनाम्न आर्षम्। त्रयोदश्यनुष्टुप् शिष्टास्त्रिष्टुभः। बृहस्पते परि दीय’ इत्यस्या बृहस्पतिर्देवता । ‘ अमीषां चित्तम्’ इत्यस्या अप्वाख्या देवी देवता । शिष्टा ऐन्द्र्यः । त्रयोदशी विकल्पेन मारुती। तथा चानुक्रान्तम्- आशुः सप्तोनैन्द्रोऽप्रतिरथश्चतुर्थी बार्हस्पत्योपान्त्याप्वादेव्यन्त्यानुष्टुग्मारुती वा ’ इति । साग्निचित्ये क्रतौ चित्यग्निषु प्रणीयमानेषु दक्षिणतो व्रजता ब्रह्मणैतत्सूक्तं जप्यम् । तथा च सूत्रितं- दक्षिणतश्च व्रजञ्जपत्याशुः शिशान इति सूक्तं समाप्य’ (आश्व. श्रौ. १. १२) इति । ‘ ब्रह्माप्रतिरथं जपित्वा’ ( आश्व. श्रौ. ४. ८) इति च । युद्धार्थं राज्ञः संनहनेऽनेन सूक्तेन राजेक्षितव्यः । सूत्रितं च’ अथैनमन्वीक्षेताप्रतिरथशाससौपर्णैः’ (आश्व. गृ. ३. १२. १३) इति ॥

सायणोक्त-विनियोगः

२१७७ (अथ चतुर्थकाण्डे षष्ठमप्रपाठके चतुर्थोऽनुवाकः)।
तृतीयोऽनुवाकेऽग्निप्रणयनमुक्तम्।
अथाप्रतिरथसूक्तमुच्यते।
कल्पः — “आशुः शिशान इतिं दक्षिणतो ब्रह्मा दशर्चेनान्वेति मैत्रावरुणः प्रतिप्रस्थाता वा” इति।
तत्र प्रथमामाह— आशुः शिशान इति।

Jamison Brereton

103 (929)
Indra (1–3, 5–11), Br̥haspati (4), Āpva (12), Indra or the Maruts (13)
Apratiratha Aindra
13 verses: triṣṭubh, except anuṣṭubh 13
A martial hymn, dense with expressions of overwhelming power and victorious might. The early parts of the hymn present Indra as the unconquerable conqueror. Stylistically this part is marked by repetition and especially by the chaining of key lexical items from the end of one verse to the beginning of the next. Curiously, X.84, a hymn to “Battle Fury,” also shows this type of concatenation, and so it may be that stitching verses together in this way creates a sort of magically impenetrable verbal armor.
In the course of the hymn the focus shifts from exclusive concentration on Indra to our warriors and the inspiration Indra’s model should provide for them to per form heroically in battle. Our men are first addressed already in the second half of verse 2, but it is in verse 6 and then in verses 10–13 that the application of Indra’s behavior to that of our men and the transference of his skills and courage to them really come to the fore.

01 आशुः शिशानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आशुः᳓ शि᳓शानो+++(=तीक्ष्णो)+++ वृषभो᳓ न᳓ युध्मो᳓+++(=योधा)+++
घनाघनः᳓+++(=घातकः)+++ क्षो᳓भणश् चर्षणीना᳓म्+++(=पदातीनाम्)+++।
संक्र᳓न्दनो ऽनिमिष᳓ एक-वीरः᳓
शतँ᳓ से᳓ना अजयत् साक᳓म् इ᳓न्द्रः ॥

02 सङ्क्रन्दनेनानिमिषेण जिष्णुना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सङ्क्र᳓न्दनेनानिमिषे᳓ण जिष्णु᳓ना
युत्-कारे᳓ण+++(=युद्धकारिणा)+++ दुश्च्यवने᳓न धृष्णु᳓ना+++(=निर्भयेन)+++।
त᳓द् इ᳓न्द्रेण जयत त᳓त् सहध्वं
यु᳓धो नर इ᳓षु-हस्तेन वृ᳓ष्णा+++(=कामवर्षकेन)+++ ॥

03 स इषुहस्तैः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ इ᳓षु-हस्तैः स᳓ निषङ्गि᳓भिर् +++(=खड्गिभिर्)+++ वशी᳓
सँ᳓स्रष्टा+++(=संमिश्रकः)+++ स᳓ यु᳓ध+++(=योद्धा)+++ इ᳓न्द्रो +++(पर)+++गणे᳓न।
सँसृष्ट-जि᳓त् सोमपा᳓ बाहु-शर्ध्य्+++(=बली)+++
ऊ᳙र्ध्व-धन्वा प्र᳓तिहिताभिर् अ᳓स्ता+++(=क्षेप्ता)+++ ॥

04 बृहस्पते परि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बृ᳓हस्+++(=वाचस्)+++पते प᳓रि दीया+++(=द्रव)+++ र᳓थेन
रक्षो-हा᳓ ऽमि᳓त्राँ अपबा᳓धमानः
प्रभञ्ज᳓न्त् से᳓नाः प्रमृणो᳓+++(=प्रहिंस्रो)+++ युधा᳓
ज᳓यन्न् अस्मा᳓कम् एध्य् अविता᳓ र᳓थानाम् ॥

05 बलविज्ञाय स्थविरः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बलविज्ञायः᳓ स्थ᳓विरः प्र᳓वीरः
स᳓हस्वान् वाजी᳓ स᳓हमान उग्रः᳓।
अभि᳓वीरो अभि᳓सत्वा+++(←सत्वन्=योद्धृ)+++ सहोजा᳓
जै᳓त्रम् इन्द्र र᳓थम् आ᳓ तिष्ठ गोवि᳓त् ॥

06 गोत्रभिदं गोविदम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गोत्र-भि᳓दं गो-वि᳓दं व᳓ज्र-बाहुं
ज᳓यन्तम् अ᳓ज्म+++(म्)+++ प्रमृण᳓न्तम् ओ᳓जसा।
इमँ᳓ सजाता अ᳓नु वीरयध्वम्
इ᳓न्द्रँ सखायो᳓ ऽनु सँ᳓ रभध्वम्

07 अभि गोत्राणि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓गोत्रा᳓णि स᳓हसा गा᳓हमानो
ऽदायो᳓ वीर᳓श् शत᳓-मन्युर् इ᳓न्द्रः।
दुश्च्यवनᳶ᳓ पृतना-षा᳓ड् अ-युद्ध्यो᳙
ऽस्माकँ से᳓ना अवतु प्र᳓ युत्सु᳓ ॥

08 इन्द्र आसाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र आसां नेता᳓, बृ᳓हस्प᳓तिर्
द᳓क्षिणा, यज्ञः᳓ पुर᳓ एतु सो᳓मः।
देव-सेना᳓नाम् अभिभञ्जतीनां᳓
ज᳓यन्तीनां मरु᳓तो यन्त्व् अ᳓ग्रे ॥

09 इन्द्रस्य वृष्णो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रस्य वृ᳓ष्णो, व᳓रुणस्य रा᳓ज्ञ,
आदित्या᳓नां मरु᳓ताँ श᳓र्ध उग्र᳓म्।
महा᳓-मनसां भुवन-च्यवा᳓नां
घो᳓षो देवा᳓नां ज᳓यताम् उ᳓द्-अस्थात् ॥

10 उद्धर्षय मघवन्नायुधान्युत्सत्वनाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द्+धर्षय मघवन्न् आ᳓युधान्य्
उ᳓त् स᳓त्वनां+++(=योद्धॄणां)+++ मामका᳓नां म᳓हाँसि।
उ᳓द् वृत्र-हन् वाजि᳓नां वा᳓जिनान्य्+++(=वेगाः)+++
उ᳓द् र᳓थानां ज᳓यताम् एतु घो᳓षः

11 अस्माकमिन्द्रः समृतेषु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्का᳓कम् इ᳓न्द्रः स᳓म्-ऋतेषु ध्वजे᳓ष्व्
अस्मा᳓कं या᳓ इ᳓षवस् ता᳓ जयन्तु
अस्मा᳓कं वीरा᳓ उ᳓त्तरे भवन्त्व्
अस्मा᳓न् उ देवा अवता ह᳓वेषु ॥

12 अमीषां चित्तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अमी᳓षां चित्त᳓म् प्रतिलोभ᳓यन्ती
गृहाणा᳓ङ्गानु अपुवे प᳓रेहि
अभि᳓ प्रे᳓हि नि᳓र् दह हृत्सु᳓ शो᳓कैर्
अन्धे᳓नामि᳓त्रास् त᳓मसा सचन्ताम्

13 प्रेता जयता - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ इता ज᳓यता नर
इ᳓न्द्रो वः श᳓र्म यछतु
उग्रा᳓ वः सन्तु बाह᳓वो
अनाधृष्या᳓ य᳓था᳓सथ