०९८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘बृहस्पते प्रति ’ इति द्वादशर्चमष्टमं सूक्तं त्रैष्टुभं बृहस्पतिमित्रादिसर्वदेवताकम् । ऋष्टिषेणपुत्रो देवापिर्नामर्षिः । तथा चानुक्रान्तं- बृहस्पते द्वादशार्ष्टिषेणो देवापिर्वृष्टिकामो देवांस्तुष्टाव’ । गतः सूक्तविनियोगः । अस्य सूक्तस्याख्यानं निरुक्तकारः प्रदर्शयति– देवापिश्चार्ष्टिषेणः शंतनुश्च कौरव्यौ भ्रातरौ बभूवतुः । स शंतनुः कनीयानभिषेचयांचक्रे देवापिस्तपः प्रतिपेदे । ततः शंतनो राज्ये द्वादश वर्षाणि देवो न ववर्ष । तमूचुर्ब्राह्मणा अधर्मंस्त्वया चरितो ज्येष्ठं भ्रातरमन्तरित्या भिषेचितं तस्मात्ते देवो न वर्षतीति । स शंतनुर्देवापिं शिशिक्ष राज्येन । तमुवाच देवापिः पुरोहितस्तेऽसानि याजयानि च एवेति । तस्यैतद्वर्षकामसूक्तम्’ (निरु. २. १०) इति ॥

Jamison Brereton

98 (924)
Devāpi’s Plea for Rain
Devāpi Ārṣṭiṣeṇa
12 verses: triṣṭubh
This hymn contains a prayer for rain, set in the context of a similar (successful) prayer in legendary time. The protagonists of this legend are Devāpi, a priest and poet, in fact the Hotar and Purohita (at this late stage in the R̥gveda this latter priestly role seems to have become established) for Śaṃtanu, presumably a king, and the god Br̥haspati. The first four verses consist of a dialogue between Devāpi (vss. 1, 3), Br̥haspati (vs. 2), and, in our view, Śaṃtanu (vs. 4, though some schol
ars consider this verse the speech of Br̥haspati). Devāpi requests Br̥haspati to act as intermediary for him, asking the appropriate god to send rain. Devāpi must have made this request standing by the ritual fire, for in verse 2 Br̥haspati identifies Agni as their go-between and then provides Devāpi with a speech, presumably a charm that can provoke rain. Devāpi acknowledges this gift in verse 3, and in verse 4 Śaṃtanu asks Devāpi to perform sacrifice.
The next three verses (5–7) summarize the successful outcome of this story. With verse 8 the hymn turns to present time and to the god Agni, who carried the original plea from Devāpi to Br̥haspati. The present poet again asks Agni to send rain (vss. 8, 10, 12), while mentioning somewhat wistfully the many sacrificial gifts we might receive (vs. 9)—gifts that he then offers to Agni (vs. 10) to present in turn to Indra (vs. 11).

01 बृहस्पते प्रति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बृ᳓हस्पते प्र᳓ति मे देव᳓ताम् इहि
मित्रो᳓ वा य᳓द् व᳓रुणो वा᳓सि पूषा᳓
आदित्यइ᳓र् वा य᳓द् व᳓सुभिर् मरु᳓त्वान्
स᳓ पर्ज᳓न्यं शं᳓तनवे वृषाय

02 आ देवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ देवो᳓ दूतो᳓ अजिर᳓श् चिकित्वा᳓न्
तुव᳓द् देवापे अभि᳓ मा᳓म् अगछत्
प्रतीचीनः᳓ प्र᳓ति मा᳓म् आ᳓ ववृत्स्व
द᳓धामि ते द्युम᳓तीं वा᳓चम् आस᳓न्

03 अस्मे धेहि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मे᳓ धेहि द्युम᳓तीं वा᳓चम् आस᳓न्
बृ᳓हस्पते अनमीवा᳓म् इषिरा᳓म्
य᳓या वृष्टिं᳓ शं᳓तनवे व᳓नाव
दिवो᳓ द्रप्सो᳓ म᳓धुमाँ आ᳓ विवेश

04 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो द्रप्सा᳓ म᳓धुमन्तो विशन्तु
इ᳓न्द्र देहि अ᳓धिरथं सह᳓स्रम्
नि᳓ षीद होत्र᳓म् ऋतुथा᳓ यजस्व
देवा᳓न् देवापे हवि᳓षा सपर्य

05 आर्ष्थिषेणो होत्रमृषिर्निषीदन्देवापिर्देवसुमतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आर्ष्टिषेणो᳓ होत्र᳓म् ऋ᳓षिर् निषी᳓दन्
देवा᳓पिर् देवसुमतिं᳓ चिकित्वा᳓न्
स᳓ उ᳓त्तरस्माद् अ᳓धरं समुद्र᳓म्
अपो᳓ दिव्या᳓ असृजद् वर्षि᳓या अभि᳓

06 अस्मिन्त्समुद्रे अध्युत्तरस्मिन्नापो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मि᳓न् समुद्रे᳓ अ᳓धि उ᳓त्तरस्मिन्न्
आ᳓पो देवे᳓भिर् नि᳓वृता अतिष्ठन्
ता᳓ अद्रवन्न् आर्ष्टिषेणे᳓न सृष्टा᳓
देवा᳓पिना प्रे᳓षिता मृक्षि᳓णीषु

07 यद्देवापिः शन्तनवे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् देवा᳓पिः शं᳓तनवे पुरो᳓हितो
होत्रा᳓य वृतः᳓ कृप᳓यन्न् अ᳓दीधेत्
देवश्रु᳓तं वृष्टिव᳓निं र᳓राणो
बृ᳓हस्प᳓तिर् वा᳓चम् अस्मा अयछत्

08 यं त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं᳓ त्वा देवा᳓पिः शुशुचानो᳓ अग्न
आर्ष्टिषेणो᳓ मनुषि᳓यः समीधे᳓
वि᳓श्वेभिर् देवइ᳓र् अनुमद्य᳓मानः
प्र᳓ पर्ज᳓न्यम् ईरया वृष्टिम᳓न्तम्

09 त्वां पूर्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवा᳓म् पू᳓र्व ऋ᳓षयो गीर्भि᳓र् आयन्
त्वा᳓म् अध्वरे᳓षु पुरुहूत वि᳓श्वे
सह᳓स्राणि अ᳓धिरथानि अस्मे᳓
आ᳓ नो यज्ञं᳓ रोहिदश्वो᳓प याहि

10 एतान्यग्ने नवतिर्नव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓नि अग्ने नवति᳓र् न᳓व त्वे᳓
आ᳓हुतानि अ᳓धिरथा सह᳓स्रा
ते᳓भिर् वर्धस्व तन्वः᳡ शूर पूर्वी᳓र्
दिवो᳓ नो वृष्टि᳓म् इषितो᳓ रिरीहि

11 एतान्यग्ने नवतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓नि अग्ने नवतिं᳓ सह᳓स्रा
स᳓म् प्र᳓ यछ वृ᳓ष्ण इ᳓न्द्राय भाग᳓म्
विद्वा᳓न् पथ᳓ ऋतुशो᳓ देवया᳓नान्
अ᳓प्य् औलानं᳓ दिवि᳓ देवे᳓षु धेहि

12 अग्ने बाधस्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने बा᳓धस्व वि᳓ मृ᳓धो वि᳓ दुर्ग᳓हा
अ᳓पा᳓मीवाम् अ᳓प र᳓क्षांसि सेध
अस्मा᳓त् समुद्रा᳓द् बृहतो᳓ दिवो᳓ नो
अपा᳓म् भूमा᳓नम् उ᳓प नः सृजेह᳓