०९७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘या ओषधीः’ इति त्रयोविंशत्यृचं सप्तमं सूक्तम् । अथर्वणः पुत्रस्य भिषङ्नाम्न आर्षम् । अनुष्टुभमौषधिदेवताकम् । तथा चानुक्रान्तं—-’ या औषधीस्त्र्यधिकाथर्वणो भिषगोषधिस्तुतिरानुष्टुभम्’ इति । दीक्षितानां ज्वराद्युपतापे संजातेऽनेन सूक्तेन मार्जयेत् । सूत्रितं च– ओषधिसूक्तेन चाप्लाव्यानुमृजेत्’ (आश्व. श्रौ. ६. ९) इति ॥

Jamison Brereton

97 (923)
Plants
Bhiṣaj Ātharvaṇa
23 verses: anuṣṭubh
Atharvan in character, this hymn is addressed to the healing plants, which are praised for their lineage and their powers and implored to provide remedies for particular sick men. The 1st-person speaker is presumably not merely the poet but also the healer, and he calls on the plants to lend their power to his verbal healing spells (see esp. vs. 14).

01 याओषधीः पूर्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ ओ᳓षधीः पू᳓र्वा जाता᳓
देवे᳓भ्यस् त्रियुग᳓म् पुरा᳓
म᳓नै नु᳓ बभ्रू᳓णाम् अहं᳓
शतं᳓ धा᳓मानि सप्त᳓ च

02 शतं वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शतं᳓ वो अम्ब धा᳓मानि
सह᳓स्रम् उत᳓ वो रु᳓हः
अ᳓धा शतक्रत्वो यूय᳓म्
इम᳓म् मे अगदं᳓ कृत

03 ओषधीः प्रति - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ओ᳓षधीः प्र᳓ति मोदध्वम्
पु᳓ष्पवतीः प्रसू᳓वरीः
अ᳓श्वा इव सजि᳓त्वरीर्
वीरु᳓धः पारयिष्णु᳓वः

04 ओषधीरिति मातरस्तद्वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ओ᳓षधीर् इ᳓ति मातरस्
त᳓द् वो देवीर् उ᳓प ब्रुवे
सने᳓यम् अ᳓श्वं गां᳓ वा᳓स
आत्मा᳓नं त᳓व पूरुष

05 अश्वत्थे वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वत्थे᳓ वो निष᳓दनम्
पर्णे᳓ वो वसति᳓ष् कृता᳓
गोभा᳓ज इ᳓त् कि᳓लासथ
य᳓त् सन᳓वथ पू᳓रुषम्

06 यत्रौषधीः समग्मत - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त्रउ᳓षधीः सम᳓ग्मत
रा᳓जानः स᳓मिताव् इव
वि᳓प्रः स᳓ उच्यते भिष᳓ग्
रक्षोहा᳓मीवचा᳓तनः

07 अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वावतीं᳓ सोमावती᳓म्
ऊर्ज᳓यन्तीम् उ᳓दोजसम्
आ᳓वित्सि स᳓र्वा ओ᳓षधीर्
अस्मा᳓ अरिष्ट᳓तातये

08 उच्छुष्माओषधीनां गावो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓च् छु᳓ष्मा ओ᳓षधीनां᳐
गा᳓वो गोष्ठा᳓द् इवेरत्
ध᳓नं सनिष्य᳓न्तीना᳐म्
आत्मा᳓नं त᳓व पूरुष

09 इष्कृतिर्नाम वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓ष्कृतिर् ना᳓म वो माता᳓
अ᳓थो यूयं᳓ स्थ नि᳓ष्कृतीः
सीराः᳓ पतत्रि᳓णी स्थन
य᳓द् आम᳓यति नि᳓ष् कृथ

10 अति विश्वाः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ति वि᳓श्वाः परिष्ठा᳐᳓
स्तेन᳓ ऽव° व्रज᳓म् अक्रमुः
ओ᳓षधीः प्र᳓ अचुच्यवुर्
य᳓त् किं᳓ च तनु᳓वो र᳓पः

11 यदिमा वाजयन्नहमोषधीर्हस्त - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् इमा᳓ वाज᳓यन्न् अह᳓म्
ओ᳓षधीर् ह᳓स्त आदधे᳓
आत्मा᳓ य᳓क्ष्मस्य नश्यति
पुरा᳓ जीवगृ᳓भो यथा

12 यस्यौषधीः प्रसर्पथाङ्गमङ्गम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्यौषधीः प्रस᳓र्पथ
अ᳓ङ्गम्-अङ्गम् प᳓रुष्-परुः
त᳓तो य᳓क्ष्मं वि᳓ बाधध्व
उग्रो᳓ मध्यमशी᳓र् इव

13 साकं यक्ष्म - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

साकं᳓ यक्ष्म प्र᳓ पत
चा᳓षेण किकिदीवि᳓ना
साकं᳓ वा᳓तस्य ध्रा᳓जिया
साकं᳓ नश्य निहा᳓कया

14 अन्या वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्या᳓ वो अन्या᳓म् अवतु
अन्या᳓न्य᳓स्या उ᳓पावत
ताः᳓ स᳓र्वाः संविदाना᳓
इद᳓म् मे प्रा᳓वता व᳓चः

15 याः फलिनीर्या - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

याः᳓ फलि᳓नीर् या᳓ अफला᳓
अपुष्पा᳓ या᳓श् च पुष्पि᳓णीः
बृ᳓हस्प᳓तिप्रसूतास्
ता᳓ नो मुञ्चन्तु अं᳓हसः

16 मुञ्चन्तु मा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मुञ्च᳓न्तु मा शपथि᳓याद्
अ᳓थो वरुणि᳓याद् उत᳓
अ᳓थो यम᳓स्य प᳓ड्बीशात्
स᳓र्वस्माद् देवकिल्बिषा᳓त्

17 अवपतन्तीरवदन्दिवओषधयस्परि यम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अवप᳓तन्तीर् अवदन्
दिव᳓ ओ᳓षधयस् प᳓रि
यं᳓ जीव᳓म् अश्न᳓वामहै
न᳓ स᳓ रिष्याति पू᳓रुषः

18 याओषधीः सोमराज्ञीर्बह्विः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ ओ᳓षधीः सो᳓मराज्ञीर्
बह्वीः᳓ शत᳓विचक्षणाः
ता᳓सां त्व᳓म् असि उत्तमा᳓
अ᳓रं का᳓माय शं᳓ हृदे᳓

19 याओषधीः सोमराज्ञीर्विष्टिताः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ ओ᳓षधीः सो᳓मराज्ञीर्
वि᳓ष्ठिताः पृथिवी᳓म् अ᳓नु
बृ᳓हस्प᳓तिप्रसूता
अस्यइ᳓ सं᳓ दत्त वीरि᳓यम्

20 मा वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ वो रिषत् खनिता᳓
य᳓स्मै चाहं᳓ ख᳓नामि वः
द्विप᳓च् च᳓तुष्पद् अस्मा᳓कं
स᳓र्वम् अस्तु अनातुर᳓म्

21 याश्चेदमुपशृण्वन्ति याश्च - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓श् चेद᳓म् उपशृण्व᳓न्ति
या᳓श् च दूर᳓म् प᳓रागताः
स᳓र्वाः संग᳓त्य वीरुधो
अस्यइ᳓ सं᳓ दत्त वीरि᳓यम्

22 ओषधयः सम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ओ᳓षधयः सं᳓ वदन्ते
सो᳓मेन सह᳓ रा᳓जञा
य᳓स्मै कृणो᳓ति ब्राह्मण᳓स्
तं᳓ राजन् पारयामसि

23 त्वमुत्तमास्योषधे तव - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓म् उत्तमा᳓सि ओषधे
त᳓व वृक्षा᳓ उ᳓पस्तयः
उ᳓पस्तिर् अस्तु सो᳡ ऽस्मा᳓कं
यो᳓ अस्माँ᳓ अभिदा᳓सति