०९६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

प्र ते मह इति त्रयोदशर्चं षष्ठं सूक्तं वरुर्नामांगिरसऋषिः इन्द्रस्य पुत्रः सर्वहरिर्वा नाम द्वादशीत्रयोदश्यौ त्रिष्टुभौ शिष्टा एकादश जगत्यः इन्द्रस्याश्वौ हरी तयोरत्र स्तूयमानत्वात्तद्देव- ताकमिदं तथा चानुक्रान्तं - प्र ते सप्तोना वरुः सर्वहरिर्वेन्द्रो हरिस्तुतिर्द्वित्रिष्टुबन्तं । अतिरात्रे तृतीये पर्याये ब्राह्मणाच्छंसिन एतत्सूक्तं सूत्रितं च – प्र ते मह ऊती शचीवस्तव वीर्येणेति याज्येति । षोडशिशस्त्रेप्याद्यस्तृचः शंसनीयः । सूत्रितं च- प्र ते महे विदथे शंसिषं हरी इति तिसो जगत्य इति ।

Jamison Brereton

96 (922)
Praise of Indra’s Horses
Baru Āṅgirasa or Sarvahari Aindra
13 verses: jagatī, except triṣṭubh 12–13
Like III.44 the design of this hymn is an extended pun between the words hári/hárita “gold-colored, tawny” (used regularly for soma and for Indra’s “fallow bay” horses) and the verb hárya “enjoy” and its derivatives. As in III.44 we have rendered the former as “golden,” even in reference to the horses, and the latter as “gladden(ing),” as a close English equivalent of this play on words. A subsidiary pun is persistent through the hymn, involving the golden mace and the golden soma (see, e.g., vs. 3); the referent of the adjective is often not expressed, and the audience is free to fill in either or both. The context often allows either, and since they are identical in gender, there is no grammatical obstacle. Similar ambiguity is found between the golden horses and the golden soma (e.g., vs. 10). In other verbal twists the “wrong” qualifier is used, but the underlying pun evokes the “right” one. Thus in verse 4 the “gladdening” mace is compared to the sun, which should really be “golden.”

01 प्र ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ते महे᳓ विद᳓थे शंसिषं ह᳓री
प्र᳓ ते वन्वे वनु᳓षो हर्यत᳓म् म᳓दम्
घृतं᳓ न᳓ यो᳓ ह᳓रिभिश् चा᳓रु से᳓चत
आ᳓ त्वा विशन्तु ह᳓रिवर्पसं गि᳓रः

02 हरिं हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ह᳓रिं हि᳓ यो᳓निम् अभि᳓ ये᳓ सम᳓स्वरन्
हिन्व᳓न्तो ह᳓री दिवियं᳓ य᳓था स᳓दः
आ᳓ य᳓म् पृण᳓न्ति ह᳓रिभिर् न᳓ धेन᳓व
इ᳓न्द्राय शूषं᳓ ह᳓रिवन्तम् अर्चत

03 सो अस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓ अस्य व᳓ज्रो ह᳓रितो य᳓ आयसो᳓
ह᳓रिर् नि᳓कामो ह᳓रिर् आ᳓ ग᳓भस्तियोः
द्युम्नी᳓ सुशिप्रो᳓ ह᳓रिमन्युसायक
इ᳓न्द्रे नि᳓ रूपा᳓ ह᳓रिता मिमिक्षिरे

04 दिवि न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दिवि᳓ न᳓ केतु᳓र् अ᳓धि धायि हर्यतो᳓
विव्य᳓चद् व᳓ज्रो ह᳓रितो न᳓ रं᳓हिया
तुद᳓द् अ᳓हिं ह᳓रिशिप्रो य᳓ आयसः᳓
सह᳓स्रशोका अभवद् धरिम्भरः᳓

05 त्वन्त्वमहर्यथा उपस्तुतः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓-तुवम् अहर्यथा उ᳓पस्तुतः
पू᳓र्वेभिर् इन्द्र हरिकेश य᳓ज्वभिः
तुवं᳓ हर्यसि त᳓व वि᳓श्वम् उक्थि᳓यम्
अ᳓सामि रा᳓धो हरिजात हर्यत᳓म्

06 ता वज्रिणम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ वज्रि᳓णम् मन्दि᳓नं स्तो᳓मियम् म᳓द
इ᳓न्द्रं र᳓थे वहतो हर्यता᳓ ह᳓री
पुरू᳓णि अस्मै स᳓वनानि ह᳓र्यत
इ᳓न्द्राय सो᳓मा ह᳓रयो दधन्विरे

07 अरं कामाय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓रं का᳓माय ह᳓रयो दधन्विरे
स्थिरा᳓य हिन्वन् ह᳓रयो ह᳓री तुरा᳓
अ᳓र्वद्भिर् यो᳓ ह᳓रिभिर् जो᳓षम् ई᳓यते
सो᳓ अस्य का᳓मं ह᳓रिवन्तम् आनशे

08 हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ह᳓रिश्मशारुर् ह᳓रिकेश आयस᳓स्
तुरस्पे᳓ये यो᳓ हरिपा᳓ अ᳓वर्धत
अ᳓र्वद्भिर् यो᳓ ह᳓रिभिर् वाजि᳓नीवसुर्
अ᳓ति वि᳓श्वा दुरिता᳓ पा᳓रिषद् ध᳓री

09 स्रुवेव यस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स्रु᳓वेव य᳓स्य ह᳓रिणी विपेत᳓तुः
शि᳓प्रे वा᳓जाय ह᳓रिणी द᳓विध्वतः
प्र᳓ य᳓त् कृते᳓ चमसे᳓ म᳓र्मृजद् ध᳓री
पीत्वा᳓ म᳓दस्य हर्यत᳓स्य अ᳓न्धसः

10 उत स्म - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्म स᳓द्म हर्यत᳓स्य पस्ति᳓योर्
अ᳓त्यो न᳓ वा᳓जं ह᳓रिवाँ अचिक्रदत्
मही᳓ चिद् धि᳓ धिष᳓णा᳓हर्यद् ओ᳓जसा
बृह᳓द् व᳓यो दधिषे हर्यत᳓श् चिद् आ᳓

11 आ रोदसी - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ रो᳓दसी ह᳓र्यमाणो महित्वा᳓
न᳓व्यं-नव्यं हर्यसि म᳓न्म नु᳓ प्रिय᳓म्
प्र᳓ पस्ति᳓यम् असुर हर्यतं᳓ गो᳓र्
आवि᳓ष् कृधि ह᳓रये सू᳓रियाय

12 आ त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त्वा हर्य᳓न्तम् प्रयु᳓जो ज᳓नानां
र᳓थे वहन्तु ह᳓रिशिप्रम् इन्द्र
पि᳓बा य᳓था प्र᳓तिभृतस्य म᳓ध्वो
ह᳓र्यन् यज्ञं᳓ सधमा᳓दे द᳓शोणिम्

13 अपाः पूर्वेषाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓पाः पू᳓र्वेषां हरिवः सुता᳓नाम्
अ᳓थो इदं᳓ स᳓वनं के᳓वलं ते
ममद्धि᳓ सो᳓मम् म᳓धुमन्तम् इन्द्र
सत्रा᳓ वृषञ् जठ᳓र आ᳓ वृषस्व