०९५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अष्टकेऽष्टमकेऽध्यायश्चतुर्थः संप्रदर्शितः ।।

धीमता सायणार्येण पञ्चमोऽथ प्रदश्यते ॥

तत्र ‘हये जाये’ इत्यष्टादशर्चं पञ्चमं सूक्तं त्रैष्टुभम् । अत्रानुक्रमणिका- हये द्व्यूनोर्वशीमैळः पुरूरवाः पूर्वोषितात्कामात् पुनरासाद्यावरोद्धुमैच्छत्सा तमनिच्छन्ती प्रत्याचष्टे हय इषुर्यां कदा सुदेवोऽन्तरिक्षप्रां सचेति तिस्रश्चैळवाक्य शिष्टा उर्वश्याः’ इति । ‘हये जाये’ ‘इषुर्न श्रिये’ ‘या सुजूर्णिः ‘कदा सूनुः’ , ‘सुदेवो अद्य ’ ‘अन्तरिक्षप्रां ’ ‘सचा यदासु जहतीषु’ इत्याद्यास्तिस्रश्चेति नवर्चं ऐळस्य पुरूरवसो वाक्यानि । अतस्तासां स ऋषिः । शिष्टा नवोर्वश्या वाक्यानि । अतस्तासु सर्षिका । उभयोर्वाक्येषु योऽर्थः प्रतिपाद्यते सा देवता । गतो विनियोगः ॥

ऐळोर्वशीतिहासोऽत्र वैशद्याय प्रवर्ण्यते । मित्रश्च वरुणश्चोभौ दीक्षितौ प्रेक्ष्य चोर्वशीम् ॥१॥

रेतः सिषिचतुः सद्यस्तत्कुम्भे न्यदधुस्तदा। तां शप्तवन्तौ मनुजभोग्या भूम्यां भवेति तौ ॥२॥

अत्रान्तर इळो राजा मनोः पुत्रैश्च संयुतः । मृगयां संचरन् साश्वो देवीक्रीडं विवेश ह ॥३॥

यत्र देवं गिरिसुता सर्वैर्भावैरतोषयत् । अत्राविशन्पुमान्स्त्री स्यादित्युक्त्वा तत्र चाविशत् ॥४॥

स्त्री भूत्वा व्रीडितः सोऽगच्छरणं शिवमञ्जसा । इयं प्रसाद्यतां राजन्नित्युक्तः शंभुना नृपः ।।५।।

जगाम शरणं देवीमात्मनः पुंस्त्वसिद्धये । अकरोत्सा नृपं देवी षण्मासात्प्राप्तपुंस्त्वकम् ॥६॥

ततः कदाचित्स्त्रीकाले बुधः सौन्दर्यमोहितः । अप्सरोभ्यो विशिष्टां तामिळां संगतवान् मुदा ॥७॥

तदेळायां सोमपुत्राज्जातो राजा पुरूरवाः । तमुर्वशी तु चकमे प्रतिष्ठानपुरे स्थितम् ॥८॥

तल्पादन्यत्र नग्नं त्वां दृष्ट्वा यामि यथागतम् । सुता उरणकौ त्वं च समीपं कुरु मे द्रुतम् ॥९॥

इति सा समयं कृत्वा रमयामास तं नृपम् । चतुरब्दे गते रात्रौ देवैरुरणकद्वयम् ॥१०॥

हृतं तस्य ध्वनिं श्रुत्वा नग्न एव स भूपतिः । उत्थाय जित्वा तावागच्छेत्येवं जल्पकोऽन्यतः ।।११।।

विद्युता दर्शितोऽस्यै सो नग्न एव पुरूरवाः । अथ सा दृष्टसमया ह्युर्वशी तु दिवं ययौ।।१२।।

तत उन्मत्तवद्राजा दिदृशुस्तामितस्ततः । कुर्वन्नन्वेषणं तीरे सरसो मानसस्य ताम् ॥१३॥

विहरन्तीमप्सरोभिः सहापश्यत्पुरूरवाः । पुनः स चकमे भोक्तुमुर्वशीं च पुरूरवाः ॥१४॥

साश्रं सापश्यदुक्ता च प्रत्याचष्टे व्रजेति तम् । इत्युर्वश्यैळसंवादमिममेपोऽप्यसूचयत् ॥१५॥इति॥

अत्र वाजसनेयकम्— ‘उर्वशी हाप्सराः पुरूरवसमैळं चकमे तं ह विन्दमानोवाच त्रिः स्म माह्नो वैतसेन दण्डेन हतादकामाँ स्म मा निपद्यासै सो स्म त्वा नग्नं दर्शमेष वै न स्त्रीणामुपचार इति । सा हास्मिञ्ज्योगुवासापि हास्माद्गर्भिण्यास तावज्ज्योग्घास्मिन्नुवास ततो ह गन्धर्वाः समूदिरे ज्योग्वा इयमुर्वशी मनुष्येष्ववत्सदुपजानीत यथेयं पुनरागच्छेदिति तस्यै हाविर्द्व्युरणा शयन उपबद्धास ततो ह गन्धर्वी अन्यतरमुरणं प्रमेथुः । स होवाचावीर इव बत मेऽजन इव पुत्रं हरन्तीति द्वितीयं प्रमेथुः सा ह तथैवोवाच । अथ हायमीक्षांचक्रे कथं नु तदवीरं कथमजनं स्याद्यत्राहँ स्यामिति स नग्न एवानुत्पपात चिरं तन्मेने यद्वासः पर्यधास्यत ततो ह गन्धर्वा विद्युतं जनयांचक्रुस्तं यथा दिवैवं नग्नं ददर्श ततो हैवेयं तिरोबभूव पुनरैमीत्येत्तिरोभूतां स आध्या जल्पन्कुरुक्षेत्रं समया चचारान्यतःप्लक्षेति बिसवती तस्यै हाध्यन्तेन वव्राज तद्ध ता अप्सरस आतयो भूत्वा परिपुप्लुविरे । तँ हेयं ज्ञात्वोवाच अथ वै स मनुष्यो यस्मिन्नमवात्समिति तो होचुस्तस्मै वा आविरसामेति तथेति तस्मै हाविरासुः । ताँ हायं ज्ञात्वाभिपरोवाद हये जाये मनसा’ (श. ब्रा. ११. ५. १) इत्यादि ।

Jamison Brereton

95 (921)
Purūravas and Urvaśı̄
Dialogue between Purūravas Aiḍa and Urvaśī
18 verses: triṣṭubh
This very famous and much-discussed hymn contains the dialogue between the Apsaras Urvaśī and her discarded mortal husband Purūravas. He accosts her on her journey (presumably back to her fellow Apsarases) and demands that they discuss what went wrong with their marriage (vs. 1). He reminisces about her beauty (vs. 3) and her good wifely ways (vs. 4), while she impatiently dismisses him (vs. 2) and provides her own view of her service as wife (vs. 5). The next verses (6–11) primarily concern the crowd of Apsarases who attended Urvaśī when she gave birth to her and Purūravas’s son Āyu. Purūravas evinces some jealousy about (as well as some physical attraction to) these females with whom he competed for Urvaśī’s attention and to whom she is returning, while Urvaśī here implies that Purūravas should have his mind on more manly matters than love, such as military protection (esp. vss. 7 and 11; see also the ironic vocative “hero” in 5).
Urvaśī attempts to dismiss Purūravas again (vs. 11). He tries another tack to keep her from leaving: how can she separate him from his loving son (vs. 12)—to which she briskly replies that she’ll send him the kid, chillingly referred to in the neuter, back to him (vs. 12). The second half of this verse forms a ring with the second half of verse 2, her first speech: she seems thus to be trying to bring the conversation to a close. But Purūravas raises the stakes: with masterfully expressed self-pity he then suggests that he may disappear or die (and won’t she be sorry then…?, vs. 14). Urvaśī wearily talks him out of it (vss. 15–16). He tries one more time (vs. 17), using a grander and more solemn linguistic register. The hymn ends with a somewhat enigmatic summary verse (18) containing the gods’ address to Purūravas at the end of this affair. Because Purūravas’s connection with the immortal Apsaras (note that Apsarases are called “immortal” in vs. 9) was severed and his son was returned to him, the mortal, he is bound to death, and his offspring will relate to the gods as mortals do, by sacrifice. But he will nonetheless later receive a joyous afterlife in heaven. (It is noteworthy that this is the only occurrence of the word svargá “heaven” in the R̥gveda.)
One of the many extraordinary features of this brief masterpiece is the way it replicates the shifting emotional logic, the abrupt changes of tone and subject, and the twisting of the other’s words characteristic of a genuine marital quarrel of whatever era and culture, while presenting us with pictures of great beauty, however difficult the language is to interpret in many places. It is also uncompromising in its depiction of a resolute and hard-hearted female, unmoved by the abject pleas and emotional blackmail of her former lover who is still in love with her, anxious to return to her carefree life with her fellow Apsarases, and happy enough to abandon her child in order to get free.
There are several well-known later versions of this story. The Śatapatha Brāhmaṇa XI.5.1 embeds many of the R̥gvedic verses into a prose narrative, which seems to have misunderstood, deliberately or not, several of the crucial verses. And one of the three surviving plays of the great Classical Sanskrit poet Kālidāsa is a much expanded treatment of the pair’s love affair. No subsequent version can toler ate the radical portrait of the emotionally detached Urvaśī found in the R̥gveda; in all cases the separation of the former lovers is not the result of the female’s decision, but of a curse. In the Śatapatha Brāhmaṇa, a creative misreading of verse 3—involv ing bleating pet lambs tied to a bedpost, a thunderstorm, and the provision that Urvaśī never see Purūravas naked—results in Urvaśī’s disappearance. In Kālidāsa’s play the curse has no connection to anything in the R̥gvedic hymn: a love-besotted Urvaśī brings it on herself by uttering her beloved Purūravas’s name at the wrong time. (In both versions the portrayal of Purūravas does retain his own passion for Urvaśī; in fact in Kālidāsa’s play he goes mad after she disappears and asks birds, beasts, and trees, in the late Middle Indo-Aryan language variety Apabhraṃśa, about her whereabouts.) It is an interesting commentary on the changing fortunes of female figures that the hard edges of the R̥gvedic Urvaśī must be softened to make her acceptable in later literature.

01 हये जाये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हये᳓ जा᳓ये म᳓नसा ति᳓ष्ठ घोरे
व᳓चांसि मिश्रा᳓ कृणवावहै नु᳓
न᳓ नौ म᳓न्त्रा अ᳓नुदितास एते᳓
म᳓यस् करन् प᳓रतरे चना᳓हन्

02 किमेता वाचा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कि᳓म् एता᳓ वाचा᳓ कृणवा त᳓वाह᳓म्
प्रा᳓क्रमिषम् उष᳓साम् अग्रिये᳓व
पु᳓रूरवः पु᳓नर् अ᳓स्तम् प᳓रेहि
दुरापना᳓ वा᳓त इवाह᳓म् अस्मि

03 इषुर्न श्रिय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓षुर् न᳓ श्रिय᳓ इषुधे᳓र्
असना᳓ गोषाः᳓ शतसा᳓ न᳓ रं᳓हिः
अवी᳓रे क्र᳓तौ वि᳓ दविद्युतन् न᳓
उ᳓रा न᳓ मायुं᳓ चितयन्त धु᳓नयः

04 सा वसु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सा᳓ व᳓सु द᳓धती श्व᳓शुराय
व᳓य उ᳓षो य᳓दि व᳓ष्ट्य् अ᳓न्तिगृहात्
अ᳓स्तं ननक्षे य᳓स्मिञ् चाक᳓न्
दि᳓वा न᳓क्तं श्नथिता᳓ वैतसे᳓न

05 त्रिः स्म - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिः᳓ स्म मा᳓ह्नः श्नथयो वैतसे᳓न
उत᳓ स्म मे अ᳓वियत्यै पृणासि
पु᳓रूरवो अ᳓नु ते के᳓तम् आयं
रा᳓जा मे वीर तनु᳓वस् त᳓द् आसीः

06 या सुजूर्णिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ सुजूर्णिः᳓ श्र᳓यणिः+ सुम्न᳓आपिर्
ह्रदे᳓चक्षुर् न᳓ ग्रन्थि᳓नी चरण्युः᳓
ता᳓ अञ्ज᳓यो अरुण᳓यो न᳓ सस्रुः
श्रिये᳓ गा᳓वो न᳓ धेन᳓वो ऽनवन्त

07 समस्मिञ्जायमान आसत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् अस्मिञ् जा᳓यमान आसत ग्ना᳓
उते᳓म् अवर्धन् नदि᳓यः स्व᳓गूर्ताः
महे᳓ य᳓त् त्वा पुरूरवो र᳓णाय
अ᳓वर्धयन् दस्युह᳓त्याय देवाः᳓

08 सचा यदासु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓चा य᳓द् आसु ज᳓हतीषु अ᳓त्कम्
अ᳓मानुषीषु मा᳓नुषो निषे᳓वे
अ᳓प स्म म᳓त् तर᳓सन्ती न᳓ भुज्यु᳓स्
ता᳓ अत्रसन् रथस्पृ᳓शो न᳓ अ᳓श्वाः

09 यदासु मर्तो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् आसु म᳓र्तो अमृ᳓तासु निस्पृ᳓क्
सं᳓ क्षोणी᳓भिः · क्र᳓तुभिर् न᳓ पृङ्क्ते᳓
ता᳓ आत᳓यो न᳓ तन्वः᳡ शुम्भत स्वा᳓
अ᳓श्वासो न᳓ क्रीळ᳓यो द᳓न्दशानाः

10 विद्युन्न या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विद्यु᳓न् न᳓ · या᳓ प᳓तन्ती द᳓विद्योद्
भ᳓रन्ती मे अ᳓पिया का᳓मियानि
ज᳓निष्टो अपो᳓ न᳓रियः सु᳓जातः
प्र᳓ उ᳓र्व᳓शी तिरत दीर्घ᳓म् आ᳓युः

11 जज्ञिष इत्था - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जज्ञिष᳓ इत्था᳓ गो᳐पी᳓थियाय हि᳓
दधा᳓थ त᳓त् पुरूरवो म ओ᳓जः
अ᳓शासं त्वा विदु᳓षी स᳓स्मिन् अ᳓हन्
न᳓ म आ᳓शृणोः कि᳓म् अभु᳓ग् वदासि

12 कदा सूनुः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कदा᳓ सूनुः᳓ पित᳓रं जात᳓ इछाच्
चक्र᳓न् न᳓ अ᳓श्रु वर्तयद् विजान᳓न्
को᳓ द᳓म्पती स᳓मनसा वि᳓ यूयोद्
अ᳓ध य᳓द् अग्निः᳓ श्व᳓शुरेषु दी᳓दयत्

13 प्रति ब्रवाणि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ति ब्रवाणि वर्त᳓यते अ᳓श्रु
चक्र᳓न् न᳓ क्रन्दद् आधि᳓ये शिवा᳓यै
प्र᳓ त᳓त् ते · हिनवा य᳓त् ते अस्मे᳓
प᳓रेहि अ᳓स्तं नहि᳓ मूर मा᳓पः

14 सुदेवो अद्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुदेवो᳓ अद्य᳓ प्रप᳓तेद् अ᳓नावृत्
पराव᳓तम् परमां᳓ ग᳓न्तवा᳓ उ
अ᳓धा श᳓यीत नि᳓रृतेर् उप᳓स्थे
अ᳓धैनं वृ᳓का रभसा᳓सो अद्युः᳓

15 पुरूरवो मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पु᳓रूरवो मा᳓ मृथा मा᳓ प्र᳓ पप्तो
मा᳓ त्वा वृ᳓कासो अ᳓शिवास उ क्षन्
न᳓ वइ᳓ स्त्रइ᳓णानि सखिया᳓नि सन्ति
सालावृका᳓णां हृ᳓दयानि एता᳓

16 यद्विरूपाचरं मर्त्येष्ववसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् वि᳓रूपा अ᳓चरम् म᳓र्तियेषु
अ᳓वसं रा᳓त्रीः शर᳓दश् च᳓तस्रः
घृत᳓स्य स्तोकं᳓ सकृ᳓द् अ᳓ह्न आश्नां
ता᳓द् एवे᳓दं᳓ तातृपाणा᳓ चरामि

17 अन्तरिक्षप्रां रजसो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरिक्षप्रां᳓ र᳓जसो विमा᳓नीम्
उ᳓प शिक्षामि उर्व᳓शीं व᳓सिष्ठः
उ᳓प त्वा रातिः᳓ सुकृत᳓स्य ति᳓ष्ठान्
नि᳓ वर्तस्व हृ᳓दयं तप्यते मे

18 इति त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓ति त्वा देवा᳓ इम᳓ आहुर् ऐळ
य᳓थेम् एत᳓द् भ᳓वसि मृत्यु᳓बन्धुः
प्रजा᳓ ते देवा᳓न् हवि᳓षा यजाति
सुवर्ग᳓ उ त्व᳓म् अ᳓पि मादयासे