०९४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्रैते’ इति चतुर्दशर्चं चतुर्थं सूक्तं कद्र्वाः पुत्रस्य सर्पस्यार्बुदस्यार्षम् । पञ्चमी सप्तमी चतुर्दशी त्रिष्टुभः शिष्टा एकादश जगत्यः । सोमाभिषवार्था ग्रावाणोऽत्र देवता । तथा चानुक्रान्तं—-प्रैते षळूना सर्पोऽर्बुदः काद्रवेयो ग्राव्णोऽस्तौत्पञ्चम्यन्त्ये त्रिष्टुभौ सप्तमी च’ इति । ग्रावस्तोत्र एतत्सूक्तम् । सूत्रित च— प्रैते वदन्त्वित्यर्बुदं प्रागुत्तमाया आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोः ’ ( आश्व. श्रौ. ५. १२) इति । यद्वा । इदमेकमैव सूक्तं ग्रावस्तोत्रम्। सूत्रितं च— अर्बुदमेवेत्येके प्र वो . ग्रावाण इत्येके’ (आश्व. श्रौ. ५, १२) इति ॥

Jamison Brereton

94 (920)
Pressing Stones
The snake Arbuda Kādraveya
14 verses: jagatī, except triṣṭubh 5, 7, 14
This second hymn to the pressing stones (for the relations among the three press ing-stone hymns, see the introduction to X.76) is a playful and imaginative praise of these implements for extracting the soma juice from the plant. The stones are animatized throughout—as human workers, as hungry bulls, as birds, as antelopes, as horses. But there is special emphasis on them as speakers. The first four verses begin with “speaking” verbs (and often continue with them), with a variant phrase beginning verse 5, and the last two verses (13–14) echo these verbs. These last two verses treat the unhitching of the stones, their task completed, and the last pāda of verse 14 rather poignantly not only releases them but de-animatizes them: they are now perceived as just stones.

01 प्रैते वदन्तु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्रइ᳓ते᳓ वदन्तु प्र᳓ वयं᳓ वदाम
ग्रा᳓वभ्यो वा᳓चं वदता व᳓दद्भ्यः
य᳓द् अद्रयः पर्वताः साक᳓म् आश᳓वः
श्लो᳓कं घो᳓षम् भ᳓रथे᳓न्द्राय सोमि᳓नः

02 एते वदन्ति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

एते᳓ वदन्ति शत᳓वत् सह᳓स्रवद्
अभि᳓ क्रन्दन्ति ह᳓रितेभिर् आस᳓भिः
विष्ट्वी᳓ ग्रा᳓वाणः सुकृ᳓तः सुकृत्य᳓या
हो᳓तुश् चित् पू᳓र्वे हविर᳓द्यम् आशत

03 एते वदन्त्यविदन्नना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

एते᳓ वदन्ति अ᳓विदन्न् अना᳓ म᳓धु
नि᳓ ऊङ्खयन्ते अ᳓धि पक्व᳓ आ᳓मिषि
वृक्ष᳓स्य शा᳓खाम् अरुण᳓स्य ब᳓प्सतस्
ते᳓ सू᳓भर्वा वृषभाः᳓ प्रे᳓म् अराविषुः

04 बृहद्वदन्ति मदिरेण - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

बृह᳓द् वदन्ति मदिरे᳓ण मन्दि᳓ना
इ᳓न्द्रं क्रो᳓शन्तो अविदन्न् अना᳓ म᳓धु
संर᳓भ्या धी᳓राः स्व᳓सृभिर् अनर्तिषुर्
आघोष᳓यन्तः पृथिवी᳓म् उपब्दि᳓भिः

05 सुपर्णा वाचमक्रतोप - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुपर्णा᳓ वा᳓चम् अक्रत उ᳓प द्य᳓वि
आखरे᳓ कृ᳓ष्णा इषिरा᳓ अनर्तिषुः
नि᳓अङ् नि᳓ यन्ति उ᳓परस्य निष्कृत᳓म्
पुरू᳓ रे᳓तो दधिरे सूरियश्वि᳓तः

06 उग्रा इव - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उग्रा᳓ इव प्रव᳓हन्तः समा᳓यमुः
साकं᳓ युक्ता᳓ वृ᳓षणो बि᳓भ्रतो धु᳓रः
य᳓च् छ्वस᳓न्तो जग्रसाना᳓ अ᳓राविषुः
शृण्व᳓ एषाम् प्रोथ᳓थो अ᳓र्वताम् इव

07 दशावनिभ्यो दशकक्ष्येभ्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द᳓शावनिभ्यो द᳓शकक्षियेभियो
द᳓शयोक्त्रेभ्यो द᳓शयोजनेभियः
द᳓शाभीशुभ्यो अर्चताज᳓रेभियो
द᳓श धु᳓रो द᳓श युक्ता᳓ व᳓हद्भियः

08 ते अद्रयो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ अ᳓द्रयो द᳓शयन्त्रास आश᳓वस्
ते᳓षाम् आधा᳓नम् प᳓रि एति हर्यत᳓म्
त᳓ ऊ सुत᳓स्य सोमिय᳓स्य अ᳓न्धसो
अंशोः᳓ पीयू᳓षम् प्रथम᳓स्य भेजिरे

09 ते सोमादो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ सोमा᳓दो ह᳓री इ᳓न्द्रस्य निंसते
अंशुं᳓ दुह᳓न्तो अ᳓धि आसते ग᳓वि
ते᳓भिर् दुग्ध᳓म् पपिवा᳓न् सोमिय᳓म् म᳓धु
इ᳓न्द्रो वर्धते प्र᳓थते वृषाय᳓ते

10 वृषा वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षा वो अंशु᳓र् न᳓ कि᳓ला रिषाथन
इ᳓ळावन्तः स᳓दम् इ᳓त् स्थन आ᳓शिताः
रैवत्ये᳓व म᳓हसा चा᳓रव स्थन
य᳓स्य ग्रावाणो अ᳓जुषध्वम् अध्वर᳓म्

11 तृदिला अतृदिलासो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तृदिला᳓ · अ᳓तृदिलासो अ᳓द्रयो
अश्रमणा᳓ अ᳓शृथिता अ᳓मृत्यवः
अनातुरा᳓ अज᳓रा स्था᳓मविष्णवः
सुपीव᳓सो अ᳓तृषिता अ᳓तृष्णजः

12 ध्रुवा एव - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुवा᳓ एव᳓ वः पित᳓रो युगे᳓-युगे
क्षे᳓मकामासः स᳓दसो न᳓ युञ्जते
अजुर्या᳓सो हरिषा᳓चो हरि᳓द्रव
आ᳓ द्यां᳓ र᳓वेण पृथिवी᳓म् अशुश्रवुः

13 तदिद्वदन्त्यद्रयो विमोचने - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् इ᳓द् वदन्ति अ᳓द्रयो विमो᳓चने
या᳓मन्न् अञ्जस्पा᳓ इव घे᳓द् उपब्दि᳓भिः
व᳓पन्तो बी᳓जम् इव धानियाकृ᳓तः
पृञ्च᳓न्ति सो᳓मं न᳓ मिनन्ति ब᳓प्सतः

14 सुते अध्वरे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुते᳓ अध्वरे᳓ अ᳓धि वा᳓चम् अक्रत
आ᳓ क्रीळ᳓यो न᳓ मात᳓रं तुद᳓न्तः
वि᳓ षू᳓ मुञ्चा सुषुवु᳓षो मनीषां᳓
वि᳓ वर्तन्ताम् अ᳓द्रयश् चा᳓यमानाः