०९२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ यज्ञस्य’ इति पञ्चदशर्चं द्वितीयं सूक्तं मनोः पुत्रस्य शार्यातस्यार्षं जागतं बहुदेवताकम् । तथा चानुक्रान्तं – यज्ञस्य शार्यातो मानवो वैश्वदेवं तु जागतम् ’ इति । चातुर्विंशिक आरम्भणीयेऽहनि वैश्वदेवशस्त्र इदं सूक्तं वैश्वदेवनिविद्धानम् । सूत्रितं च – ते हि द्यावापृथिवी यज्ञस्य वो रथ्यम् । ( आश्व. श्रौ. ७. ४) इति । वृष्ट्याभिप्लवषडहयोर्द्वितीयेऽहन्यपीदं वैश्वदेवनिविद्धानम् । ‘ चातुर्विंशिकेन तृतीयसवनम् ’ ( आश्व. श्रौ. ७. ६ ) इति सूत्रकृतातिदिष्टत्वात् ॥

Jamison Brereton

92 (918)
All Gods
Śāryāta Mānava
15 verses: jagatī
A generally disorganized and often puzzling hymn, it nonetheless begins with three well-turned verses to Agni, using some of the same lexicon and imagery as the pre ceding Agni hymn. This initial similarity may account for the placement of the hymn
in the maṇḍala. Two Agni verses also close the hymn (14–15) in a ritual context. What lies between seems to lack structure and logical progression. Some verses contain an odd assortment of divinities and semi-divinities (e.g., vss. 4–5, 11–13); Rudra and/or the Maruts recur in several verses (5–6, 9). Fragments of familiar myths appear without further development—for example, Indra’s interference with the horses of the Sun in verse 8—and other verses contain apparent references to other stories of which we know nothing (e.g., vs. 10). In short, despite some pleas ing passages, the hymn mostly yields frustration.

01 यज्ञस्य वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञ᳓स्य वो रथि᳓यं विश्प᳓तिं विशां᳓
हो᳓तारम् अक्तो᳓र् अ᳓तिथिं विभा᳓वसुम्
शो᳓चञ् छु᳓ष्कासु ह᳓रिणीषु ज᳓र्भुरद्
वृ᳓षा केतु᳓र् यजतो᳓ द्या᳓म् अशायत

02 इममञ्जस्पामुभये अकृण्वत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इम᳓म् अञ्जस्पा᳓म् उभ᳓ये अकृण्वत
धर्मा᳓णम् अग्निं᳓ विद᳓थस्य सा᳓धनम्
अक्तुं᳓ न᳓ यह्व᳓म् उष᳓सः पुरो᳓हितं
त᳓नून᳓पातम् अरुष᳓स्य निंसते

03 बळस्य नीथा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ब᳓ळ् अस्य नीथा᳓ वि᳓ पणे᳓श् च मन्महे
वया᳓ अस्य प्र᳓हुता आसुर् अ᳓त्तवे
यदा᳓ घोरा᳓सो अमृतत्व᳓म् आ᳓शत
आ᳓द् इ᳓ज् ज᳓नस्य दइ᳓वियस्य चर्किरन्

04 ऋतस्य हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ऋत᳓स्य हि᳓ प्र᳓सितिर् द्यउ᳓र् उरु᳓ व्य᳓चो
न᳓मो मही᳓ अर᳓मतिः प᳓नीयसी
इ᳓न्द्रो मित्रो᳓ व᳓रुणः सं᳓ चिकित्रिरे
अ᳓थो भ᳓गः सविता᳓ पूत᳓दक्षसः

05 प्र रुद्रेण - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ रुद्रे᳓ण ययि᳓ना यन्ति सि᳓न्धवस्
तिरो᳓ मही᳓म् अर᳓मतिं दधन्विरे
ये᳓भिः प᳓रिज्मा परिय᳓न्न् उरु᳓ ज्र᳓यो
वि᳓ रो᳓रुवज् जठ᳓रे वि᳓श्वम् उक्ष᳓ते

06 क्राणा रुद्रा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

क्राणा᳓+++(=कुर्वाणाः)+++ रुद्रा᳓ मरु᳓तो विश्व᳓-कृष्टयो
दिवः᳓ श्येना᳓सो +++(दिवः→)+++ अ᳓सुरस्य नीळ᳓यः+++(=नीडिनः)+++ ।
ते᳓भिश् चष्टे+++(=ईक्षन्ते)+++ व᳓रुणो मित्रो᳓ अर्यमा᳓+ +++(इत्य् आदित्याः)+++
+इ᳓न्द्रो देवे᳓भिर् अर्वशे᳓भिर्+++(=शीघ्रैः)+++ अ᳓र्वशः +++(इति वसवः)+++॥+++(5)+++

07 इन्द्रे भुजम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रे भु᳓जं शशमाना᳓स आशत
सू᳓रो दृ᳓शीके वृ᳓षणश् च पउं᳓सिये
प्र᳓ ये᳓ नु᳓ अस्य अर्ह᳓णा ततक्षिरे᳓
यु᳓जं व᳓ज्रं नृष᳓दनेषु कार᳓वः

08 सूरश्चिदा हरितो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सू᳓रश् चिद् आ᳓ हरि᳓तो अस्य रीरमद्
इ᳓न्द्राद् आ᳓ क᳓श् चिद् भयते त᳓वीयसः
भीम᳓स्य वृ᳓ष्णो जठ᳓राद् अभिश्व᳓सो
दिवे᳓-दिवे स᳓हुरि स्तन्न् अ᳓बाधितः

09 स्तोमं वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स्तो᳓मं वो अद्य᳓ रुदरा᳓य+ शि᳓क्वसे
क्षय᳓द्वीराय न᳓मसा दिदिष्टन
ये᳓भिः शिवः᳓ सुअ᳓वाँ एवया᳓वभिर्
दिवः᳓ सि᳓षक्ति स्व᳓यशा नि᳓कामभिः

10 ते हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ हि᳓ प्रजा᳓या अ᳓भरन्त वि᳓ श्र᳓वो
बृ᳓हस्प᳓तिर् वृषभः᳓ सो᳓मजामयः
यज्ञइ᳓र् अ᳓थर्वा प्रथमो᳓ वि᳓ धारयद्
देवा᳓ द᳓क्षैर् भृ᳓गवः सं᳓ चिकित्रिरे

11 ते हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ हि᳓ द्या᳓वापृथिवी᳓ भू᳓रिरेतसा
न᳓राशं᳓सश् च᳓तुरङ्गो यमो᳓ ऽदितिः
देव᳓स् त्व᳓ष्टा द्रविणोदा᳓ ऋभुक्ष᳓णः
प्र᳓ रोदसी᳓ मरु᳓तो वि᳓ष्णुर् अर्हिरे

12 उत स्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्य᳓ न उशि᳓जाम् उर्विया᳓ कवि᳓र्
अ᳓हिः शृणोतु बुध्नि᳓यो ह᳓वीमनि
सू᳓र्यामा᳓सा विच᳓रन्ता दिविक्षि᳓ता
धिया᳓ शमीनहुषी अस्य᳓ बोधतम्

13 प्र नः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ नः पूषा᳓ चर᳓थं विश्व᳓देवियो
अपां᳓ न᳓पाद् अवतु वायु᳓र् इष्ट᳓ये
आत्मा᳓नं व᳓स्यो अभि᳓ वा᳓तम् अर्चत
त᳓द् अश्विना सुहवा या᳓मनि श्रुतम्

14 विशामासामभयानामधिक्षितं गीर्भिरु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विशा᳓म् आसा᳓म् अ᳓भयानाम् अधिक्षि᳓तं
गीर्भि᳓र् उ · स्व᳓यशसं गृणीमसि
ग्ना᳓भिर् वि᳓श्वाभिर् अ᳓दितिम् अनर्व᳓णम्
अक्तो᳓र् यु᳓वानं नृम᳓णा अ᳓धा प᳓तिम्

15 रेभदत्र जनुषा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

रे᳓भद् अ᳓त्र जनु᳓षा पू᳓र्वो अ᳓ङ्गिरा
ग्रा᳓वाण ऊर्ध्वा᳓ अभि᳓ चक्षुर् अध्वर᳓म्
ये᳓भिर् वि᳓हाया अ᳓भवद् विचक्षणः᳓
पा᳓थः सुमे᳓कं स्व᳓धितिर् व᳓नन्वति