०९१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

अष्टमेऽनुवाके नव सूक्तानि । ‘सं जागृवद्भिः’ इति पञ्चदशर्चं प्रथमं सूक्तं वीतहव्यपुत्रस्यारुणनाम्न आर्षमग्निदेवत्यम् । अन्त्या त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रान्तं - सं जागृवद्भिः पञ्चोनारुणो वैतहव्य आग्नेयम्’ इति । प्रातरनुवाकाश्विनशस्त्रयोर्जागते छन्दसीदं सूक्तम् । सूत्रितं च– ‘ सं जागृवद्भिश्चित्र इच्छिशोर्वसुं न चित्रमहसमिति जागतम्’ ( आश्व. श्रौ. ४. १३ ) इति ॥

Jamison Brereton

91 (917)
Agni
Aruṇa Vaitahavya
15 verses: jagatī, except triṣṭubh 15
This hymn is reminiscent of X.89 in style: a well-crafted, self-consciously rhetorical praise of the god utilizing standard tropes and traditional images. The poet of this hymn is especially fond of etymological figures (especially in the first few verses) and chaining between verses (note, e.g., vss. 8d/9a, 10/11).
The hymn covers many familiar themes, contrasting the physical fire (e.g., vss. 5–7) with the deified fire and his ritual roles, but it is the latter aspect of Agni that is dominant.

01 सं जागृवद्भिर्जरमाण - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓ जागृव᳓द्भिर् ज᳓रमाण इध्यते
द᳓मे द᳓मूना इष᳓यन्न् इळ᳓स् पदे᳓
वि᳓श्वस्य हो᳓ता हवि᳓षो व᳓रेणियो
विभु᳓र् विभा᳓वा सुष᳓खा सखीयते᳓

02 स दर्शतश्रीरतिथिगृड़्हेगृहे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ दर्शतश्री᳓र् अ᳓तिथिर् गृहे᳓-गृहे
व᳓ने-वने शिश्रिये तक्ववी᳓र् इव
ज᳓नं-जनं ज᳓नियो ना᳓ति मन्यते
वि᳓श आ᳓ क्षेति विशि᳓यो वि᳓शं-विशम्

03 सुदक्षो दक्षैः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सुद᳓क्षो द᳓क्षैः क्र᳓तुनासि सुक्र᳓तुर्
अ᳓ग्ने कविः᳓ का᳓वियेनासि विश्ववि᳓त्
व᳓सुर् व᳓सूनां क्षयसि त्व᳓म् ए᳓क इ᳓द्
द्या᳓वा च या᳓नि पृथिवी᳓ च पु᳓ष्यतः

04 प्रजानन्नग्ने तव - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजान᳓न्न् अग्ने त᳓व यो᳓निम् ऋत्वि᳓यम्
इ᳓ळायास् पदे᳓ घृत᳓वन्तम् आ᳓सदः
आ᳓ ते चिकित्र उष᳓साम् इवे᳓तयो
अरेप᳓सः सू᳓रियस्येव रश्म᳓यः

05 तव श्रियो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓व श्रि᳓यो वर्षि᳓यस्येव विद्यु᳓तश्
चित्रा᳓श् चिकित्र उष᳓सां न᳓ केत᳓वः
य᳓द् ओ᳓षधीर् अभि᳓सृष्टो व᳓नानि च
प᳓रि स्वयं᳓ चिनुषे᳓ अ᳓न्नम् आसि᳓ये

06 तमोषधीर्दधिरे गर्भमृत्वियम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् ओ᳓षधीर् दधिरे ग᳓र्भम् ऋत्वि᳓यं
त᳓म् आ᳓पो अग्निं᳓ जनयन्त मात᳓रः
त᳓म् इ᳓त् समानं᳓ वनि᳓नश् च वीरु᳓धो
अन्त᳓र्वतीश् च सु᳓वते च विश्व᳓हा

07 वातोपधूत इषितो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वा᳓तोपधूत इषितो᳓ व᳓शाँ अ᳓नु
तृषु᳓ य᳓द् अ᳓न्ना वे᳓विषद् विति᳓ष्ठसे
आ᳓ ते यतन्ते रथि᳓यो य᳓था पृ᳓थक्
छ᳓र्धांसि अग्ने अज᳓राणि ध᳓क्षतः

08 मेधाकारं विदथस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मेधाकारं᳓ विद᳓थस्य प्रसा᳓धनम्
अग्निं᳓ हो᳓तारम् परिभू᳓तमम् मति᳓म्
त᳓म् इ᳓द् अ᳓र्भे हवि᳓षि आ᳓ समान᳓म् इ᳓त्
त᳓म् इ᳓न् महे᳓ वृणते ना᳓नियं᳓ तुव᳓त्

09 त्वामिदत्र वृणते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुवा᳓म् इ᳓द् अ᳓त्र वृणते तुवाय᳓वो
हो᳓तारम् अग्ने विद᳓थेषु वेध᳓सः
य᳓द् देवय᳓न्तो द᳓धति प्र᳓यांसि ते
हवि᳓ष्मन्तो म᳓नवो वृक्त᳓बर्हिषः

10 तवाग्ने होत्रम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓वाग्ने होत्रं᳓ त᳓व पोत्र᳓म् ऋत्वि᳓यं
त᳓व नेष्ट्रं᳓ तुव᳓म् अग्नि᳓द् ऋतायतः᳓
त᳓व प्रशास्त्रं᳓ तुव᳓म् अध्वरीयसि
ब्रह्मा᳓ चा᳓सि गृह᳓पतिश् च नो द᳓मे

11 यस्तुभ्यमग्ने अमृताय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् तु᳓भ्यम् अग्ने अमृ᳓ताय म᳓र्तियः
समि᳓धा दा᳓शद् उत᳓ वा हवि᳓ष्कृति
त᳓स्य हो᳓ता भवसि या᳓सि दूति᳓यम्
उ᳓प ब्रूषे य᳓जसि अध्वरीय᳓सि

12 इमा अस्मै - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ अस्मै मत᳓यो वा᳓चो अस्म᳓द् आँ᳓
ऋ᳓चो गि᳓रः सुष्टुत᳓यः स᳓म् अग्मत
वसूय᳓वो व᳓सवे जात᳓वेदसे
वृद्धा᳓सु चिद् व᳓र्धनो या᳓सु चाक᳓नत्

13 इमां प्रत्नाय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓म् प्रत्ना᳓य सुष्टुतिं᳓ न᳓वीयसीं
वोचे᳓यम् अस्मा उशते᳓ शृणो᳓तु नः
भूया᳓ अ᳓न्तरा हृदि᳓ अस्य निस्पृ᳓शे
जाये᳓व प᳓त्य उशती᳓ सुवा᳓साः

14 यस्मिन्नश्वास ऋषभास - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्मिन्न् अ᳓श्वास ऋषभा᳓स उक्ष᳓णो
वशा᳓ मेषा᳓ अवसृष्टा᳓स आ᳓हुताः
कीलालपे᳓ सो᳓मपृष्ठाय वेध᳓से
हृदा᳓ मतिं᳓ जनये चा᳓रुम् अग्न᳓ये

15 अहाव्यग्ने हविरास्ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓हावि अग्ने हवि᳓र् आसि᳓ये ते
स्रुची᳓व घृतं᳓ चमु᳓वीव सो᳓मः
वाजस᳓निं रयि᳓म् अस्मे᳓ सुवी᳓रम्
प्रशस्तं᳓ धेहि यश᳓सम् बृह᳓न्तम्