०८७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ रक्षोहणम्’ इति पञ्चविंशत्यृचं तृतीयं सूक्तम् । पायुर्नाम भारद्वाज ऋषिः । द्वाविंशाद्याश्चतस्रोऽनुष्टुभः । शिष्टा एकविंशतिस्त्रिष्टुभः । रक्षोहाग्निर्देवता । तथा चानुक्रान्तं – ‘ रक्षोहणं पञ्चाधिका पायुराग्नेयं राक्षोघ्नं चतुरनुष्टुबन्तम् ’ इति । गतः सूक्तविनियोगः । अङ्गाराभिविहरणे ‘परि त्वाग्ने इत्येषा जप्या । सूत्रितं च – धिष्ण्यावताम् ’ इत्यादिना ‘परि त्वाग्ने पुरं वयम् ’ (आश्व. श्रौ. ५. १३) इत्यन्तेन ॥

Jamison Brereton

87 (913)
Agni Demon-Smiter
Pāyu Bhāradvāja
25 verses: triṣṭubh, except anuṣṭubh 22–25
A departure from the usual themes of Agni hymns (though quite reminiscent of the second half of I.36 and to a lesser extent X.118), this long hymn is entirely devoted to Agni as “demon-smiter” (rakṣohán), the first word of the hymn, and especially to his violent pursuit of “sorcerers” (yātudhā́na). The language is gleefully and cre
atively bloodthirsty, crediting Agni with a large arsenal of weapons, mostly based on the shape of his flames, and of means of violent destruction of the enemy (pierc ing, crushing, shattering, disemboweling, etc.). The vividness of the language is enhanced by the fact that, after the first verse, Agni is always addressed in the 2nd person and almost always with imperatives. (Only vss. 15 and 18 lack direct address to Agni, though he is lurking in the background. These two verses are also the only ones in which any other gods are allowed a part of the action.)
Agni’s connection with ritual is barely mentioned in the hymn. In verse 1 the poet sprinkles him with ghee, addresses him, and kindles him, in order to ensure his protection, and in verse 4 it is made clear that the murderous power of Agni’s weap ons comes from the sacrifice and the associated ritual speech. That Agni’s fierce and aggressive protection of us stems from our ritual behavior toward him should be kept in mind—though it must be admitted that the poet seems to forget this fact for long stretches of the hymn.
Lexical repetition and phonological figures, both simple and complex, are important features of the style of the hymn. To mention only one of the complex figures, the unusual participle sphūrjáyan “sizzling” (the only occurrence of this verb in the R̥gveda) in 11c is echoed phonologically by śaphārújam “hoof-breaking” in 12b (and to a lesser extent by dhū́rvantam “damaging” in 12d).
The sheer exuberance of the hymn is contagious, at least to its translators.

01 रक्षोहणं वाजिनमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रक्षोह᳓णं वाजि᳓नम् +++(=अन्नवन्तम्)+++ आ᳓ऽऽजिघर्मि +++(=दीपयामि)+++
मित्रं᳓ प्र᳓थिष्ठम् +++(=विस्तीर्णतमम्)+++ उ᳓पयामि श᳓र्म ।
शि᳓शानो +++(=तीक्ष्णः)+++ अग्निः᳓ क्र᳓तुभिस् स᳓मिद्धस्
स᳓ नो दि᳓वा स᳓ रिषः᳓ +++(=हिंसकात्)+++ पातु न᳓क्तम् ॥

02 अयोदंष्थ्रो अर्चिषा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓योदंष्ट्रो अर्चि᳓षा यातुधा᳓नान्
उ᳓प स्पृश जातवेदः स᳓मिद्धः
आ᳓ जिह्व᳓या मू᳓रदेवान् रभस्व
क्रव्या᳓दो वृक्त्वी᳓ अ᳓पि धत्स्व आस᳓न्

03 उभोभयाविन्नुप धेहि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उभो᳓भयाविन्न् उ᳓प धेहि दं᳓ष्ट्रा
हिंस्रः᳓ शि᳓शानो अ᳓वरम् प᳓रं च
उता᳓न्त᳓रिक्षे प᳓रि याहि राजञ्
ज᳓म्भैः सं᳓ धेहि अभि᳓ यातुधा᳓नान्

04 यज्ञैरिषूः सन्नममानो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञइ᳓र् इ᳓षूः संन᳓ममानो अग्ने
वाचा᳓ शल्याँ᳓ अश᳓निभिर् दिहानः᳓
ता᳓भिर् विध्य हृ᳓दये यातुधा᳓नान्
प्रतीचो᳓ बाहू᳓न् प्र᳓ति भङ्धि एषाम्

05 अग्ने त्वचम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने त्व᳓चं यातुधा᳓नस्य भिन्धि
हिंस्रा᳓श᳓निर् ह᳓रसा हन्तु एनम्
प्र᳓ प᳓र्वाणि जातवेदः शृणीहि
क्रव्या᳓त् क्रविष्णु᳓र् वि᳓ चिनोतु वृक्ण᳓म्

06 यत्रेदानीं पश्यसि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त्रेदा᳓नीम् प᳓श्यसि जातवेदस्
ति᳓ष्ठन्तम् अग्न उत᳓ वा च᳓रन्तम्
य᳓द् वान्त᳓रिक्षे पथि᳓भिः प᳓तन्तं
त᳓म् अ᳓स्ता विध्य श᳓रुवा शि᳓शानः

07 उतालब्धं स्पृणुहि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उता᳓लब्धं स्पृणुहि जातवेद
आलेभाना᳓द् ऋष्टि᳓भिर् यातुधा᳓नात्
अ᳓ग्ने पू᳓र्वो नि᳓ जहि शो᳓शुचान
आमा᳓दः क्ष्वि᳓ङ्कास् त᳓म् अदन्तु ए᳓नीः

08 इह प्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इह᳓ प्र᳓ ब्रूहि यतमः᳓ सो᳓ अग्ने
यो᳓ यातुधा᳓नो य᳓ इदं᳓ कृणो᳓ति
त᳓म् आ᳓ रभस्व समि᳓धा यविष्ठ
नृच᳓क्षसश् च᳓क्षुषे रन्धयैनम्

09 तीक्ष्णेनाग्ने चक्षुषा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तीक्ष्णे᳓नाग्ने च᳓क्षुषा रक्ष यज्ञ᳓म्
प्रा᳓ञ्चं व᳓सुभ्यः प्र᳓ णय प्रचेतः
हिंस्रं᳓ र᳓क्षांसि अभि᳓ शो᳓शुचानम्
मा᳓ त्वा दभन् यातुधा᳓ना नृचक्षः

10 नृचक्षा रक्षः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नृच᳓क्षा र᳓क्षः प᳓रि पश्य विक्षु᳓
त᳓स्य त्री᳓णि प्र᳓ति शृणीहि अ᳓ग्रा
त᳓स्याग्ने पृष्टी᳓र् ह᳓रसा शृणीहि
त्रेधा᳓ मू᳓लं यातुधा᳓नस्य वृश्च

11 त्रिर्यातुधानः प्रसितिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रि᳓र् यातुधा᳓नः प्र᳓सितिं त एतु
ऋतं᳓ यो᳓ अग्ने अ᳓नृतेन ह᳓न्ति
त᳓म् अर्चि᳓षा स्फूर्ज᳓यञ् जातवेदः
समक्ष᳓म् एनं गृणते᳓ नि᳓ वृङ्धि

12 तदग्ने चक्षुः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् अग्ने च᳓क्षुः प्र᳓ति धेहि रेभे᳓
शफारु᳓जं ये᳓न प᳓श्यसि यातुधा᳓नम्
अथर्वव᳓ज् ज्यो᳓तिषा दइ᳓वियेन
सत्यं᳓ धू᳓र्वन्तम् अचि᳓तं नि᳓ ओष

13 यदग्ने अद्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अग्ने अद्य᳓ मिथुना᳓ श᳓पातो
य᳓द् वाच᳓स् तृष्टं᳓ जन᳓यन्त रेभाः᳓
मन्यो᳓र् म᳓नसः शरव्या᳡ जा᳓यते या᳓
त᳓या विध्य हृ᳓दये यातुधा᳓नान्

14 परा शृणीहि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रा शृणीहि त᳓पसा यातुधा᳓नान्
प᳓राग्ने र᳓क्षो ह᳓रसा शृणीहि
प᳓रार्चि᳓षा मू᳓रदेवाञ् छृणीहि
प᳓रासुतृ᳓पो अभि᳓ शो᳓शुचानः

15 पराद्य देवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓राद्य᳓ देवा᳓ वृजिनं᳓ शृणन्तु
प्रत्य᳓ग् एनं शप᳓था यन्तु तृष्टाः᳓
वाचा᳓स्तेनं श᳓रव र्छन्तु म᳓र्मन्
वि᳓श्वस्यैतु प्र᳓सितिं यातुधा᳓नः

16 यः पौरुषेयेण - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यः᳓ पउ᳓रुषेयेण क्रवि᳓षा समङ्क्ते᳓
यो᳓ अ᳓श्व्येन पशु᳓ना यातुधा᳓नः
यो᳓ अघ्न्या᳓या भ᳓रति क्षीर᳓म् अग्ने
ते᳓षां शीर्षा᳓णि ह᳓रसा᳓पि वृश्च

17 संवत्सरीणं पय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

संवत्सरी᳓णम् प᳓य उस्रि᳓यायास्
त᳓स्य मा᳓शीद् यातुधा᳓नो नृचक्षः
पीयू᳓षम् अग्ने यतम᳓स् ति᳓तृप्सात्
त᳓म् प्रत्य᳓ञ्चम् अर्चि᳓षा विध्य म᳓र्मन्

18 विषं गवाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विषं᳓ ग᳓वां यातुधा᳓नाः पिबन्तु
आ᳓ वृश्च्यन्ताम् अ᳓दितये दुरे᳓वाः
प᳓रैनान् देवः᳓ सविता᳓ ददातु
प᳓रा भाग᳓म् ओ᳓षधीनां जयन्ताम्

19 सनादग्ने मृणसि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सना᳓द् अग्ने मृणसि यातुधा᳓नान्
न᳓ त्वा र᳓क्षांसि पृ᳓तनासु जिग्युः
अ᳓नु दह सह᳓मूरान् क्रव्या᳓दो
मा᳓ ते हेत्या᳓ मुक्षत दइ᳓वियायाः

20 त्वं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ नो अग्ने अधरा᳓द् उ᳓दक्तात्
तुव᳓म् पश्चा᳓द् उत᳓ रक्षा पुर᳓स्तात्
प्र᳓ति ते᳓ ते अज᳓रासस् त᳓पिष्ठा
अघ᳓शंसं शो᳓शुचतो दहन्तु

21 पश्चात्पुरस्तादधरादुदक्तात्कविः काव्येन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पश्चा᳓त् पुर᳓स्ताद् अधरा᳓द् उ᳓दक्तात्
कविः᳓ का᳓व्येन प᳓रि पाहि राजन्
स᳓खे स᳓खायम् अज᳓रो जरिम्णे᳓
अ᳓ग्ने म᳓र्ताँ अ᳓मर्तियस् तुवं᳓ नः

22 परि त्वाग्ने - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓रि त्वाग्ने! पु᳓रं+++(=पूरकं)+++ वयं᳓
वि᳓प्रं सहस्य! धीमहि
धृष᳓द्+++(=धर्षक)+++-वर्णं दिवे᳓दिवे
हन्ता᳓रं भङ्गुरा᳓वता᳓म् +++(→भेत्तारम् भङ्गुरावतः इति तैत्तिरीये)+++᳓ ॥

23 विषेण भङ्गुरावतः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विषे᳓ण भङ्गुरा᳓वतः
प्र᳓ति ष्म रक्ष᳓सो दह
अ᳓ग्ने तिग्मे᳓न शोचि᳓षा
त᳓पुरग्राभिर् ऋष्टि᳓भिः

24 प्रत्यग्ने मिथुना - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓त्य् अग्ने मिथुना᳓ दह
यातुधा᳓ना किमीदि᳓ना
सं᳓ त्वा शिशामि जागृहि
अ᳓दब्धं विप्र म᳓न्मभिः

25 प्रत्यग्ने हरसा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓त्य् अग्ने ह᳓रसा ह᳓रः
शृणीहि᳓ विश्व᳓तः प्र᳓ति
यातुधा᳓नस्य रक्ष᳓सो
ब᳓लं वि᳓ रुज वीरि᳓यम्