०८४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ त्वया मन्यो ’ इति सप्तर्चं षोडशं सूक्तम् । आदितस्तिस्रस्त्रिष्टुभस्ततश्चतस्रो जगत्यः । पूर्ववदृषिदेवते । तथा चानुक्रान्तं- ‘ त्वया मन्यो चतुर्जगत्यन्तम् ’ इति । अजिरनाम्न्येकाह इदं सूक्तं मरुत्वतीयशस्त्रे निविद्धानम् । सूत्रं पूर्वसूक्त एवोदाहृतम् । विनुत्यभिभूतिषु वज्रेषुष्वेकाहेष्वेते सूक्ते मरुत्वतीयनिष्केवल्ययोः शस्ये। सूत्रितं च – विनुत्यभिभूत्योरिषुवज्रयोश्च मन्युसूक्ते ’ ( आश्व. श्रौ. ९. ८) इति ॥

Jamison Brereton

84 (910)
Battle Fury
Manyu Tāpasa
7 verses: triṣṭubh 1–3, jagatī 4–7
Like the last hymn, this one is a simple address to Manyu “Battle Fury” asking for his aid in our battles, as well as in the division of the spoils. Rhetorically the hymn is characterized by verbal chaining: almost every verse ends with a word picked up by the very beginning of the next verse. Thus, “fire” in 1d/2a, “alone” 3d/4a, “victory” 4d/5a, “ready to hand” 5d/6a, “pour in” 6d/7a; only 2d/3a lacks this concatenation.

01 त्वया मन्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्व᳓या मन्यो सर᳓थम् आरुज᳓न्तो
ह᳓र्षमाणासो धृषिता᳓ मरुत्वः
तिग्मे᳓षव आ᳓युधा संशि᳓शाना
अभि᳓ प्र᳓ यन्तु न᳓रो अग्नि᳓रूपाः

02 अग्निरिव मन्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् ऽव° मन्यो त्विषितः᳓ सहस्व
सेनानी᳓र् नः सहुरे हूत᳓ एधि
हत्वा᳓य श᳓त्रून् वि᳓ भजस्व वे᳓द
ओ᳓जो मि᳓मानो वि᳓ मृ᳓धो नुदस्व

03 सहस्व मन्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓हस्व मन्यो अभि᳓मातिम् अस्मे᳓
रुज᳓न् मृण᳓न् प्रमृण᳓न् प्रे᳓हि श᳓त्रून्
उग्रं᳓ ते पा᳓जो ननु᳓ आ᳓ रुरुध्रे
वशी᳓ व᳓शं नयस एकज त्व᳓म्

04 एको बहूनामसि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓को बहूना᳓म् असि मन्यव् ईळितो᳓
वि᳓शं-विशं युध᳓ये सं᳓ शिशाधि
अ᳓कृत्तरुक् · तुव᳓या युजा᳓ वयं᳓
द्युम᳓न्तं घो᳓षं विजया᳓य कृण्महे

05 विजेषकृदिन्द्र इवानवब्रवोथ्ऽस्माकम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विजेषकृ᳓द् इ᳓न्द्र इवानवब्रवो᳓
अस्मा᳓कम् मन्यो अधिपा᳓ भवेह᳓
प्रियं᳓ ते ना᳓म सहुरे गृणीमसि
विद्मा᳓ त᳓म् उ᳓त्सं य᳓त आबभू᳓थ

06 आभूत्या सहजा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓भूतिया सहजा᳓ वज्र सायक
स᳓हो बिभर्षि अभिभूत उ᳓त्तरम्
क्र᳓त्वा नो मन्यो सह᳓ मेदी᳓ एधि
महाधन᳓स्य पुरुहूत संसृ᳓जि

07 संसृष्थं धनमुभयम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सं᳓सृष्टं ध᳓नम् उभ᳓यं समा᳓कृतम्
अस्म᳓भ्यं दत्तां व᳓रुणश् च मन्युः᳓
भि᳓यं द᳓धाना हृ᳓दयेषु श᳓त्रवः
प᳓राजितासो अ᳓प नि᳓ लयन्ताम्