०८३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ यस्ते मन्यो ’ इति सप्तर्चं पञ्चदशं सूक्तम् । मन्युर्नाम तपसः पुत्र ऋषिः । आद्या जगती शिष्टास्त्रिटुभः । इदमुत्तरं च मन्युदेवत्यम् । तथा चानुक्रान्तं – यस्ते मन्यो मन्युस्तापसो मान्यवं तु जगत्यादि ’ इति । अजिरनाम्न्यभिचारसाधने यज्ञ एतत्सूक्तं निविद्धानम् । सूत्रितं च –’ त्वया मन्यो यस्ते मन्यो ’ (आश्व. श्रौ. ९. ७) इति ॥

Jamison Brereton

83 (909)
Battle Fury
Manyu Tāpasa
7 verses: triṣṭubh, except jagatī 1
This hymn begins with four verses praising Manyu for his might and victory-bring ing qualities and entreating him to use these qualities against our enemies. The following three verses (5–7) strike a more personal note, with a 1st-person speaker, apparently deserted by Manyu for some undetermined reason. The speaker begs Manyu to return to his side, so that together they can smite the enemy.

01 यस्ते मन्योऽविधद्वज्र - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् ते मन्यो अ᳓विधद् वज्र सायक
स᳓ह ओ᳓जः पुष्यति वि᳓श्वम् आनुष᳓क्
साह्या᳓म दा᳓सम् आ᳓रियं त्व᳓या युजा᳓
स᳓हस्कृतेन स᳓हसा स᳓हस्वता

02 मन्युरिन्द्रो मन्युरेवास - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मन्यु᳓र् इ᳓न्द्रो मन्यु᳓र् एवा᳓स देवो᳓
मन्यु᳓र् हो᳓ता व᳓रुणो जात᳓वेदाः
मन्युं᳓ वि᳓श ईळते मा᳓नुषीर् याः᳓
पाहि᳓ नो मन्यो त᳓पसा सजो᳓षाः

03 अभीहि मन्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभी᳓हि मन्यो तव᳓सस् त᳓वीयान्
त᳓पसा युजा᳓ वि᳓ जहि श᳓त्रून्
अमित्रहा᳓ वृत्रहा᳓ दस्युहा᳓ च
वि᳓श्वा व᳓सूनि आ᳓ भरा तुवं᳓ नः

04 त्वं हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ हि᳓ मन्यो अभि᳓भूतियोजाः
स्वयम्भू᳓र् भा᳓मो अभिमातिषाहः᳓
विश्व᳓चर्षणिः स᳓हुरिः स᳓हावान्
अस्मा᳓सु ओ᳓जः पृ᳓तनासु धेहि

05 अभागः सन्नप - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभागः᳓ स᳓न्न् अ᳓प प᳓रेतो अस्मि
त᳓व क्र᳓त्वा तविष᳓स्य प्रचेतः
तं᳓ त्वा मन्यो अक्रतु᳓र् जिहीळाहं᳓
सुवा᳓ तनू᳓र् बलदे᳓याय मे᳓हि

06 अयं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ ते अस्मि उ᳓प मे᳓हि अर्वा᳓ङ्
प्रतीचीनः᳓ सहुरे विश्वधायः
म᳓न्यो वज्रिन्न् अभि᳓ मा᳓म् आ᳓ ववृत्स्व
ह᳓नाव द᳓स्यूँर् उत᳓ बोधि आपेः᳓

07 अभि प्रेहि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ प्रे᳓हि दक्षिणतो᳓ भवा मे
अ᳓धा वृत्रा᳓णि जङ्घनाव भू᳓रि
जुहो᳓मि ते धरु᳓णम् म᳓ध्वो अ᳓ग्रम्
उभा᳓ उपांशु᳓ प्रथमा᳓ पिबाव