०८३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ यस्ते मन्यो ’ इति सप्तर्चं पञ्चदशं सूक्तम् । मन्युर्नाम तपसः पुत्र ऋषिः । आद्या जगती शिष्टास्त्रिटुभः । इदमुत्तरं च मन्युदेवत्यम् । तथा चानुक्रान्तं – यस्ते मन्यो मन्युस्तापसो मान्यवं तु जगत्यादि ’ इति । अजिरनाम्न्यभिचारसाधने यज्ञ एतत्सूक्तं निविद्धानम् । सूत्रितं च –’ त्वया मन्यो यस्ते मन्यो ’ (आश्व. श्रौ. ९. ७) इति ॥

Jamison Brereton

83 (909)
Battle Fury
Manyu Tāpasa
7 verses: triṣṭubh, except jagatī 1
This hymn begins with four verses praising Manyu for his might and victory-bring ing qualities and entreating him to use these qualities against our enemies. The following three verses (5–7) strike a more personal note, with a 1st-person speaker, apparently deserted by Manyu for some undetermined reason. The speaker begs Manyu to return to his side, so that together they can smite the enemy.

01 यस्ते मन्योऽविधद्वज्र - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।
सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥

02 मन्युरिन्द्रो मन्युरेवास - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒न्युरिन्द्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः ।
म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ॥

03 अभीहि मन्यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भी॑हि मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥

04 त्वं हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वय॒म्भूर्भामो॑ अभिमातिषा॒हः ।
वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा॑वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥

05 अभागः सन्नप - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः ।
तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥

06 अयं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः ।
मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यूँ॑रु॒त बो॑ध्या॒पेः ॥

07 अभि प्रेहि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ।
जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥