०७९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अपश्यम्’ इति सप्तर्चमेकादशं सूक्तमाग्नेयं त्रैष्टुभम् । सौचीकगुणोऽग्निर्ऋषिर्वैश्वानरगुणो वाथवा सप्तर्नाम वाजंभरपुत्रः। तथा चानुक्रान्तम्-’ अपश्यं सप्त सौचीकोऽग्निर्वैश्वानरो वा सप्तिर्वा वाजंभर आग्नेयं तु ’ इति । प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते । सूत्रितं च– ‘ अपश्यमस्य महत इति सूक्ते ’ ( आश्व. श्रौ. ४. १३) इति ॥

Jamison Brereton

79 (905)
Agni
Agni Saucīka or Agni Vaiśvānara or Sapti Vājambhara
7 verses: triṣṭubh
This hymn begins with a 1st-person vision (“I have seen…”) and in its middle verse (4) announces a truth, again in the 1st person—though the speaker disclaims real discernment for himself, while ascribing it to the god Agni. Such rhetorical moves are typical of omphalos hymns, but the mystery in this hymn seems less profound than the structure in which it is embedded seems to promise. It is simply the com
mon trope of Agni as an insatiable eater, with a nice twist in verse 6, where the poet commiserates with Agni for having, because of imagined sins, to eat without teeth. Although the supposed enigma of this hymn is not particularly enigmatic, the style is lively and the images sharp.

01 अपश्यमस्य महतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓पश्यम् अस्य महतो᳓ महित्व᳓म्
अ᳓मर्तियस्य म᳓र्तियासु विक्षु᳓
ना᳓ना ह᳓नू वि᳓भृते स᳓म् भरेते
अ᳓सिन्वती ब᳓प्सती भू᳓रि अत्तः

02 गुहा शिरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गु᳓हा शि᳓रो नि᳓हितम् ऋ᳓धग् अक्षी᳓
अ᳓सिन्वन्न् अत्ति जिह्व᳓या व᳓नानि
अ᳓त्राणि अस्मै पड्भिः᳓ स᳓म् भरन्ति
उत्तान᳓हस्ता न᳓मसा᳓धि विक्षु᳓

03 प्र मातुः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ मातुः᳓ प्रतरं᳓ गु᳓हियम् इछ᳓न्
कुमारो᳓ न᳓ वीरु᳓धः सर्पद् उर्वीः᳓
ससं᳓ न᳓ पक्व᳓म् अविदच् छुच᳓न्तं
रिरिह्वां᳓सं रिप᳓ उप᳓स्थे अन्तः᳓

04 तद्वामृतं रोदसी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓द् वाम् ऋतं᳓ रोदसी प्र᳓ ब्रवीमि
जा᳓यमानो मात᳓रा ग᳓र्भो अत्ति
ना᳓हं᳓ देव᳓स्य म᳓र्तियश् चिकेत
अग्नि᳓र् अङ्ग᳓ वि᳓चेताः स᳓ प्र᳓चेताः

05 यो अस्मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ अस्मा अ᳓न्नं तृषु᳓ आद᳓धाति
आ᳓जियैर् घृतइ᳓र् जुहो᳓ति पु᳓ष्यति
त᳓स्मै सह᳓स्रम् अक्ष᳓भिर् वि᳓ चक्षे
अ᳓ग्ने विश्व᳓तः प्रतिअ᳓ङ्ङ् असि त्व᳓म्

06 किं देवेषु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

किं᳓ देवे᳓षु त्य᳓ज ए᳓नश् चकर्थ
अ᳓ग्ने पृछा᳓मि नु᳓ तुवा᳓म् अ᳓विद्वान्
अ᳓क्रीळन् क्री᳓ळन् ह᳓रिर् अ᳓त्तवे ऽद᳓न्
वि᳓ पर्वश᳓श् चकर्त गा᳓म् इवासिः᳓

07 विषूचो अश्वान्युयुजे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓षूचो अ᳓श्वान् युयुजे वनेजा᳓
ऋ᳓जीतिभी रशना᳓भिर् गृभीता᳓न्
चक्षदे᳓ मित्रो᳓ व᳓सुभिः सु᳓जातः
स᳓म् आनृधे प᳓र्वभिर् वावृधानः᳓