०७७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अभ्रप्रुषः’ इत्यष्टर्चं नवमं सूक्तं भृगुगोत्रस्य स्यूमरश्मेरार्षं मरुद्देवताकम् । पञ्चमी जगती शिष्टाः सप्त त्रिष्टुभः । तथा चानुक्रान्तम् - अभ्रप्रुषः स्यूमरश्मिर्भार्गवो मारुतं तु पञ्चमी जगती इति । गतो विनियोगः ॥

Jamison Brereton

77 (903)
Maruts
Syūmaraśmi Bhārgava
8 verses: triṣṭubh (and mangled jagatī)
On the metrical structure, see the introduction just above.
Rhetorically the hymn (through vs. 5) is dominated by similes, often studied and syntactically complex ones, with three or four similes in every verse. When the dense concentration of similes ends (beginning with vs. 6), the meter returns to con ventional triṣṭubh and to conventional hymn-ending expressions of hope for favor.
Most of the descriptions of the Maruts, however contorted their syntax, belong to the familiar repertoire of Marut characteristics: their stormy nature, their asso ciation with Indra, their beauty and ornaments, their boisterousness. However, twice they are connected with the Ādityas (vss. 2d, 8b), a group of gods with which they generally have nothing in common. This connection is puzzling. Thieme (1938: 158) suggests that their common quality was “caring for the stranger” (if that is what the disputed word ríśādas, also found twice in the hymn [vss. 3, 5], means).

01 अभ्रप्रुषो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म॑न्तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ ।
सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ॥

02 श्रिये मर्यासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रि॒ये मर्या॑सो अ॒ञ्जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ ।
दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ॥

03 प्र ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्यः॑ ।
पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ॥

04 युष्माकं बुध्ने - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒ष्माकं॑ बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ ।
वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु वः॒ प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ॥

05 यूयं धूर्षु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु ।
श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ॥

06 प्र यद्वहध्वे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्वः॑ ।
वि॒दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ॥

07 य उदृचि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् ।
रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥

08 ते हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः ।
ते नो॑ऽवन्तु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ॥