०७५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र सु वः’ इति नवर्चं सप्तमं सूक्तं प्रियमेधपुत्रस्य सिन्धुक्षित आर्षं जागतं नदीदेवताकम् । तथा चानुक्रान्तं - प्र सु नव सिन्धुक्षित्प्रैयमेधो नदीस्तुतिर्जागतं तु ’ इति । गतो विनियोगः ॥

Jamison Brereton

75 (901)
Rivers
Sindhukṣit Praiyamedha
9 verses: jagatī
This hymn celebrates the headlong glories of rivers, especially the Sindhu, here pre sented as the principal river into which all the others flow (see esp. vs. 4). As with the hymns to Sarasvatī (VI.61, VII.95–96), this one contains both naturalistic, if hyperbolic, description of the river (vss. 3, 7) and depictions of her as a beauti ful woman and a prizewinning horse. Especially notable in the hymn is the litany of river names in verses 5–6, which many scholars have mined for geographical information.

01 प्र सु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सु᳓ व आपो महिमा᳓नम् उत्तमं᳓
कारु᳓र् वोचाति स᳓दने विव᳓स्वतः
प्र᳓ सप्त᳓-सप्त त्रे᳐धा᳓ हि᳓ चक्रमुः᳓
प्र᳓ सृ᳓त्वरीणाम् अ᳓ति सि᳓न्धुर् ओ᳓जसा

02 प्र तेऽरदद्वरुणो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ते ऽरदद् व᳓रुणो या᳓तवे पथः᳓
सि᳓न्धो य᳓द् वा᳓जाँ अभि᳓ अ᳓द्रवस् तुव᳓म्
भू᳓म्या अ᳓धि प्रव᳓ता यासि सा᳓नुना
य᳓द् एषाम् अ᳓ग्रं ज᳓गताम् इरज्य᳓सि

03 दिवि स्वनो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दिवि᳓ स्वनो᳓ यतते भू᳓मियोप᳓रि
अनन्तं᳓ शु᳓ष्मम् उ᳓द् इयर्ति भानु᳓ना
अभ्रा᳓द् इव प्र᳓ स्तनयन्ति वृष्ट᳓यः
सि᳓न्धुर् य᳓द् ए᳓ति वृषभो᳓ न᳓ रो᳓रुवत्

04 अभि त्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ त्वा सिन्धो शि᳓शुम् इ᳓न् न᳓ मात᳓रो
वाश्रा᳓ अर्षन्ति प᳓यसेव धेन᳓वः
रा᳓जेव यु᳓ध्वा नयसि त्व᳓म् इ᳓त् सि᳓चौ
य᳓द् आसाम् अ᳓ग्रम् प्रव᳓ताम् इ᳓नक्षसि

05 इमं मे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इमं᳓ मे गङ्गे यमुने सरस्वति
शु᳓तुद्रि स्तो᳓मं सचता+++(=आसेवध्वम्)+++, प᳓रुष्ण्या᳓ +++(सहिते)+++ ।
असिक्न्या᳓ +++(सहिते)+++ मरुद्-वृधे वित᳓स्तया᳓
ऽऽर्जीकीये शृणुह्य् आ᳓ सुषो᳓मया ॥

06 तृष्थामया प्रथमम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तृष्टा᳓मया प्रथमं᳓ या᳓तवे सजूः᳓
सुस᳓र्तुवा रस᳓या श्वेतिया᳓ तिया᳓
तुवं᳓ सिन्धो कु᳓भया गोमतीं᳓ क्रु᳓मुम्
मेहत्नुवा᳓ सर᳓थं या᳓भिर् ई᳓यसे

07 ऋजीत्येनी रुशती - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ᳓जीति ए᳓नी रु᳓शती महित्वा᳓
प᳓रि ज्र᳓यांसि भरते र᳓जांसि
अ᳓दब्धा सि᳓न्धुर् अप᳓साम् अप᳓स्तमा
अ᳓श्वा न᳓ चित्रा᳓ व᳓पुषीव दर्शता᳓

08 स्वश्वा सिन्धुः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सुअ᳓श्वा सि᳓न्धुः सुर᳓था सुवा᳓सा
हिरण्य᳓यी सु᳓कृता वाजि᳓नीवती
ऊ᳓र्णावती युवतिः᳓ सील᳓मावती
उता᳓धि वस्ते सुभ᳓गा मधुवृ᳓धम्

09 सुखं रथम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सुखं᳓ र᳓थं युयुजे सि᳓न्धुर् अश्वि᳓नं
ते᳓न वा᳓जं सनिषद् अस्मि᳓न् आजउ᳓
महा᳓न् हि᳓ अस्य महिमा᳓ पनस्य᳓ते
अ᳓दब्धस्य स्व᳓यशसो विरप्शि᳓नः