०७४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ वसूनाम्’ इति षड़ृचं षष्ठं सूक्तम्। ऋष्याद्याः पूर्ववत् । ’ वसूनां षट्’ इत्यनुक्रान्तम् । गतो विनियोगः ॥

Jamison Brereton

74 (900)
Indra
Gaurivīti Śaktyā
6 verses: triṣṭubh
Although attributed to the same poet as the last hymn and also dedicated to Indra, this hymn fortunately lacks the challenges that X.73 poses—and in fact takes awhile to get to Indra. The first three verses simply announce the poet’s intention to praise the gods and ask them to travel to the sacrifice with goods to bestow. The last three verses (4–6) turn to Indra exclusively, suggesting first in verse 4, via an allusion to the Vala myth and, possibly, to the Maruts’ mother1504 X.75
Pr̥śni, the sacrificers’ desire for cows and sons. More praise for Indra follows in verses 5–6, with the final pāda (6d) expressing the expectation that Indra will fulfill our desires.

01 वसूनां वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓सूनां᳐ वा चर्कृषे इ᳓यक्षन्
धिया᳓ वा · यज्ञइ᳓र् वा रो᳓दसीयोः
अ᳓र्वन्तो वा ये᳓ रयिम᳓न्तः सातउ᳓
वनुं᳓ वा ये᳓ सुश्रु᳓णं सुश्रु᳓तो धुः᳓

02 हव एषामसुरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ह᳓व एषाम् अ᳓सुरो नक्षत द्यां᳓
श्रवस्यता᳓ म᳓नसा निंसत क्षा᳓म्
च᳓क्षाणा य᳓त्र सुविता᳓य देवा᳓
द्यउ᳓र् न᳓ वा᳓रेभिः कृण᳓वन्त सुवइः᳓

03 इयमेषाममृतानां गीः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इय᳓म् एषाम् · अमृ᳓तानां᳐᳓ गीः᳓
सर्व᳓ताता ये᳓ कृप᳓णन्त र᳓त्नम्
धि᳓यं च यज्ञं᳓ च सा᳓धन्तस्
ते᳓ नो धान्तु वसवि᳓यम् अ᳓सामि

04 आ तत्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त᳓त् त इन्द्र आय᳓वः पनन्त
अभि᳓ य᳓ ऊर्वं᳓ गो᳓मन्तं ति᳓तृत्सान्
सकृत्सु᳓वं ये᳓ पुरुपुत्रा᳓म् महीं᳓
सह᳓स्रधाराम् बृहतीं᳓ दु᳓दुक्षन्

05 शचीव इन्द्रमवसे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓चीव इ᳓न्द्रम् अ᳓वसे कृणुध्वम्
अ᳓नानतं दम᳓यन्तम् पृतन्यू᳓न्
ऋभुक्ष᳓णम् मघ᳓वानं सुवृक्ति᳓म्
भ᳓र्ता यो᳓ व᳓ज्रं न᳓रियम् पुरुक्षुः᳓

06 यद्वावान पुरुतमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् वावा᳓न पुरुत᳓मम् पुराषा᳓ळ्
आ᳓ वृत्रहा᳓ इ᳓न्द्रो ना᳓मानि अप्राः
अ᳓चेति प्रास᳓हस् प᳓तिस् तु᳓विष्मान्
य᳓द् ईम् उश्म᳓सि क᳓र्तवे क᳓रत् त᳓त्