०७०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इमां मे ’ इत्येकादशर्चं द्वितीयं सूक्तं वाध्र्यश्वस्य सुमित्रस्यार्षं त्रैष्टुभम् । तनूनपाद्वर्जिताः सनराशंसाः समिदादयः प्रत्यृचं देवताः । तथा चानुक्रान्तं – ‘ इमां म एकादशाप्रम् ’ इति । वध्र्यश्वगोत्राणां पशाविदमाप्रीसूक्तम् । सूत्रितं च—-‘समिद्धो अद्येति सर्बेषां यथर्षि वा ’ ( आश्व. श्रौ. ३. ३ ) इति ।।

Jamison Brereton

70 (896)
Āprı̄
Sumitra Vādhryaśva
11 verses: triṣṭubh
An eleven-verse Āprī hymn, with Narāśaṃsa in verse 2 (like II.3, V.5), where some Āprī hymns instead have Tanūnapāt (I.188, III.4, VII.2, IX.5, and X.110). There are otherwise few deviations from the standard Āprī hymn template, except that r̥tvíj “priest, orderly sacrificer” is substituted for the standard Hotar in verse 7. The trimeter meter gives more scope for elaboration than some of the more minimalist dimeter Āprī hymns (e.g., I.13). A signature word is uśánt “eager, desirous” (4d, 5c, 6c, 9d). As always in Āprī hymns, the key word or phrase in each verse is italicized.

01 इमां मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓म् मे अग्ने समि᳓धं जुषस्व
इळ᳓स् पदे᳓ प्र᳓ति हर्या घृता᳓चीम्
व᳓र्ष्मन् पृथिव्याः᳓ सुदिनत्वे᳓ अ᳓ह्नाम्
ऊर्ध्वो᳓ भव सुक्रतो देवयज्या᳓

02 आ देवानामग्रयावेह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ देवा᳓नाम् अग्रया᳓वेह᳓ यातु
न᳓राशं᳓सो विश्व᳓रूपेभिर् अ᳓श्वैः
ऋत᳓स्य पथा᳓ न᳓मसा मिये᳓धो
देवे᳓भियो देव᳓तमः सुषूदत्

03 शश्वत्तममीळते दूत्याय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शश्वत्तम᳓म् ईळते दूति᳓याय
हवि᳓ष्मन्तो मनुषि᳓यासो अग्नि᳓म्
व᳓हिष्ठैर् अ᳓श्वैः सुवृ᳓ता र᳓थेन
आ᳓ देवा᳓न् वक्षि नि᳓ षदेह᳓ हो᳓ता

04 वि प्रथताम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ प्रथतां देव᳓जुष्टं तिरश्चा᳓
दीर्घं᳓ द्राघ्मा᳓ सुरभि᳓ भूतु अस्मे᳓
अ᳓हेळता म᳓नसा देव बर्हिर्
इ᳓न्द्रज्येष्ठाँ उशतो᳓ यक्षि देवा᳓न्

05 दिवो वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवो᳓ वा सा᳓नु स्पृश᳓ता व᳓रीयः
पृथिव्या᳓ वा मा᳓त्रया वि᳓ श्रयध्वम्
उशती᳓र् द्वारो महिना᳓ मह᳓द्भिर्
देवं᳓ र᳓थं रथयु᳓र् धारयध्वम्

06 देवी दिवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देवी᳓ दिवो᳓ दुहित᳓रा सुशिल्पे᳓
उषा᳓सान᳓क्ता सदतां नि᳓ यो᳓नौ
आ᳓ वां देवा᳓स उशती उश᳓न्त
उरउ᳓ सीदन्तु सुभगे उप᳓स्थे

07 ऊर्ध्वो ग्रावा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वो᳓ ग्रा᳓वा बृह᳓द् अग्निः᳓ स᳓मिद्धः
प्रिया᳓ धा᳓मानि अ᳓दितेर् उप᳓स्थे
पुरो᳓हिताव् ऋत्विजा यज्ञे᳓ अस्मि᳓न्
विदु᳓ष्टरा द्र᳓विणम् आ᳓ यजेथाम्

08 तिस्रो देवीर्बर्हिरिदम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ति᳓स्रो देवीर् बर्हि᳓र् इदं᳓ व᳓रीय
आ᳓ सीदत चकृमा᳓ वः सियोन᳓म्
मनुष्व᳓द् यज्ञं᳓ सु᳓धिता हवीं᳓षि
इ᳓ळा देवी᳓ घृत᳓पदी जुषन्त

09 देव त्वष्थर्यद्ध - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दे᳓व त्वष्टर् य᳓द् ध चारुत्व᳓म् आ᳓नड्
य᳓द् अ᳓ङ्गिरसाम् अ᳓भवः सचाभूः᳓
स᳓ देवा᳓नाम् पा᳓थ उ᳓प प्र᳓ विद्वाँ᳓
उश᳓न् यक्षि द्रविणोदः सुर᳓त्नः

10 वनस्पते रशनया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓नस्पते रशन᳓या नियू᳓या
देवा᳓नाम् पा᳓थ उ᳓प वक्षि विद्वा᳓न्
स्व᳓दाति देवः᳓ कृण᳓वद् धवीं᳓षि
अ᳓वतां द्या᳓वापृथिवी᳓ ह᳓वम् मे

11 आग्ने वह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ग्ने वह व᳓रुणम् इष्ट᳓ये न
इ᳓न्द्रं दिवो᳓ मरु᳓तो अन्त᳓रिक्षात्
सी᳓दन्तु बर्हि᳓र् वि᳓श्व आ᳓ य᳓जत्राः
स्वा᳓हा देवा᳓ अमृ᳓ता मादयन्ताम्