०६९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

षष्ठेऽनुवाके षोडश सूक्तानि । “ भद्राः’ इति द्वादशर्चं प्रथमं सूक्तं वध्र्यश्वपुत्रस्य सुमित्रस्यार्षम् । आदितो द्वे जगत्यावथ दश त्रिष्टुभः । अग्निर्देवता। तथा चानुक्रम्यते- भद्राः सुमित्रो वाध्र्यश्व आग्नेयं द्विजगत्यादि ’ इति । गतो विनियोगः ॥

Jamison Brereton

69 (869)
Agni
Sumitra Vādhryaśva
12 verses: triṣṭubh, except jagatī 1–2
This hymn is discussed at length and translated in full by Proferes (2007: 40–44), who calls it “perhaps the clearest example of a tribal fire and the ritual role of the clans in relation to this fire. It illustrates the existence of a central fire tended by multiple clans who affirm through it their mutual solidarity, and who see in it the source of their domination over others” (p. 40). This particular clan-fire is that of King Vadhryaśva (see vss. 1–2, 4, 10–12), a speaking name with a deprecatory sense: “possessing gelded horses,” and in fact the fire itself bears the patronymic “son/descendant of Vadhryaśva” (see vss. 5, 9, 12). The current fire is also con trasted with fire or fires kindled previously (vss. 4–5), and toward the end of the hymn this fire present here is depicted as victorious over former fires, presumably belonging to other clans (vss. 10–11). Such victories are just an aspect of the victo ries over other peoples that the clan-fire brings Vadhryaśva and his allies, the men who kindle and tend this fire (vss. 5–6, 9–12).
One curious detail in the hymn is found in verse 7, where various possessions are ascribed to the fire (here called a craftsman), including “a thousand barren cows.” The negative connotations of this property are immediately counteracted in the next verse (8ab), in which the fire is credited with having an abundantly fertile cow whose flow of milk is inexhaustible, but the great flock of barren cows is nonethe
less odd. It finds its explanation in a semantic pun: just as the triumphant and suc cessful Vadhryaśva bears the name “possessing gelded horses” so does his equally triumphant and successful fire “possess barren cows.”
Stylistically there is much chaining of phraseology and repetition of syntactic patterns.

01 भद्रा अग्नेर्वध्र्यश्वस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

भद्रा᳓ अग्ने᳓र् वध्रिअश्व᳓स्य संदृ᳓शो
वामी᳓ प्र᳓णीतिः सुर᳓णा उ᳓पेतयः
य᳓द् ईं सुमित्रा᳓ वि᳓शो अ᳓ग्र इन्ध᳓ते
घृते᳓ना᳓हुतो जरते द᳓विद्युतत्

02 घृतमग्नेर्वध्र्यश्वस्य वर्धनम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

घृत᳓म् अग्ने᳓र् वध्रिअश्व᳓स्य व᳓र्धनं
घृत᳓म् अ᳓न्नं घृत᳓म् उ अस्य मे᳓दनम्
घृते᳓ना᳓हुत उर्विया᳓ वि᳓ पप्रथे
सू᳓र्य इव रोचते सर्पि᳓रासुतिः

03 यत्ते मनुर्यदनीकम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त् ते म᳓नुर् य᳓द् अ᳓नीकं सुमित्रः᳓
समीधे᳓ अग्ने त᳓द् इदं᳓ न᳓वीयः
स᳓ रेव᳓च् छोच स᳓ गि᳓रो जुषस्व
स᳓ वा᳓जं दर्षि स᳓ इह᳓ श्र᳓वो धाः

04 यं त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं᳓ त्वा पू᳓र्वम् ईळितो᳓ वध्रिअश्वः᳓
समीधे᳓ अग्ने स᳓ इदं᳓ जुषस्व
स᳓ न स्तिपा᳓ उत᳓ भवा तनूपा᳓
दात्रं᳓ रक्षस्व य᳓द् इदं᳓ ते अस्मे᳓

05 भवा द्युम्नी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भ᳓वा द्युम्नी᳓ वाध्रिअश्वोत᳓ गोपा᳓
मा᳓ त्वा तारीद् अभि᳓मातिर् ज᳓नानाम्
शू᳓र ऽव° धृष्णु᳓श् च्य᳓वनः सुमित्रः᳓
प्र᳓ नु᳓ वोचं वा᳓ध्रिअश्वस्य ना᳓म

06 समज्र्या पर्वत्याथ् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् अज्रि᳓या पर्वति᳓या व᳓सूनि
दा᳓सा वृत्रा᳓णि आ᳓रिया जिगेथ
शू᳓र ऽव° धृष्णु᳓श् च्य᳓वनो ज᳓नानां
तुव᳓म् अग्ने पृतनायूँ᳓र् अभि᳓ ष्याः

07 दीर्घतन्तुबृड़्हदुक्षायमग्निः सहस्रस्तरीः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दीर्घ᳓तन्तुर् बृह᳓दुक्षाय᳓म् अग्निः᳓
सह᳓स्रस्तरीः शत᳓नीथ ऋ᳓भ्वा
द्युमा᳓न् द्युम᳓त्सु नृ᳓भिर् मृज्य᳓मानः
सुमित्रे᳓षु दीदयो देवय᳓त्सु

08 त्वे धेनुः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तुवे᳓ धेनुः᳓ सुदु᳓घा जातवेदो
असश्च᳓तेव समना᳓ सबर्धु᳓क्
तुवं᳓ नृ᳓भिर् द᳓क्षिणावद्भिर् अग्ने
सुमित्रे᳓भिर् इध्यसे देवय᳓द्भिः

09 देवाश्चित्ते अमृता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देवा᳓श् चित् ते अमृ᳓ता जातवेदो
महिमा᳓नं वाध्रिअश्व प्र᳓ वोचन्
य᳓त् सम्पृ᳓छम् मा᳓नुषीर् वि᳓श आ᳓यन्
तुवं᳓ नृ᳓भिर् अजयस् त्वा᳓वृधेभिः

10 पितेव पुत्रमबिभरुपस्थे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पिते᳓व पुत्र᳓म् अबिभर् उप᳓स्थे
तुवा᳓म् अग्ने वध्रिअश्वः᳓ सपर्य᳓न्
जुषाणो᳓ अस्य समि᳓धं यविष्ठ
उत᳓ पू᳓र्वाँ अवनोर् व्रा᳓धतश् चित्

11 शश्वदग्निर्वध्र्यश्वस्य शत्रून्नृभिर्जिगाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓श्वद् अग्नि᳓र् वध्रिअश्व᳓स्य श᳓त्रून्
नृ᳓भिर् जिगाय सुत᳓सोमवद्भिः
स᳓मनं चिद् अदहश् चित्रभानो
अ᳓व व्रा᳓धन्तम् अभिनद् वृध᳓श् चित्

12 अयमग्निर्वध्र्यश्वस्य वृत्रहा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् अग्नि᳓र् वध्रिअश्व᳓स्य वृत्रहा᳓
सनका᳓त् प्रे᳓द्धो न᳓मसोपवाकि᳓यः
स᳓ नो अ᳓जामीँर् उत᳓ वा वि᳓जामीन्
अभि᳓ तिष्ठ श᳓र्धतो वाध्रिअश्व