०६६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ देवान् हुवे ’ इति पञ्चदशर्चं षष्ठं सूक्तम् । ऋष्याद्याः पूर्ववत् । “ देवान् हुवे ’ इत्यनुक्रान्तम् । पृष्ठ्याभिप्लवषडहयोः पञ्चमेऽहनीदं वैश्वदेवनिविद्धानम् । सूत्रितं च – इहेह व इति चतस्रो देवान् हुव ’ इति वैश्वदेवम् ’ (आश्व. श्रौ. ७, ५) इति ॥

Jamison Brereton

66 (892)
All Gods
Vasukarṇa Vāsukra
15 verses: jagatī, except triṣṭubh 15
The listing impulse found in the previous hymn is here carried further. The gods in general, groups of gods such as the Ādityas, Vasus, and Rudras, and individual gods both major and minor are invoked here, with conventional descriptors and predicates and with standard prayers for help and blessing. There is little to catch the attention in this hymn, though it is certainly competently done.

01 देवान्हुवे बृहच्छ्रवसः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

देवा᳓न् हुवे बृह᳓च्छ्रवसः सुअस्त᳓ये
ज्योतिष्कृ᳓तो अध्वर᳓स्य प्र᳓चेतसः
ये᳓ वावृधुः᳓ प्रतरं᳓ विश्व᳓वेदस
इ᳓न्द्रज्येष्ठासो अमृ᳓ता ऋतावृ᳓धः

02 इन्द्रप्रसूता वरुणप्रशिष्था - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रप्रसूता व᳓रुणप्रशिष्टा
ये᳓ सू᳓र्यस्य ज्यो᳓तिषो भाग᳓म् आनशुः᳓
मरु᳓द्गणे वृज᳓ने म᳓न्म धीमहि
मा᳓घोने यज्ञं᳓ जनयन्त सूर᳓यः

03 इन्द्रो वसुभिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रो व᳓सुभिः प᳓रि पातु नो ग᳓यम्
आदित्यइ᳓र् नो अ᳓दितिः श᳓र्म यछतु
रुद्रो᳓ रुद्रे᳓भिर् देवो᳓ मॄळयाति+ नस्
त्व᳓ष्टा नो ग्ना᳓भिः सुविता᳓य जिन्वतु

04 अदितिर्द्यावापृथिवी ऋतम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓दितिर् द्या᳓वापृथिवी᳓ ऋत᳓म् मह᳓द्
इ᳓न्द्रावि᳓ष्णू · मरु᳓तः सु᳓वर् बृह᳓त्
देवाँ᳓ आदित्याँ᳓ अ᳓वसे हवामहे
व᳓सून् रुद्रा᳓न् सविता᳓रं सुदं᳓ससम्

05 सरस्वान्धीभिर्वरुणो धृतव्रतः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓रस्वान् धीभि᳓र् व᳓रुणो धृत᳓व्रतः
पूषा᳓ वि᳓ष्णुर् महिमा᳓ वायु᳓र् अश्वि᳓ना
ब्रह्मकृ᳓तो अमृ᳓ता विश्व᳓वेदसः
श᳓र्म नो यंसन् त्रिव᳓रूथम् अं᳓हसः

06 वृषा यज्ञो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वृ᳓षा यज्ञो᳓ वृ᳓षणः सन्तु यज्ञि᳓या
वृ᳓षणो देवा᳓ वृ᳓षणो हविष्कृ᳓तः
वृ᳓षणा द्या᳓वापृथिवी᳓ ऋता᳓वरी
वृ᳓षा पर्ज᳓न्यो वृ᳓षणो वृषस्तु᳓भः

07 अग्नीषोमा वृषणा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नी᳓षो᳓मा वृ᳓षणा वा᳓जसातये
पुरुप्रशस्ता᳓ वृ᳓षणा उ᳓प ब्रुवे
या᳓व् ईजिरे᳓ वृ᳓षणो देवयज्य᳓या
ता᳓ नः श᳓र्म त्रिव᳓रूथं वि᳓ यंसतः

08 धृतव्रताः क्षत्रिया - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

धृत᳓व्रताः क्षत्रि᳓या यज्ञनिष्कृ᳓तो
बृहद्दिवा᳓ अध्वरा᳓णाम् अभिश्रि᳓यः
अग्नि᳓होतार ऋतसा᳓पो अद्रु᳓हो
अपो᳓ असृजन्न् अ᳓नु वृत्रतू᳓रिये

09 द्यावापृथिवी जनयन्नभि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

द्या᳓वापृथिवी᳓ जनयन्न् अभि᳓ व्रता᳓
आ᳓प ओ᳓षधीर् वनि᳓नानि यज्ञि᳓या
अन्त᳓रिक्षं सु᳓वर् आ᳓ पप्रुर् ऊत᳓ये
व᳓शं देवा᳓सस् तनु᳓वी नि᳓ मामृजुः

10 धर्तारो दिव - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

धर्ता᳓रो दिव᳓ ऋभ᳓वः सुह᳓स्ता
वातापर्जन्या᳓ महिष᳓स्य तन्यतोः᳓
आ᳓प ओ᳓षधीः प्र᳓ तिरन्तु नो गि᳓रो
भ᳓गो राति᳓र् वाजि᳓नो यन्तु मे ह᳓वम्

11 समुद्रः सिन्धू - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्रः᳓ सि᳓न्धू र᳓जो अन्त᳓रिक्षम्
अज᳓ ए᳓कपात् तनयित्नु᳓र् अर्णवः᳓
अ᳓हिर् बुध्नि᳓यः शृणवद् व᳓चांसि मे
वि᳓श्वे देवा᳓स उत᳓ सूर᳓यो म᳓म

12 स्याम वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सिया᳓म वो म᳓नवो देव᳓वीतये
प्रा᳓ञ्चं नो यज्ञ᳓म् प्र᳓ णयत साधुया᳓
आ᳓दित्या रु᳓द्रा व᳓सवः सु᳓दानव
इमा᳓ ब्र᳓ह्म शस्य᳓मानानि जिन्वत

13 दैव्या होतारा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दइ᳓व्या हो᳓तारा प्रथमा᳓ पुरो᳓हित
ऋत᳓स्य प᳓न्थाम् अ᳓नु एमि साधुया᳓
क्षे᳓त्रस्य प᳓तिम् प्र᳓तिवेशम् ईमहे
वि᳓श्वान् देवाँ᳓ अमृ᳓ताँ अ᳓प्रयुछतः

14 वसिष्टासः पितृवद्वाचमक्रत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓सिष्ठासः पितृव᳓द् वा᳓चम् अक्रत
देवाँ᳓ ई᳓ळाना ऋषिव᳓त् सुअस्त᳓ये
प्रीता᳓ इव ज्ञात᳓यः का᳓मम् ए᳓तिय
अस्मे᳓ देवासो अ᳓व धूनुता व᳓सु

15 देवान्वसिष्टो अमृतान्ववन्दे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

देवा᳓न् व᳓सिष्ठो अमृ᳓तान् ववन्दे
ये᳓ वि᳓श्वा भु᳓वना अभि᳓ प्रतस्थुः᳓
ते᳓ नो रासन्ताम् उरुगाय᳓म् अद्य᳓
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः