०६६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ देवान् हुवे ’ इति पञ्चदशर्चं षष्ठं सूक्तम् । ऋष्याद्याः पूर्ववत् । “ देवान् हुवे ’ इत्यनुक्रान्तम् । पृष्ठ्याभिप्लवषडहयोः पञ्चमेऽहनीदं वैश्वदेवनिविद्धानम् । सूत्रितं च – इहेह व इति चतस्रो देवान् हुव ’ इति वैश्वदेवम् ’ (आश्व. श्रौ. ७, ५) इति ॥

Jamison Brereton

66 (892)
All Gods
Vasukarṇa Vāsukra
15 verses: jagatī, except triṣṭubh 15
The listing impulse found in the previous hymn is here carried further. The gods in general, groups of gods such as the Ādityas, Vasus, and Rudras, and individual gods both major and minor are invoked here, with conventional descriptors and predicates and with standard prayers for help and blessing. There is little to catch the attention in this hymn, though it is certainly competently done.

01 देवान्हुवे बृहच्छ्रवसः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये॑ ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः ।
ये वा॑वृ॒धुः प्र॑त॒रं वि॒श्ववे॑दस॒ इन्द्र॑ज्येष्ठासो अ॒मृता॑ ऋता॒वृधः॑ ॥

02 इन्द्रप्रसूता वरुणप्रशिष्था - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा॑न॒शुः ।
म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो॑ने य॒ज्ञं ज॑नयन्त सू॒रयः॑ ॥

03 इन्द्रो वसुभिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॒ वसु॑भिः॒ परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यच्छतु ।
रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा॑ नो॒ ग्नाभिः॑ सुवि॒ताय॑ जिन्वतु ॥

04 अदितिर्द्यावापृथिवी ऋतम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तं म॒हदिन्द्रा॒विष्णू॑ म॒रुतः॒ स्व॑र्बृ॒हत् ।
दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे॒ वसू॑न्रु॒द्रान्त्स॑वि॒तारं॑ सु॒दंस॑सम् ॥

05 सरस्वान्धीभिर्वरुणो धृतव्रतः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु॑र्महि॒मा वा॒युर॒श्विना॑ ।
ब्र॒ह्म॒कृतो॑ अ॒मृता॑ वि॒श्ववे॑दसः॒ शर्म॑ नो यंसन्त्रि॒वरू॑थ॒मंह॑सः ॥

06 वृषा यज्ञो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा॑ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृतः॑ ।
वृष॑णा॒ द्यावा॑पृथि॒वी ऋ॒ताव॑री॒ वृषा॑ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभः॑ ॥

07 अग्नीषोमा वृषणा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒ उप॑ ब्रुवे ।
यावी॑जि॒रे वृष॑णो देवय॒ज्यया॒ ता नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सतः ॥

08 धृतव्रताः क्षत्रिया - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

धृ॒तव्र॑ताः क्ष॒त्रिया॑ यज्ञनि॒ष्कृतो॑ बृहद्दि॒वा अ॑ध्व॒राणा॑मभि॒श्रियः॑ ।
अ॒ग्निहो॑तार ऋत॒सापो॑ अ॒द्रुहो॒ऽपो अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये॑ ॥

09 द्यावापृथिवी जनयन्नभि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावा॑पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना॑नि य॒ज्ञिया॑ ।
अ॒न्तरि॑क्षं॒ स्व१॒॑रा प॑प्रुरू॒तये॒ वशं॑ दे॒वास॑स्त॒न्वी॒३॒॑ नि मा॑मृजुः ॥

10 धर्तारो दिव - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ध॒र्तारो॑ दि॒व ऋ॒भवः॑ सु॒हस्ता॑ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः ।
आप॒ ओष॑धीः॒ प्र ति॑रन्तु नो॒ गिरो॒ भगो॑ रा॒तिर्वा॒जिनो॑ यन्तु मे॒ हव॑म् ॥

11 समुद्रः सिन्धू - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मु॒द्रः सिन्धू॒ रजो॑ अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः ।
अहि॑र्बु॒ध्न्यः॑ शृणव॒द्वचां॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥

12 स्याम वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स्याम॑ वो॒ मन॑वो दे॒ववी॑तये॒ प्राञ्चं॑ नो य॒ज्ञं प्र ण॑यत साधु॒या ।
आदि॑त्या॒ रुद्रा॒ वस॑वः॒ सुदा॑नव इ॒मा ब्रह्म॑ श॒स्यमा॑नानि जिन्वत ॥

13 दैव्या होतारा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे॑मि साधु॒या ।
क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वा॑न्दे॒वाँ अ॒मृताँ॒ अप्र॑युच्छतः ॥

14 वसिष्टासः पितृवद्वाचमक्रत - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ ।
प्री॒ता इ॑व ज्ञा॒तयः॒ काम॒मेत्या॒स्मे दे॑वा॒सोऽव॑ धूनुता॒ वसु॑ ॥

15 देवान्वसिष्टो अमृतान्ववन्दे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः ।
ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥