०६३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ परावतो ये’ इति सप्तदशर्चं तृतीयं सूक्तं प्लतेः पुत्रस्य गयस्यार्षम् । षोडशीसप्तदश्यौ त्रिष्टुभौ । पञ्चदशी त्रिष्टुब्जगती वा । शिष्टाश्चतुर्दश जगत्यः । ‘ स्वस्ति नः पथ्यासु’ इति द्वे पथ्यास्वस्तिदेवताके। शिष्टा वैश्वदेव्यः । तथा चानुक्रान्तं – परावतस्त्र्यूना गयः प्लातो द्वित्रिष्टुबन्तं तु स्वस्ति नस्त्रिटुब्वा सह चोत्तरया पथ्यास्वस्तिदेवत्या’ इति । पृष्ठ्याभिप्लवषडहयोस्तृतीयेऽहनि वैश्वदेवशस्त्र एतत्सूक्तं वैश्वदेवनिविद्धानम् । सूत्रित च -– अनश्वो जातः परावतो य इति वैश्वदैवम् ’ ( आश्व. श्रौ. ७. ७) इति ॥

Jamison Brereton

63 (889)
All Gods
Gaya Plāta
17 verses: jagatī, except triṣṭubh 16–17
The signature word of this hymn is svastí “well-being”: in the dative suvastáye it provides the last four syllables of verses 3–14, and its nominative opens five consecutive pādas in the verses after that refrain (15–16a). The gods from whom the poet solicits well-being are primarily the Ādityas and their mother Aditi, who especially dominate the first half of the hymn. Beginning with verse 9 other gods are also invoked, though the Ādityas keep their prominence. Not surprisingly in a hymn devoted to well-being, the emphasis is on positive thoughts, though some worries about potential dangers do intrude (see vss. 11–12). More surprisingly in a hymn with such a strong Ādityan cast, our potential moral flaws are barely men
tioned (vs. 8c).

01 परावतो ये - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

पराव᳓तो ये᳓ दि᳓धिषन्त आ᳓पियम्
म᳓नुप्रीतासो ज᳓निमा विव᳓स्वतः
यया᳓तेर् ये᳓ नहुषि᳓यस्य बर्हि᳓षि
देवा᳓ आ᳓सते ते᳓ अ᳓धि ब्रुवन्तु नः

02 विश्वा हि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वा हि᳓ वो नमसि᳓यानि व᳓न्दिया
ना᳓मानि देवा उत᳓ यज्ञि᳓यानि वः
ये᳓ स्थ᳓ जाता᳓ अ᳓दितेर् अद्भिय᳓स् प᳓रि
ये᳓ पृथिव्या᳓स् ते᳓ म इह᳓ श्रुता ह᳓वम्

03 येभ्यो माता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓भ्यो माता᳓ म᳓धुमत् पि᳓न्वते प᳓यः
पीयू᳓षं द्यउ᳓र् अ᳓दितिर् अ᳓द्रिबर्हाः
उक्थ᳓शुष्मान् वृषभरा᳓न् सुअ᳓प्नसस्
ताँ᳓ आदित्याँ᳓ अ᳓नु मदा सुअस्त᳓ये

04 नृचक्षसो अनिमिषन्तो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

नृच᳓क्षसो अ᳓निमिषन्तो अर्ह᳓णा
बृह᳓द् देवा᳓सो अमृतत्व᳓म् आनशुः
ज्योती᳓रथा अ᳓हिमाया अ᳓नागसो
दिवो᳓ वर्ष्मा᳓णं वसते सुअस्त᳓ये

05 सम्राजो ये - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सम्रा᳓जो ये᳓ सुवृ᳓धो यज्ञ᳓म् आययु᳓र्
अ᳓परिह्वृता दधिरे᳓ दिवि᳓ क्ष᳓यम्
ताँ᳓ आ᳓ विवास न᳓मसा सुवृक्ति᳓भिर्
महो᳓ आदित्याँ᳓ अ᳓दितिं सुअस्त᳓ये

06 को व - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

को᳓ व स्तो᳓मं राधति यं᳓ जु᳓जोषथ
वि᳓श्वे देवासो मनुषो य᳓ति ष्ठ᳓न
को᳓ वो ऽध्वरं᳓ तुविजाता अ᳓रं करद्
यो᳓ नः प᳓र्षद् अ᳓ति अं᳓हः सुअस्त᳓ये

07 येभ्यो होत्राम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓भ्यो हो᳓त्राम् प्रथमा᳓म् आयेजे᳓ म᳓नुः
स᳓मिद्धाग्निर् म᳓नसा सप्त᳓ हो᳓तृभिः
त᳓ आदित्या अ᳓भयं श᳓र्म यछत
सुगा᳓ नः कर्त सुप᳓था सुअस्त᳓ये

08 य ईशिरे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ ई᳓शिरे भु᳓वनस्य प्र᳓चेतसो
वि᳓श्वस्य स्थातु᳓र् ज᳓गतश् च म᳓न्तवः
ते᳓ नः कृता᳓द् अ᳓कृताद् ए᳓नसस् प᳓रि
अद्या᳓ देवासः पिपृता सुअस्त᳓ये

09 भरेष्विन्द्रं सुहवम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

भ᳓रेषु इ᳓न्द्रं सुह᳓वं हवामहे
अंहोमु᳓चं सुकृ᳓तं दइ᳓वियं ज᳓नम्
अग्नि᳓म् मित्रं᳓ व᳓रुणं सात᳓ये भ᳓गं
द्या᳓वापृथिवी᳓ मरु᳓तः सुअस्त᳓ये

10 सुत्रामाणं पृथिवीम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सुत्रा᳓माणम् पृथिवीं᳓ द्या᳓म् अनेह᳓सं
सुश᳓र्माणम् अ᳓दितिं सुप्र᳓णीतिम्
दइ᳓वीं ना᳓वं सुअरित्रा᳓म् अ᳓नागसम्
अ᳓स्रवन्तीम् आ᳓ रुहेमा सुअस्त᳓ये

11 विश्वे यजत्रा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वे यजत्रा अ᳓धि वोचतोत᳓ये
त्रा᳓यध्वं नो दुरे᳓वाया अभिह्रु᳓तः
सत्य᳓या वो देव᳓हूत्या हुवेम
शृण्वतो᳓ देवा अ᳓वसे सुअस्त᳓ये

12 अपामीवामप विश्वामनाहुतिमपारातिम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓पा᳓मीवाम् अ᳓प वि᳓श्वाम् अ᳓नाहुतिम्
अ᳓पा᳓रातिं दुर्विद᳓त्राम् अघायतः᳓
आरे᳓ देवा द्वे᳓षो अस्म᳓द् युयोतन
उरु᳓ णः श᳓र्म यछता सुअस्त᳓ये

13 अरिष्थः स - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓रिष्टः स᳓ म᳓र्तिओ° वि᳓श्व एधते
प्र᳓ प्रजा᳓भिर् जायते ध᳓र्मणस् प᳓रि
य᳓म् आदित्यासो न᳓यथा सुनीति᳓भिर्
अ᳓ति वि᳓श्वानि दुरिता᳓ सुअस्त᳓ये

14 यं देवासोऽवथ - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यं᳓ देवासो अ᳓वथ वा᳓जसातौ
यं᳓ शू᳓रसाता मरुतो हिते᳓ ध᳓ने
प्रातर्या᳓वाणं र᳓थम् इन्द्र सानसि᳓म्
अ᳓रिष्यन्तम् आ᳓ रुहेमा सुअस्त᳓ये

15 स्वस्ति नः - जगती त्रिष्टुब्वा

विश्वास-प्रस्तुतिः ...{Loading}...

सुअस्ति᳓ नः · पथि᳓यासु ध᳓न्वसु
सुअस्ति᳓ अप्सु᳓ वृज᳓ने सु᳓वर्वति
सुअस्ति᳓ नः पुत्रकृथे᳓षु यो᳓निषु
सुअस्ति᳓ राये᳓ मरुतो दधातन

16 स्वस्तिरिद्धि प्रपथे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुअस्ति᳓र् इ᳓द् धि᳓ प्र᳓पथे श्र᳓यिष्ठा+
रे᳓क्णस्वती अभि᳓ या᳓ वाम᳓म् ए᳓ति
सा᳓ नो अमा᳓ सो᳓ अ᳓रणे नि᳓ पातु
सुआवेशा᳓ भवतु देव᳓गोपा

17 एवा प्लतेः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ प्लतेः᳓ सूनु᳓र् अवीवृधद् वो
वि᳓श्व आदित्या अदिते मनीषी᳓
ईशाना᳓सो न᳓रो अ᳓मर्तियेन
अ᳓स्तावि ज᳓नो दिवियो᳓ ग᳓येन