०६२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

व्याख्याय प्रथमं विद्वानष्टमस्याष्टकस्य सः ।

अध्यायं सायणामात्यो द्वितीयं व्याचिकीर्षति ।।

तत्र ‘ ये यज्ञेन’ इत्येकादशर्चमनुवाकापेक्षया द्वितीयं सूक्तं मानवस्य नाभानेदिष्ठस्यार्षम् । आदितश्चतस्रो जगत्यः । पञ्चम्यनुष्टुप् । षष्ठी बृहती। सप्तमी सतोबृहती । अष्टमीनवम्यावनुष्टुभौ । दशमी गायत्री । एकादशी त्रिष्टुप् । आदितः षण्णां विश्वे देवा अङ्गिरसो वा देवता । सप्तमी वैश्वदेवी । अष्टम्याद्यासु चतसृषु सावर्णेर्महाराजस्य दानं स्तूयते । अतस्तास्तद्देवताकाः । तथा चानुक्रम्यते—- ‘ ये यज्ञेनैकादशाद्याः षळङ्गिरसां स्तुतिर्वान्त्या त्रिष्टुप्पञ्चम्यनुष्टुप्प्रगाथोऽनुष्टुभौ गायत्री चतस्रोऽन्त्याः सावर्णेर्दानस्तुतिः’ इति । षष्ठेऽहनि वैश्वदेवशस्त्र एतत्सूक्तम् । सूत्रितं च – ’ इदमित्था रौद्रमिति प्रागुपोत्तमाया ये यज्ञेनेत्यावपते ’ ( आश्व. श्रौ. ८. १ ) इति ॥

Jamison Brereton

62 (888)
All Gods
Nābhānediṣṭha Mānava
11 verses: jagatī 1–4, anuṣṭubh 5, br̥hatī 6, satobr̥hatī 7, anuṣṭubh 8–9, gāyatrī 10, triṣṭubh 11
Attributed to the same poet as X.61, this hymn takes up some of the same themes as the previous hymn, but in much more straightforward fashion. The Aṅgirases, who figured in verses 10–13 of X.61, are the subject of the first seven verses of this hymn, with blessings heaped upon them in verses 1–4. Their lineal descent from Agni is clearly indicated here (vss. 5–6), while in X.61 it was present pri
marily by implication (vss. 9–10). The Vala myth is treated in verses 2 and 7, and in verse 3 the Aṅgirases are credited with cosmogonic deeds more appropriate to Indra.
The “navel” of X.61.18–19 is also encountered in verse 4 of this hymn (loc. nā́bhā, pāda a). Although some (e.g., Geldner) consider the navel in that verse to be a truncation of the (supposed) poet’s name Nābhānediṣṭha, we consider it to a reference to the sacrificial ground or the ritual fire, as in X.61.19.
The first four verses end with the refrain “Accept the descendant of Manu (mānavá).” Geldner, who believes that the hymn conforms to the story told in Aitareya Brāhmaṇa V.14 about Nābhānediṣṭha Mānava, considers this refrain to be a self-reference by the poet and supplies “me” with mānavám as its appositive (“accept me, the descendant of Manu”). But we follow Oldenberg in considering the Aitareya Brāhmaṇa story secondary and, like many Brāhmaṇa explanations of R̥gvedic hymns, based on misunderstanding. Given that our poet’s patron is named Manu (see vss. 8 and 11), it seems more likely that in this refrain the poet is com
mending his patron and/or his family to the protection of the Aṅgirases. The final four verses (8–11) are a dānastuti of this patron, Manu Sāvarṇi, with the final Aṅgiras verse (7) serving as a transition to this praise of magnanimity.

Geldner

Danksagung an Savarni

01 ये यज्ञेन - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ यज्ञे᳓न द᳓क्षिणया स᳓मक्ता
इ᳓न्द्रस्य सख्य᳓म् अमृतत्व᳓म् आनश᳓
ते᳓भ्यो भद्र᳓म् अङ्गिरसो वो अस्तु
प्र᳓ति गृभ्णीत मानवं᳓ सुमेधसः

02 य उदाजन्पितरो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ उदा᳓जन् पित᳓रो गोम᳓यं व᳓सु
ऋते᳓ना᳓भिन्दन् परिवत्सरे᳓ वल᳓म्
दीर्घायुत्व᳓म् अङ्गिरसो वो अस्तु
प्र᳓ति गृभ्णीत मानवं᳓ सुमेधसः

03 य ऋतेन - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓ ऋते᳓न सू᳓र्यम् आ᳓रोहयन् दिवि᳓
अ᳓प्रथयन् पृथिवी᳓म् मात᳓रं वि᳓
सुप्रजास्त्व᳓म् अङ्गिरसो वो अस्तु
प्र᳓ति गृभ्णीत मानवं᳓ सुमेधसः

04 अयं नाभा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ ना᳓भा वदति वल्गु᳓ वो गृहे᳓
दे᳓वपुत्रा ऋषयस् त᳓च् छृणोतन
सुब्रह्मण्य᳓म् अङ्गिरसो वो अस्तु
प्र᳓ति गृभ्णीत मानवं᳓ सुमेधसः

05 विरूपास इदृषयस्त - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓रूपास इ᳓द् ऋ᳓षयस्
त᳓ इ᳓द् गम्भीर᳓वेपसः
ते᳓ अ᳓ङ्गिरसः सून᳓वस्
ते᳓ अग्नेः᳓ प᳓रि जज्ञिरे

06 ये अग्नेः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ अग्नेः᳓ प᳓रि जज्ञिरे᳓
वि᳓रूपासो दिव᳓स् प᳓रि
न᳓वग्वो नु᳓ द᳓शग्वो अ᳓ङ्गिरस्तमो
स᳓चा देवे᳓षु मंहते

07 इन्द्रेण युजा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्रेण युजा᳓ निः᳓ सृजन्त वाघ᳓तो
व्रजं᳓ गो᳓मन्तम् अश्वि᳓नम्
सह᳓स्रम् मे द᳓दतो अष्टकर्णि᳓यः
श्र᳓वो देवे᳓षु अक्रत

08 प्र नूनम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ नूनं᳓ जायताम् अय᳓म्
म᳓नुस् तो᳓क्मेव रोहतु
यः᳓ सह᳓स्रं शता᳓शुवं
सद्यो᳓ दाना᳓य मं᳓हते

09 न तमश्नोति - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ त᳓म् अश्नोति क᳓श् चन᳓
दिव᳓ ऽव° सा᳓नु आर᳓भम्
सावर्णिय᳓स्य द᳓क्षिणा
वि᳓ सि᳓न्धुर् इव पप्रथे

10 उत दासा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ दासा᳓ परिवि᳓षे
स्म᳓द्दिष्टी गो᳓परीणसा
य᳓दुस् तुर्व᳓श् च मामहे

11 सहस्रदा ग्रामणीर्मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्रदा᳓ ग्रामणी᳓र् मा᳓ रिषन् म᳓नुः
सू᳓र्येणास्य य᳓तमानैतु द᳓क्षिणा
सा᳓वर्णेर् देवाः᳓ प्र᳓ तिरन्तु आ᳓युर्
य᳓स्मिन्न् अ᳓श्रान्ता अ᳓सनाम वा᳓जम्