०६०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ जनम् ’ इति द्वादशर्चमष्टादशं सूक्तम् । गौपायना बन्ध्वादय ऋषयः । षष्ठ्यास्त्वगस्त्यस्य स्वसैषां मातर्षिका । आदितः पञ्च गायत्र्यः । अष्टमीनवम्यौ पङ्क्ती । शिष्टा अनुष्टुभः। आदितश्चतसृणामसमातिनाम्नो राज्ञः स्तूयमानत्वात् स एव देवता । पञ्चम्या इन्द्रः । षष्ठ्या अप्यसमातिः । ततः पञ्चानां सुबन्धोर्जीविताह्वानरूपोऽर्थो देवता । अयं मे हस्तः’ इत्यस्या लब्धसंज्ञस्य सुबन्धोः स्पर्शनहेतुभूतो देवता । तथा चानुक्रमणिका – आ जनमिति द्वादशर्चमानुष्टुभं चतसृभिरसमातिमस्तुवन्पञ्चम्येन्द्रं षष्ठ्यागस्त्यस्य स्वसा मातैषां राजानमस्तौत्पराभिः सुबन्धोर्जीवमाह्वयंस्तमन्यया लब्धसंज्ञमस्पृशन् पञ्चाद्या गायत्र्योऽष्टम्याद्ये पङ्क्ती ’ इति ।।

Jamison Brereton

60 (886)
Asamāti (1–4, 6), Indra (5), Spell to Heal Subandhu (7–11), Praise of the Hand (12)
The four Gaupāyanas or Laupāyanas (as for X.57)
12 verses: anuṣṭubh 1–5, anuṣṭubh 6–7, paṅkti 8–9, anuṣṭubh 10–12
Another hymn that invites decomposition. The first six verses are a sort of praśasti or royal encomium of Asamāti; indeed, the first four form a single sentence. There

is no obvious connection to the themes of healing and restoration to life found in the other Gaupāyana hymns, and one can see how the lack of thematic integration invited the explanatory itihāsa (see introduction to X.57) that provides a tale relat ing King Asamāti to the suffering Subandhu.
The second part of the hymn (vss. 7–12) is a spell to heal Subandhu and restore his mind. It first recalls him to life (vs. 7), then provides models from the constructed and natural worlds (vss. 8 and 9 respectively) for securing Subandhu’s mind within him. The return of his mind is announced in verse 10, while his sickness is banished in verse 11, again with models from the natural world. Finally the healing hand is praised in verse 12. Thus, this final segment of the Gaupāyana collection returns us to the first two hymns, X.57–58, and their concentration on the return of the mind of a sick person. Note especially that the first verse of X.58, which envisions the departure of his mind to Yama Vaivasvata in the realm of the dead, is triumphantly completed here by verse 10, “I have brought the mind of Subandhu here from Yama Vaivasvata.”

01 आ जनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ जनं॑ त्वे॒षसं॑दृशं॒ माही॑नाना॒मुप॑स्तुतम् ।
अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥

02 असमातिं नितोशनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अस॑मातिं नि॒तोश॑नं त्वे॒षं नि॑य॒यिनं॒ रथ॑म् ।
भ॒जेर॑थस्य॒ सत्प॑तिम् ॥

03 यो जनान्महिषाँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो जना॑न्महि॒षाँ इ॑वातित॒स्थौ पवी॑रवान् ।
उ॒ताप॑वीरवान्यु॒धा ॥

04 यस्येक्ष्वाकुरुप व्रते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ये॑क्ष्वा॒कुरुप॑ व्र॒ते रे॒वान्म॑रा॒य्येध॑ते ।
दि॒वी॑व॒ पञ्च॑ कृ॒ष्टयः॑ ॥

05 इन्द्र क्षत्रासमातिषु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ क्ष॒त्रास॑मातिषु॒ रथ॑प्रोष्ठेषु धारय ।
दि॒वी॑व॒ सूर्यं॑ दृ॒शे ॥

06 अगस्त्यस्य नद्भ्यः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒गस्त्य॑स्य॒ नद्भ्यः॒ सप्ती॑ युनक्षि॒ रोहि॑ता ।
प॒णीन्न्य॑क्रमीर॒भि विश्वा॑न्राजन्नरा॒धसः॑ ॥

07 अयं मातायम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत् ।
इ॒दं तव॑ प्र॒सर्प॑णं॒ सुब॑न्ध॒वेहि॒ निरि॑हि ॥

08 यथा युगम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॑ यु॒गं व॑र॒त्रया॒ नह्य॑न्ति ध॒रुणा॑य॒ कम् ।
ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥

09 यथेयं पृथिवी - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न् ।
ए॒वा दा॑धार ते॒ मनो॑ जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥

10 यमादहं वैवस्वतात्सुबन्धोर्मन - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य॒माद॒हं वै॑वस्व॒तात्सु॒बन्धो॒र्मन॒ आभ॑रम् ।
जी॒वात॑वे॒ न मृ॒त्यवेऽथो॑ अरि॒ष्टता॑तये ॥

11 न्यट्ग्वातोऽव वाति - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न्य१॒॑ग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑ ।
नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ॥

12 अयं मे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे॑ वि॒श्वभे॑षजो॒ऽयं शि॒वाभि॑मर्शनः ॥