०५७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

मा प्र गाम ’ इति षडृचं पञ्चदशं सूक्तं गायत्रं वैश्वदेवम् । ऐक्ष्वाकोऽसमातिर्नाम राजा । तस्य बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्चेति चत्वारः पुरोहिता आसन् । ते च गौपायनाः । स च राजा तांस्त्यक्त्वान्यौ मायाविनावृषी पुरोहितत्वेनावृणीत । ततो बन्ध्वादयः क्रुद्धाः सन्त इमं राजानमभिचरितवन्तः । एतज्ज्ञात्वा मायाविनौ पुरोहितावेषामन्यतमं सुबन्धुं प्राणैर्वियोजितवन्तौ । मृतस्यास्य भ्रातरो बन्धुः श्रुतबन्धुर्विप्रबन्धुरित्येतेऽविनाशप्राप्तिहेतुभूतमिदं दृष्ट्वा जपन्ति स्म । अतस्तेऽस्य सूक्तस्यर्षयः । प्रतिपाद्यत्वादावर्तमानं मनो देवता । तथा चानुक्रान्तम् - अथ हैक्ष्वाको राजासमातिर्गौपायनान्बन्ध्वादीन्पुरोहितांस्त्यक्त्वान्यौ मायाविनौ श्रेष्ठतमौ मत्वा पुरोदधे । तमितरे क्रुद्धा अभिचेरुः । अथ तौ मायाविनौ सुबन्धोः प्राणानाचिक्षिपतुरथ हास्य भ्रातरस्त्रयः । म प्र गामेति षट्कं गायत्रं स्वस्त्ययनं जप्त्वा ’ इति । अग्निसमीपाद्देशान्तरगमनसमय इदं सूक्तं जप्यम् । सूत्रितं च – ‘ प्रव्रजेदनपेक्षमाणो मा प्र गामेति सूक्तं जपन्’ (आश्व. श्रौ.. २.५.४) इति । महापितृयज्ञेऽप्येतदृत्विग्भिर्जप्यम् । सूत्रितं च – ‘ मा प्र गामाग्ने त्वं न इति जपन्तः’ (आश्व. श्रौ. २.१९.३६) इति । निविदः स्थानातिपत्ताविदं सूक्तं शस्त्वा सूक्तान्तरे निवित्प्रक्षेप्तव्या । सूत्रितं च – ‘ स्थानं चेन्निविदोऽतिहरेन्मा प्र गामेति पुरस्तात्सूक्तं शस्त्वा ’ ( आश्व. श्रौ. ६.६.१८ ) इति ।

Jamison Brereton

57 (883)
All Gods
Bandhu, Subandhu, Śrutabandhu, and Viprabandhu, the four Gaupāyanas or Laupāyanas
6 verses: gāyatrī
On its surface this hymn contains a simple revivifying spell seeking the return of “mind” to a person or persons in some distress—prefaced by two verses seeking to avoid ritual wrongdoing and to attain the help of Agni. This hymn is closely linked with X.58, a patterned litany calling for the return of mind. In both, “mind” has a broader semantic range than it generally does in English, encompassing not merely thought and mental processes, but what we might want to term “spirit.”
Traditionally this hymn and the following three (X.57–60) are considered the poetic representations of an itihāsa (traditional explanatory story) concerning the king Asamāti, who dismissed his purohitas (house-priests), the four Gaupāyanas (supposedly the poets of these very hymns), and hired several Asuras instead. The latter deprived one of the Gaupāyanas, Subandhu, of his life, and in this hymn the three remaining brothers call his mind to return. The anachronistic details in this story—the king’s house-priest, the evil nature of Asuras—mark it as a secondary confection, invented for or adapted to hymns composed for other purposes.

01 मा प्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिनः॑ ।
मान्तः स्थु॑र्नो॒ अरा॑तयः ॥

02 यो यज्ञस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः ।
तमाहु॑तं नशीमहि ॥

03 मनो न्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मनो॒ न्व् आ हु॑वामहे
नाराशं॒सेन॒ सोमे॑न ।
पि॒तॄ॒णां च॒ मन्म॑भिः ॥

04 आ त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ त॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ ।
ज्योक्च॒ सूर्यं॑ दृ॒शे ॥

05 पुनर्नः पितरो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पुन॑र्नः पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जनः॑ ।
जी॒वं व्रातं॑ सचेमहि ॥

06 वयं सोम - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यं सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः ।
प्र॒जाव॑न्तः सचेमहि ॥