०५१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘महत्तत्’ इति नवर्चं नवमं सूक्तम् । वज्रभूतेन वषट्कारेण देवानां हविर्वहनेन च हतेषु भ्रातृषु कनिष्ठः सौचीको नामाग्निर्वषट्कारहविर्वहनाभ्यां भीतो देवेभ्यो निर्गत्यापः प्राविशत् । स च मत्स्यैः प्रदर्शितः सन्नन्वेष्टुमागतैर्देवैः सहेदमादिसूक्तत्रयेण संवादं कृतवान् । अस्य सूक्तस्य द्वितीयादियुजश्चतस्रो विश्वे देवाः शास्तन’ इति षडृचमुत्तरसूक्तं चेति दशर्चोऽग्निवाक्यम् । अयुजः प्रथमाद्याः पञ्चर्चो ‘यमैच्छाम मनसा’ इत्येकादशर्चमुत्तरसूक्तं च देवानां वाक्यम् । तत्र ‘ तदद्य वाचः प्रथमं मसीय’ इति द्वृचस्त्वग्नेर्वाक्यम् । अतोऽग्निवाक्येषु देवा देवताग्निर्ऋषिः । देवोक्तिष्वग्निर्देवता देवा ऋषयः । अनादेशपरिभाषयेदमुत्तरं च द्वे त्रैष्टुभे विशेषानभिधानात् । तथा चानुक्रान्तं – वषट्कारेण वृक्णेषु भ्रातृषु सौचीकोऽग्निरपः प्रविश्य देवैः समवददुत्तरैस्त्रिभिर्महत्तन्नव तत्र युजोऽग्निवाक्यं विश्व इत्युत्तरं षट्कमयुजो देवानां यमैच्छामेत्युत्तरं चैकादशकं तदद्येति तु द्वृचोऽग्नेः’ इति । गतो विनियोगः । सूक्तत्रयोक्तार्थे तैत्तिरीयब्राह्मणम्-’ अग्नेस्त्रयो ज्यायांसो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त सोऽग्निरबिभेदित्थं वाव स्य आर्तिमारिष्यतीति स निलायत सोऽपः प्राविशत्तं देवताः प्रैषमैच्छन्’ (तै. सं. २. ६. ६) इत्यादि । तत्राद्यया देवा अग्निमाहुः ॥

Jamison Brereton

51 (877)
Dialogue between Agni and the Gods
Agni Saucīka
9 verses: triṣṭubh
The classic dialogue between Agni and the gods (or one or more gods: he addresses Mitra and Varuṇa [vs. 2] and Varuṇa alone [vss. 4, 6]). Agni appears still to be in the waters (or just emerged), and the gods have only recently discovered his hiding place. The first question is which god spotted him (vss. 1–3). Agni then describes the fear that drove him from his sacrificial role, in responsive language that defines an omphalos (vss. 4, 6, esp. 4a and 6c). In the omphalos verse (5) the gods make the argument that Manu, a human and the first sacrificer, deserves to have his sacrifice completed by Agni’s conveyance of the oblations. It is striking that the gods, perhaps disingenuously, do not argue for their own deserving state. In the last three verses (7–9) the gods propose rewards for Agni’s returning to his task, and he accepts them.

मानसतरङ्गिणीकृत् - टिप्पनी

The mention of the archer shooting at the bull is important. It is an ancient motif in myth that is depicted in Egypt on the Dendera Zodiac. Here the goddess Satit shoots at Sirius which is the head of the Sothis cow! But in this instance the gaur bull is likely to be Taurus fleeing from the archer who is mR^igavyAdha (or could he gaur be another name for the antelope mR^iga?) for the Indo-Aryans.

Geldner

Ein Gott:

01 महत्तदुल्बं स्थविरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दे᳓व᳓व᳓च᳓न᳓म् -
मह᳓त् त᳓द् उ᳓ल्बं+++(=आवरणम् - खगोलम्!)+++ स्थ᳓विरं त᳓द् आसीद्
ये᳓ना᳓वि+++(वे)+++ष्टितः प्रविवे᳓शिथापः᳓ +++(=सूर्यपथि दक्षिणभागः)+++ ।
वि᳓श्वा अपश्यद् बहुधा᳓ ते अग्ने
जा᳓तवेदस् तन्वो᳙ देव᳓ ए᳓कः ॥१

02 को मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्नि᳓व᳓च᳓न᳓म् -

को᳓ मा ददर्श? कतमः᳓ स᳓ देवो᳓?
यो᳓ मे तन्वो᳙ बहुधा᳓ पर्य᳓पश्यत् ।
+++(अग्निः)+++ क्वा᳓ह +++(हे)+++ मित्रावरुणा क्षियन्त्य्+++(=निवसन्त्य्)+++
अग्ने᳓र् वि᳓श्वाः समि᳓धो देवया᳓नीः +++(=सूर्यपथ्य् उत्तरभागे वर्तमानाः)+++ ॥२

03 ऐच्छाम त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓रु᳓णो᳓ ऽव᳓द᳓त् -

ऐ᳓च्छाम त्वा बहुधा᳓ जातवेदः
प्र᳓विष्टम् अग्ने अप्स्व् ओ᳓षधीषु ।
तं᳓ त्वा यमो᳓ अचिकेच् चित्रभानो
दश+अन्तरुष्या᳓द्+++(=गूढावासाद्)+++ अतिरो᳓चमानम् ॥३

04 होत्रादहं वरुण - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्निः᳓ -

होत्रा᳓दहं᳓ वरुण बि᳓भ्यद् आयं
ने᳓देव᳓ मा युन᳓जन्न् आ᳓त्र देवाः᳓ ।
त᳓स्य मे तन्वो᳙ बहुधा᳓ नि᳓विष्टा
एत᳓म᳓र्थं न᳓ चिकेताह᳓मग्निः᳓ ॥४

05 एहि मनुर्देवयुर्यज्ञकामोऽरङ्कृत्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓रु᳓णः᳓ -

ए᳓हि म᳓नुर् देवयु᳓र्+++(=देवेषु युक्तः)+++ यज्ञ᳓कामो
+++(आत्मानम्)+++ ऽरङ्कृ᳓त्या त᳓मसि क्षेष्य्+++(=वससि)+++ अग्ने ।
सुगा᳓न् पथः᳓ कृणुहि देवया᳓नान्
व᳓ह हव्या᳓नि सुमनस्य᳓मानः ॥५

06 अग्नेः पूर्वे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्निः᳓ -

अग्नेः᳓ पू᳓र्वे भ्रा᳓तरो अ᳓र्थम् एतं᳓
+++(भूपतिभुवनपतिर्भूतानां पतिरिति +अयनचलनेन रिष्टाः)+++
रथी᳓वा᳓ध्वानम् अ᳓न्व्+++(=क्रमशः)+++ आ᳓वरीवुः ।
त᳓स्माद् भिया᳓ वरुण दूर᳓म् आयं
गौरो᳓ न᳓+++(=इव)+++ +++(इषु-)+++क्षेप्नो᳓र् अविजे+++(=अकम्पे)+++ ज्या᳓याः ॥६

07 कुर्मस्त आयुरजरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दे᳓वाः᳓ -

कुर्म᳓स् त आ᳓युर् अज᳓रं य᳓द् अग्ने
य᳓था युक्तो᳓ जातवेदो न᳓ रि᳓ष्याः ।
अ᳓था वहासि सुमनस्य᳓मानो
भागं᳓ देवे᳓भ्यो हवि᳓षः सुजात ॥७

08 प्रयाजान्मे अनुयाजाँश्च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(“त्वमजरो भविष्यसि, न रिष्टः कदाचिद्” इति देवदत्तं वरं सत्यञ् जातम् - अधुनायनांशप्रयोगेण। कृत्तिकासु वर्तमानो अग्निर् यथा विषुवस्थानस्थः स्यात्, तथा त्वयनांशश् चेतव्यः।)+++

अ᳓ग्निः᳓ -
प्रयाजा᳓न् मे अनुयाजां᳓श् च के᳓वलान्
+++(प्रत्यभिघारणात्)+++ ऊ᳓र्जस्वन्तं हवि᳓षो दत्त+++(लोट्, मध्यम, बहु)+++ भागं᳓ ।
घृतं᳓ चापां᳓ पु᳓रुषं चौ᳓षधीनाम्
+++(“शरीरदाया ह वा अग्नयो भवन्ति” इति च ब्राह्मणं, ‘ पुरुषाहुतिर् यस्य प्रियतमा’ इति च ॥)+++
अग्ने᳓श् च दीर्घ᳓म् आ᳓युर् अस्तु देवाः ॥८

09 तव प्रयाजा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दे᳓वाः᳓ -
त᳓व प्रयाजा᳓ अनुयाजा᳓श् च के᳓वल
ऊ᳓र्जस्वंतो हवि᳓षः संतु भागाः᳓ ।
त᳓वाग्ने यज्ञो३᳓ऽय᳓मस्तु स᳓र्वस्
तु᳓भ्यं नमन्तां प्रदि᳓शश् च᳓तस्रः ॥९