०५०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र वो महे’ इति सप्तर्चमष्टमं सूक्तम् । आदितो द्वे जगत्यौ । “के ते नरः’ इत्यादिके द्वे अभिसारिण्यौ । आदितो द्वौ दशाक्षरौ ततो द्वौ द्वादशकौ साभिसारिणी । तदुक्तं - वैराजौ जागतौ चाभिसारिणी ’ ( अनु. ९, ४ ) इति । ततस्त्रिष्टुबेका। ततो द्वे जगत्यौ । पूर्ववदृषिदेवते । तथा चानुक्रान्तं— ‘ प्र वो महे सप्त द्विजगत्याद्यन्तं के तेऽभिसारिण्यौ ’ इति । महाव्रते निष्केवल्य एतत्सूक्तं निविद्धानम् । सूत्रितं च - ‘ प्र वो महे मन्दमानायान्धस इति निविद्धानम् ’ (ऐ. आ. ५. ३. १ ) इति ॥

Jamison Brereton

50 (876)
Indra Vaikuṇthạ
Indra Vaikuṇṭha
7 verses: jagatī 1–2, abhisāriṇī 3–4, triṣṭubh 5, jagatī 6–7
A much more conventional Indra hymn than the preceding two of this series (X.48– 49). Here Indra is praised in the context and at the occasion of a soma sacrifice, and the usual reciprocal obligations of sacrificer and god are set forth.

01 प्र वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वो महे᳓ म᳓न्दमानाय अ᳓न्धसो
अ᳓र्चा विश्वा᳓नराय विश्वाभु᳓वे
इ᳓न्द्रस्य य᳓स्य सु᳓मखं स᳓हो म᳓हि
श्र᳓वो नृम्णं᳓ च रो᳓दसी सपर्य᳓तः

02 सो चिन्नु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सो᳓ चिन् नु᳓ स᳓ख्या न᳓रिय इन᳓ स्तुत᳓श्
चर्कृ᳓तिय इ᳓न्दरो+ मा᳓वते न᳓रे
वि᳓श्वासु धूर्षु᳓ वाजकृ᳓त्येषु सत्पते
वृत्रे᳓ वा अप्सु᳓ अभि᳓ शूर मन्दसे

03 के ते - अभिसारिणी

विश्वास-प्रस्तुतिः ...{Loading}...

के᳓ ते᳓ न᳓र इन्दर+ ये᳓ त इषे᳓
ये᳓ ते सुम्नं᳓ सधनि᳓यम् इ᳓यक्षान्
के᳓ ते वा᳓जाय असुर्या᳡य हिन्विरे
के᳓ अप्सु᳓ स्वा᳓सु उर्व᳓रासु पउं᳓सिये

04 भुवस्त्वमिन्द्र ब्रह्मणा - अभिसारिणी

विश्वास-प्रस्तुतिः ...{Loading}...

भु᳓वस् तुव᳓म् इन्दर+ ब्र᳓ह्मणा महा᳓न्
भु᳓वो वि᳓श्वेषु स᳓वनेषु यज्ञि᳓यः
भु᳓वो नॄँ᳓श् च्यौतनो᳓ वि᳓श्वस्मिन् भ᳓रे
ज्य᳓यिष्ठश्+ च · म᳓न्त्रो विश्वचर्षणे

05 अवा नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓वा नु᳓ कं ज्या᳓यान् यज्ञ᳓वनसो
महीं᳓ त ओ᳓मात्रां कृष्ट᳓यो विदुः
अ᳓सो नु᳓ कम् अज᳓रो व᳓र्धाश् च
वि᳓श्वे᳓द् एता᳓ स᳓वना तूतुमा᳓ कृषे

06 एता विश्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓ वि᳓श्वा स᳓वना तूतुमा᳓ कृषे
स्वयं᳓ सूनो सहसो या᳓नि दधिषे᳓
व᳓राय ते पा᳓तरं+ ध᳓र्मणे त᳓ना
यज्ञो᳓ म᳓न्त्रो · ब्र᳓ह्म उ᳓द्यतं व᳓चः

07 ये ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ ते विप्र ब्रह्मकृ᳓तः सुते᳓ स᳓चा
व᳓सूनां᳐ च व᳓सुनश् च दाव᳓ने
प्र᳓ ते᳓ सुम्न᳓स्य म᳓नसा पथा᳓ भुवन्
म᳓दे सुत᳓स्य सोमिय᳓स्य अ᳓न्धसः