०४९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

अहं दाम् ’ इत्येकादशर्चं सप्तमं सूक्तम् । वैकुण्ठ एवर्षिर्देवता च । द्वितीयैकादश्यौ त्रिष्टुभौ । शिष्टा जगत्यः । अनुक्रान्तं च - ‘ अहं दामन्त्योपाद्ये च ’ इति । द्वितीये रात्रिपर्याये मैत्रावरुणस्येदं सूक्तम् । सूत्रितं च – अहं दां पाता सुतमिन्द्रो अस्तु सोमम्’ (आश्व. श्रौ. ६. ४) इति ॥

Jamison Brereton

49 (875)
Indra Vaikuṇthạ
Indra Vaikuṇṭha
11 verses: jagatī, except triṣṭubh 2, 11
Like the preceding hymn (X.48), this is an ātmastuti or self-praise spoken by Indra, with relentless repetition of 1st-person singular pronouns and verbs. For the for mer, note that of the twenty half-verses (excluding the final summary verse 11), sixteen begin with ahám “I” and one with mā́m “me.” Only three (6c, 7c, and 10c) lack such an initial pronoun, and 7c has the enclitic mā “me” in second position (yán mā), while 10c begins with spārhám, a rhyme form to ahám.
As for verbs, the hymn is dominated by the injunctive, with nearly twenty such forms. This morphological skewing contrasts with the patterns in the preceding hymn, which has a wider range and more balanced selection of tenses and moods. The reasons for the prominence of the injunctive are not clear to us and, somewhat surprisingly, Hoffmann fails to treat this hymn systematically in his monograph on that verbal form (Hoffmann 1967).
Like X.48 this hymn particularly celebrates Indra’s martial successes and the aid he gave various mortal clients in subduing their enemies. Several of these vignettes are little known, if at all, and others are quite obscurely phrased (e.g., vs. 3, though it treats the well-known saga of Kutsa, Śuṣṇa, and, probably, Uśanā Kāvya; vs. 6). The hymn also emphasizes, more than X.48, the importance of the sacrifice in strengthen
ing Indra and securing his help: verse 1 announces this theme quite clearly, and verses 4–7 treat the relationship between sacrificer and Indra as well, though not as clearly. The final verse (11) summarizes Indra’s own speech, before addressing him directly and assuring him that the deeds he himself boasted of will also be praised by singers.

01 अहं दाम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अहं᳓ दां᳐ गृणते᳓ पू᳓र्वियं व᳓सु
अह᳓म् ब्र᳓ह्म कृणवम् म᳓ह्य° व᳓र्धनम्
अह᳓म् भुवं य᳓जमानस्य चोदिता᳓
अ᳓यज्वनः साक्षि वि᳓श्वस्मिन् भ᳓रे

02 मां धुरिन्द्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मां᳐᳓ धुर् इ᳓न्दरं+ ना᳓म देव᳓ता
दिव᳓श् च ग्म᳓श् च अपां᳐᳓ च जन्त᳓वः
अहं᳓ ह᳓री वृ᳓षणा वि᳓व्रता रघू᳓
अहं᳓ व᳓ज्रं श᳓वसे धृष्णु᳓ आ᳓ ददे

03 अहमत्कं कवये - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अह᳓म् अ᳓त्कं कव᳓ये शिश्नथं ह᳓थैर्
अहं᳓ कु᳓त्सम् · आवम् आभि᳓र् ऊति᳓भिः
अहं᳓ शु᳓ष्णस्य श्न᳓थिता व᳓धर् यमं
न᳓ यो᳓ रर᳓ आ᳓रियं ना᳓म द᳓स्यवे

04 अहं पितेव - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अह᳓म् पिते᳓व वेतसूँ᳓र् अभि᳓ष्टये
तु᳓ग्रं कु᳓त्साय स्म᳓दिभं च रन्धयम्
अह᳓म् भुवं य᳓जमानस्य राज᳓नि
प्र᳓ य᳓द् भ᳓रे तु᳓जये न᳓ प्रिया᳓धृ᳓षे

05 अहं रन्धयम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अहं᳓ रन्धयम् मृ᳓गयं श्रुत᳓र्वणे
य᳓न् मा᳓जिहीत वयु᳓ना चना᳓नुष᳓क्
अहं᳓ वेशं᳓ · नम्र᳓म् आय᳓वे ऽकरम्
अहं᳓ स᳓व्याय प᳓ड्गृभिम् अरन्धयम्

06 अहं स - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अहं᳓ स᳓ यो᳓ न᳓ववास्त्वम् बृह᳓द्रथं
सं᳓ वृत्रे᳓व · दा᳓सं वृत्रहा᳓रुजम्
य᳓द् वर्ध᳓यन्तम् प्रथ᳓यन्तम् आनुष᳓ग्
दूरे᳓ पारे᳓ र᳓जसो रोचना᳓करम्

07 अहं सूर्यस्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अहं᳓ सू᳓र्यस्य प᳓रि यामि आशु᳓भिः
प्र᳓ एतशे᳓भिर् व᳓हमान ओ᳓जसा
य᳓न् मा सावो᳓ म᳓नुष आ᳓ह निर्णि᳓ज
ऋ᳓धक् कृषे · दा᳓सं कृ᳓त्वियं ह᳓थैः

08 अहं सप्तहा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अहं᳓ सप्तहा᳓ न᳓हुषो न᳓हुष्टरः
प्रा᳓श्रावयं श᳓वसा तुर्व᳓शं य᳓दुम्
अहं᳓ नि᳓ अन्यं᳓ स᳓हसा स᳓हस् करं
न᳓व व्रा᳓धतो नवतिं᳓ च वक्षयम्

09 अहं सप्त - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अहं᳓ सप्त᳓ स्रव᳓तो धारयं वृ᳓षा
द्रवित्नु᳓वः पृथिवियां᳓ सीरा᳓ अ᳓धि
अह᳓म् अ᳓र्णांसि वि᳓ तिरामि सुक्र᳓तुर्
युधा᳓ विदम् म᳓नवे गातु᳓म् इष्ट᳓ये

10 अहं तदासु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अहं᳓ त᳓द् आसु धारयं य᳓द् आसु न᳓
देव᳓श् चन᳓ त्व᳓ष्टा अ᳓धारयद् रु᳓शत्
स्पार्हं᳓ ग᳓वाम् ऊ᳓धस्सु वक्ष᳓णासु आ᳓
म᳓धोर् म᳓धु श्वा᳓त्रियं सो᳓मम् आशि᳓रम्

11 एवा देवाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ देवाँ᳓ इ᳓न्दरो+ विविये नॄ᳓न्
प्र᳓ च्यौत्ने᳓न मघ᳓वा सत्य᳓राधाः
वि᳓श्वा इ᳓त् ता᳓ ते हरिवः शचीवो
अभि᳓ तुरा᳓सः स्वयशो गृणन्ति