०४८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

अहं भुवम्’ इत्येकादशर्चं षष्ठं सूक्तम् । पूर्वसूक्तेन सप्तगुना स्तुतो हृष्टः सन्निदमादिसूक्तत्रयेण स्वयमात्मानमस्तौत् । तस्माद्वैकुण्ठस्येन्द्रस्य वाक्यत्वात् “ यस्य वाक्यं स ऋषिः’ इति परिभाषया इन्द्र ऋषिः । वैकुण्ठस्येन्द्रस्य च स्तूयमानत्वात् ’ या तेनोच्यते सा देवता ’ इति परिभाषया इन्द्र एव देवता । दशम्येकादशीसप्तम्यस्त्रिष्टुभः । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । तथा चानुक्रान्तं - स सप्तगुस्तुतिसंहृष्ट आत्मानमुत्तरैस्त्रिभिस्तुष्टावाहं भुवमेकादशान्त्ये त्रिष्टुभौ सप्तमी च ’ इति । अतिरात्रे द्वितीयपर्याये होतुः शस्त्र एतत्सूक्तम् । सूत्रितं च - ‘ अहं भुवमपाय्यस्यान्धसो मदायेति याज्या ’ ( आश्व. श्रौ. ६. ४ ) इति । समूळ्हस्य दशरात्रस्य तृतीये छन्दोमे निष्केवल्येऽप्येतत्सूक्तम् । अहं भुवं तत्त इन्द्रियमिति निष्केवल्यम् ’ (आश्व. श्रौ. ८.७) इति हि सूत्रितम् ॥

Jamison Brereton

48 (874)
Indra Vaikuṇthạ
Indra Vaikuṇṭha
11 verses: jagatī, except triṣṭubh 7, 10–11
As noted immediately above, X.48 and 49 present themselves as Indra’s self-praise (ātmastuti, on which see Thompson 1997). They are spoken in the 1st person, with insistent 1st-person pronouns and verbs. In this hymn only verse 10 lacks an explicit 1st-person form, and the first verses especially establish the pattern: each pāda of verse 1 begins with a 1st-person pronoun (ahám, ahám, mā́m, ahám), as does each half-verse of verse 2 (ahám, ahám), and again, each pāda of verse 3 (máhyam, máyi, máma, mā́m). (Of the 1st-person singular pronominal paradigm, only instrumental máyā and ablative mát are absent from this hymn, and both are poorly attested in the R̥gveda [three and twelve times respectively].)
The contents of the self-praise range over Indra’s many accomplishments, but especially focus on his victories in battle and what he has won thereby—a warrior’s boast, in other words. Some of the exploits are obscure, indeed mentioned only here (e.g., vs. 8).
The only verse lacking 1st-person reference, verse 10, appears to be a riddle, with a balanced opposition between the good or successful man (?), who has soma within, and his opposite number, whose failure is exposed by his lack of soma. But this interpretation must remain tentative, given the puzzles in that verse.

01 अहं भुवम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अह᳓म् भुवं व᳓सुनः पूर्विय᳓स् प᳓तिर्
अहं᳓ ध᳓नानि सं᳓ जयामि श᳓श्वतः
मां᳐᳓ हवन्ते पित᳓रं न᳓ जन्त᳓वो
अहं᳓ दाशु᳓षे वि᳓ भजामि भो᳓जनम्

02 अहमिन्द्रो रोधो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अह᳓म् इ᳓न्द्रो रो᳓धो व᳓क्षो अ᳓थर्वणस्
त्रिता᳓य गा᳓ अजनयम् अ᳓हेर् अ᳓धि
अहं᳓ द᳓स्युभ्यः प᳓रि नृम्ण᳓म् आ᳓ ददे
गोत्रा᳓ शि᳓क्षन् दधीचे᳓ मातरि᳓श्वने

03 मह्यं त्वष्था - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓ह्यं त्व᳓ष्टा व᳓ज्रम् अतक्षद् आयस᳓म्
म᳓यि देवा᳓सो अवृजन्न् अ᳓पि क्र᳓तुम्
म᳓मा᳓नीकं सू᳓रियस्येव दुष्ट᳓रम्
मा᳓म् आ᳓र्यन्ति कृते᳓न क᳓र्तुवेन च

04 अहमेतं गव्ययमश्व्यम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अह᳓म् एतं᳓ गव्य᳓यम् अ᳓श्वियम् पशु᳓म्
पुरीषि᳓णं सा᳓यकेना हिरण्य᳓यम्
पुरू᳓ सह᳓स्रा नि᳓ शिशामि दाशु᳓षे
य᳓न् मा सो᳓मास उक्थि᳓नो अ᳓मन्दिषुः

05 अहमिन्द्रो न - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अह᳓म् इ᳓न्द्रो न᳓ प᳓रा जिग्य इ᳓द् ध᳓नं
न᳓ मृत्य᳓वे अ᳓व तस्थे क᳓दा चन᳓
सो᳓मम् इ᳓न् मा सुन्व᳓न्तो याचता व᳓सु
न᳓ मे पूरवः सखिये᳓ रिषाथन

06 अहमेताञ्छाश्वसतो द्वाद्वेन्द्रम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अह᳓म् एता᳓ञ् छा᳓श्वसतो दुवा᳓-दुवा
इ᳓न्द्रं ये᳓ व᳓ज्रं युध᳓ये अ᳓कृण्वत
आह्व᳓यमानाँ अ᳓व ह᳓न्मनाहनं
दॄळ्हा᳓+ व᳓दन्न् अ᳓नमस्युर् नमस्वि᳓नः

07 अभीथ्दमेकमेको अस्मि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभी᳓द᳓म् ए᳓कम् ए᳓को अस्मि निष्षा᳓ळ्
अभी᳓ दुवा᳓ कि᳓म् उ त्र᳓यः करन्ति
ख᳓ले न᳓ पर्षा᳓न् प्र᳓ति हन्मि भू᳓रि
कि᳓म् मा निन्दन्ति श᳓त्रवो अनिन्द्राः᳓

08 अहं गुङ्गुभ्यो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अहं᳓ गुङ्गु᳓भ्यो अतिथिग्व᳓म् इ᳓ष्करम्
इ᳓षं न᳓ वृत्रतु᳓रं विक्षु᳓ धारयम्
य᳓त् पर्णयघ्न᳓ उत᳓ वा करञ्जहे᳓
प्रा᳓ह᳓म् महे᳓ वृत्रह᳓त्ये अ᳓शुश्रवि

09 प्र मे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ मे न᳓मी साप्य᳓ इषे᳓ भुजे᳓ भू᳐द्
ग᳓वाम् ए᳓षे सखिया᳓ कृणुत द्विता᳓
दिद्युं᳓ य᳓द् अस्य समिथे᳓षु मंह᳓यम्
आ᳓द् इ᳓द् एनं शं᳓सियम् उक्थि᳓यं करम्

10 प्र नेमस्मिन्ददृशे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ ने᳓मस्मिन् ददृशे सो᳓मो अन्त᳓र्
गोपा᳓ ने᳓मम् आवि᳓र् अस्था᳓ कृणोति
स᳓ तिग्म᳓शृङ्गं वृषभं᳓ यु᳓युत्सन्
द्रुह᳓स् तस्थौ बहुले᳓ बद्धो᳓ अन्तः᳓

11 आदित्यानां वसूनाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्या᳓नां व᳓सूनां रुद्रि᳓याणां
देवो᳓ देवा᳓नां न᳓ मिनामि धा᳓म
ते᳓ मा भद्रा᳓य श᳓वसे ततक्षुर्
अ᳓पराजितम् अ᳓स्तृतम् अ᳓षाळ्हम्