०४७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘जगृभ्मा ते’ इत्यष्टर्चं पञ्चमं सूक्तमाङ्गिरसस्य सप्तगुनाम्न आर्षं त्रैष्टुभम् । विकुण्ठा नाम असुरस्त्री। सा चेन्द्रसदृशं पुत्रं कामयमाना कृच्छ्रचान्द्रायणादिकं तपस्तेपे । मत्सदृशोऽन्यः कश्चिन्मा जनिष्टेति बुद्ध्येन्द्र एव तस्याः पुत्रोऽजायत । तादृशो वैकुण्ठ इन्द्रो देवता। तथा चानुक्रान्तं – ‘ जगृभ्माष्टौ सप्तगुर्वैकुण्ठमिन्द्रं तुष्टाव ’ इत्यादि । गतो विनियोगः ॥

Jamison Brereton

47 (873)
Indra
Saptagu Āṅgirasa
8 verses: triṣṭubh
Though the Anukramaṇī attributes this hymn to a different poet from the last two, structural considerations make it clear that it belongs with X.45–46, as Oldenberg convincingly argues (1888: 236); the Anukramaṇī has simply extracted the name Saptagu Āṅgirasa from verse 6, where it is properly applied to the god Br̥haspati. Nonetheless, the subject matter of this hymn is quite distinct from the two Agni hymns that precede it: it is a naked demand to Indra for wealth. The hymn has a superficially monotonous structure consisting of attributes in the accusative: verses 2–5 form a single sentence dependent on the second hemistich of 1. But this monot ony conceals, or rather reveals, the poet’s cleverness, for it is entirely ambiguous whether the accusatives modify Indra or the “wealth” of the refrain found in all the d-pādas. In the former case, the adjectives would agree with the accusative tvā in the verb phrase found in 1c vidmā́ hí tvā “for we know you (as),” punctuated and inter
rupted by the syntactically unconnected refrain; in the latter case with the accusative rayím in the refrain. The semantics of the predicate adjectives in these verses would allow either, sometimes slightly tipped toward one or the other. It may seem that the question is settled finally in verse 5, where we encounter the first noun—vā́jam
“prize”—in this sea of adjectives, since “prize” might seem a more likely synonym of “wealth” than of Indra. However, in the rhetorical universe of the R̥gveda it would certainly be possible to refer to a god as a prize. We think it highly likely that the poet intended the audience to consider both possibilities throughout the sequence.
The last three verses (6–8) more conventionally state that praises are being offered, to Br̥haspati (vs. 6) and to Indra (vss. 7–8), in return for favors.

01 जगृभ्मा ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जगृभ्मा᳓ ते द᳓क्षिणम् इन्द्र ह᳓स्तं
वसूय᳓वो वसुपते व᳓सूनाम्
विद्मा᳓ हि᳓ त्वा गो᳓पतिं शूर गो᳓नाम्
अस्म᳓भ्यं चित्रं᳓ वृ᳓षणं रयिं᳓ दाः

02 स्वायुधं स्ववसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुआयुधं᳓ सुअ᳓वसं सुनीथं᳓
च᳓तुःसमुद्रं धरु᳓णं रयीणा᳓म्
चर्कृ᳓तियं शं᳓सियम् भू᳓रिवारम्
अस्म᳓भ्यं चित्रं᳓ वृ᳓षणं रयिं᳓ दाः

03 सुब्रह्माणं देववन्तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुब्र᳓ह्माणं देव᳓वन्तम् बृह᳓न्तम्
उरुं᳓ गभीर᳓म् पृथु᳓बुध्नम् इन्द्र
श्रुत᳓र्षिम्° उग्र᳓म् अभिमातिषा᳓हम्
अस्म᳓भ्यं चित्रं᳓ वृ᳓षणं रयिं᳓ दाः

04 सनद्वाजं विप्रवीरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सन᳓द्वाजं वि᳓प्रवीरं त᳓रुत्रं
धनस्पृ᳓तं शूशुवां᳓सं सुद᳓क्षम्
दस्युह᳓नम् पूर्भि᳓दम् इन्द्र सत्य᳓म्
अस्म᳓भ्यं चित्रं᳓ वृ᳓षणं रयिं᳓ दाः

05 अश्वावन्तं रथिनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓श्वावन्तं रथि᳓नं वीर᳓वन्तं
सहस्रि᳓णं शति᳓नं वा᳓जम् इन्द्र
भद्र᳓व्रातं वि᳓प्रवीरं सुअर्षा᳓म्
अस्म᳓भ्यं चित्रं᳓ वृ᳓षणं रयिं᳓ दाः

06 प्र सप्तगुमृतधीतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सप्त᳓गुम् ऋत᳓धीतिं सुमेधा᳓म्
बृ᳓हस्प᳓तिम् मति᳓र् अ᳓छा जिगाति
य᳓ आङ्गिरसो᳓ न᳓मसोपस᳓द्यो
अस्म᳓भ्यं चित्रं᳓ वृ᳓षणं रयिं᳓ दाः

07 वनीवानो मम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓नीवानो म᳓म दूता᳓स इ᳓न्द्रं
स्तो᳓माश् चरन्ति सुमती᳓र् इयानाः᳓
हृदिस्पृ᳓शो म᳓नसा वच्य᳓माना
अस्म᳓भ्यं चित्रं᳓ वृ᳓षणं रयिं᳓ दाः

08 यत्त्वा यामि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓त् तुवा या᳓मि दद्धि᳓ त᳓न् न इन्द्र
बृह᳓न्तं क्ष᳓यम् अ᳓समं ज᳓नानाम्
अभि᳓ त᳓द् द्या᳓वापृथिवी᳓ गृणीताम्
अस्म᳓भ्यं चित्रं᳓ वृ᳓षणं रयिं᳓ दाः