०४६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

सप्तमेऽष्टममध्यायं व्याख्यायाचार्यवंशजः ।।

अष्टमे सायणाचार्य आदिमं व्याकरोत्यथ ॥

‘ अच्छा म’ इति चतुर्थेऽनुवाकेऽष्टादश सूक्तानि । तत्र ‘प्र होता’ इति दशर्चं चतुर्थं सूक्तम् । ‘ प्र होता दश’ इत्यनुक्रान्तम् । अनुवर्तनाद्भालन्दनस्य वत्सप्रेरार्षम् । अनादेशपरिभाषया त्रैष्टुभमाग्नेयम् । पूर्वसूक्तेन सहोक्तो विनियोगः ॥

Jamison Brereton

46 (872)
Agni
Vatsaprī Bhālandana
10 verses: triṣṭubh (and virāj)
Attributed to the same poet as X.45, this hymn is clearly a companion piece to the previous hymn, sharing much of the same specialized lexicon (e.g., uśíj “fire-priest”) and an interest in the various forms and births of fire and their relation to the ritual fire. However, X.46 is, for the most part, more rhetorically driven and more obscurely phrased than X.45, with images pushed to the edge of intelligibility (and beyond; see, e.g., vs. 7). The trickiness of its phraseology is matched by its meter, a shifting combination of triṣṭubh and virāj lines, with a number analyzable as either. Nonetheless, the emphasis on the installation of the ritual fire is manifest through out: the original installation (vss. 4, 8–10), the reinstallation of the disappearing Agni (vss. 2–3), and the current installation (vss. 5–6).

01 प्र होता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र होता॑ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा॑ सीदद॒पामु॒पस्थे॑ ।
दधि॒र्यो धायि॒ स ते॒ वयां॑सि य॒न्ता वसू॑नि विध॒ते त॑नू॒पाः ॥

02 इमं विधन्तो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् ।
गुहा॒ चत॑न्तमु॒शिजो॒ नमो॑भिरि॒च्छन्तो॒ धीरा॒ भृग॑वोऽविन्दन् ॥

03 इमं त्रितो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मं त्रि॒तो भूर्य॑विन्ददि॒च्छन्वै॑भूव॒सो मू॒र्धन्यघ्न्या॑याः ।
स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा॑ भवति रोच॒नस्य॑ ॥

04 मन्द्रं होतारमुशिजो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒न्द्रं होता॑रमु॒शिजो॒ नमो॑भिः॒ प्राञ्चं॑ य॒ज्ञं ने॒तार॑मध्व॒राणा॑म् ।
वि॒शाम॑कृण्वन्नर॒तिं पा॑व॒कं ह॑व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ॥

05 प्र भूर्जयन्तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र भू॒र्जय॑न्तं म॒हां वि॑पो॒धां मू॒रा अमू॑रं पु॒रां द॒र्माण॑म् ।
नय॑न्तो॒ गर्भं॑ व॒नां धियं॑ धु॒र्हिरि॑श्मश्रुं॒ नार्वा॑णं॒ धन॑र्चम् ॥

06 नि पस्त्यासु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि प॒स्त्या॑सु त्रि॒तः स्त॑भू॒यन्परि॑वीतो॒ योनौ॑ सीदद॒न्तः ।
अतः॑ सं॒गृभ्या॑ वि॒शां दमू॑ना॒ विध॑र्मणाय॒न्त्रैरी॑यते॒ नॄन् ॥

07 अस्याजरासो दमामरित्रा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः ।
श्वि॒ती॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमाः॑ ॥

08 प्र जिह्वया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र जि॒ह्वया॑ भरते॒ वेपो॑ अ॒ग्निः प्र व॒युना॑नि॒ चेत॑सा पृथि॒व्याः ।
तमा॒यवः॑ शु॒चय॑न्तं पाव॒कं म॒न्द्रं होता॑रं दधिरे॒ यजि॑ष्ठम् ॥

09 द्यावा यमग्निम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो॑भिः ।
ई॒ळेन्यं॑ प्रथ॒मं मा॑त॒रिश्वा॑ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रम् ॥

10 यं त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यं त्वा॑ दे॒वा द॑धि॒रे ह॑व्य॒वाहं॑ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रम् ।
स याम॑न्नग्ने स्तुव॒ते वयो॑ धाः॒ प्र दे॑व॒यन्य॒शसः॒ सं हि पू॒र्वीः ॥