०४५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘दिवस्परि’ इति द्वादशर्चं तृतीयं सूक्तं भालन्दनस्य वत्सप्रेरार्षं त्रैष्टुभमाग्नेयम् । तथा चानुक्रान्तं - दिवस्परि द्वादश वत्सप्रिराग्नेयं तु ’ इति । प्रातरनुवाकाश्विनशस्त्रयोरिदमादिके द्वे सूक्ते अस्य सूक्तस्यान्त्यां वर्जयित्वा । सूत्रितं च -’ दिवस्परीति सूक्तयोः पूर्वस्योत्तमामुद्धरेत्’ (आश्व. श्रौ. ४. १३) इति । क्षामवत्याम् ’ अक्रन्ददग्निः’ इत्येषा याज्य। । सूत्रितं च— अग्ने त्वमस्मद्युयोध्यमीवा अक्रन्ददग्निः स्तनयन्निव द्यौः ’ ( आश्व. श्रौ. ३. १३ ) इति ॥

Jamison Brereton

45 (871)
Agni
Vatsaprī Bhālandana
12 verses: triṣṭubh
The hymn begins with Agni’s triple birth, in heaven, on the earthly sacrificial ground, and in the waters (vs. 1), and the next verses touch on Agni’s several forms (vss. 2–3). The cosmic aspects of Agni (vss. 4–6, 8) are thus marshaled in service of the ritual Agni, installed as fire-priest in verse 7, and it is therefore easy to believe in the good things that will come to the mortal who sacrifices to Agni (vss. 9–12).

01 दिवस्परि प्रथमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दिव᳓स् प᳓रि प्रथमं᳓ जज्ञे अग्नि᳓र्
अस्म᳓द् द्विती᳓यम् प᳓रि जात᳓वेदाः ।
तृती᳓यम् अप्सु᳓ नृ-म᳓णा अ᳓जस्रम्
इ᳓न्धान एनं जरते+++(=स्तौति)+++ स्वाधीः᳓+++(=सुप्रज्ञाता)+++ ।

02 विद्मा ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(प्रतिज्ञा+ऋक्। अग्रिमायाम् उत्तरम्।)+++
विद्मा᳓ ते अग्ने त्रेधा᳓ +++(रूपाणि᳓ अ᳓ग्नि᳓-वि᳓द्यु᳓त्-सू᳓र्या᳓स्)+++ त्रया᳓णि
विद्मा᳓ ते स᳓द्म +++(नानाकु᳓ण्डे᳓षु᳓)+++ वि᳓भृतम् पुरुत्रा᳓ +++(=बहुधा)+++।
विद्मा᳓ ते ना᳓म परमं᳓ गु᳓हा य᳓द्
विद्मा᳓ त᳓म् उ᳓त्सं +++(=fount)+++ य᳓त आजग᳓न्थ ।

03 समुद्रे त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

+++(प्राक्तनाया विस्तारः!)+++ समुद्रे᳓ त्वा नृम᳓णा अप्स्व् अ᳙न्तर्
नृच᳓क्षा +++(=नृद्रष्टा)+++ ईधे +++(=दीपयते)+++ दिवो᳓ अग्न ऊ᳓ध᳓न्न् +++(=उधस्स्थानीये मेघे)+++ ।
तृती᳓ये त्वा᳓ र᳓जसि +++(=लोके)+++ तस्थिवाँ᳓सम्
ऋत᳓स्य यो᳓नौ महिषा᳓ अहिन्वन्न् +++(=बुद्धवन्तः)+++ ।

04 अक्रन्ददग्नि स्तनयन्निव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓क्रन्दद् अग्निः᳓ स्तन᳓यन्निव द्यौः᳓
क्षा᳓मा +++(=पृथिवीं)+++ रे᳓रिहद् +++(=आस्वादयन्)+++ वीरु᳓धः +++(={वृक्ष}गुल्मान्)+++ समञ्ज᳓न्न् ।
सद्यो᳓ जज्ञानो᳓ +++(दावान᳓लः᳓)+++ वि᳓ ही᳓म् इद्धो᳓
अ᳓ख्यद् आ᳓ रो᳓दसी भानु᳓ना भात्य् अन्तः᳓ ।

05 श्रीणामुदारो धरुणो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रीणा᳓म् उदारो᳓ धरु᳓णो रयीणा᳓म्
मनीषा᳓णाम् प्रा᳓र्पणः सो᳓मगोपाः ।
व᳓सोः सूनुः᳓ स᳓हसो अप्सु᳓ रा᳓जा +++(=दीप्यमानः)+++
वि᳓ भात्य् अ᳓ग्र उष᳓साम् इधानः᳓ ।

06 विश्वस्य केतुर्भुवनस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वस्य केतु᳓र् भु᳓वनस्य ग᳓र्भ
आ᳓ रो᳓दसी अपृणाज् +++(=अपूरयत्)+++ जा᳓यमानः ।
वीडुं᳓ +++(=दृढं)+++ चिद् अ᳓द्रिम् अभिनत् पराय᳓ञ् +++(=परागच्छन्)+++
ज᳓ना य᳓द् अग्नि᳓म् अ᳓यजन्त प᳓ञ्च ।

07 उशिक्पावको अरतिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उशि᳓क् +++(=कामयिता)+++ पावको᳓ अरतिः᳓ +++(=गन्ता)+++ सुमेधा᳓
म᳓र्तेष्व् अग्नि᳓र् अमृ᳓तो नि᳓धायि ।
इ᳓यर्ति +++(=गमयति)+++ धूम᳓म् अरुष᳓म् +++(=महत्)+++ भ᳓रिभ्रद्
उ᳓च् छुक्रे᳓ण शोचि᳓षा द्या᳓म् इ᳓नक्षत् +++(=दीपयत्)+++।

08 दृशानो रुक्म - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दृशानो᳓ रुक्म᳓ +++(=रोचमानः)+++ उर्व्या᳓ +++(=महत्या)+++ व्यद्यौद्,
दुर्म᳓र्षम् आ᳓युः श्रिये᳓ रुचानः᳓ ।
अग्नि᳓र् अमृ᳓तो अभवद् व᳓योभिर्
य᳓द् एनं द्यौ᳓र् अ᳓जनयत् सुरे᳓ताः ॥

09 यस्ते अद्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् ते अद्य᳓ कृण᳓वद् भद्रशोचे
ऽपूपं᳓ देव घृत᳓वन्तम् अग्ने।
प्र᳓ तं᳓ नय प्रतरां᳓ +++(=नितरां)+++ व᳓स्यो +++(=वसीयः)+++
अ᳓च्छाभि᳓ द्युम्नं᳓ +++(=धनं)+++ देव᳓भक्तं यविष्ठ ।

10 आ तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त᳓म् भज सौश्रवसे᳓ष्व् +++(स्वन्नेषु [यागेषु])+++ अग्न
उक्थ᳓उक्थ आ᳓ भज शस्य᳓माने ।
प्रियः᳓ सू᳓र्ये प्रियो᳓ अग्ना᳓ भवात्य्
उ᳓ज् जाते᳓न +++(पुत्रादिना)+++ भिन᳓दद् +++(=उद्भिद्य प्रकाशताम्)+++ उ᳓ज्ज᳓नित्वैः +++(=जनिष्यमाणैः)+++।

11 त्वामग्ने यजमाना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वा᳓म् अग्ने य᳓जमाना अ᳓नु द्यू᳓न्
वि᳓श्वा व᳓सूनि दधिरे वा᳓र्याणि +++(=वरणीयानि)+++ ।
त्व᳓या सह᳓ द्र᳓विणम् इच्छ᳓माना
व्रजं᳓ गो᳓मन्तम् उशि᳓जो +++(=मेधाविनो)+++ वि᳓ वव्रुः ।

12 अस्ताव्यग्निर्नरां सुशेवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓स्तावि अग्नि᳓र् नरां᳐᳓ सुशे᳓वो
वैश्वानर᳓ ऋ᳓षिभिः सो᳓मगोपाः
अद्वेषे᳓ द्या᳓वापृथिवी᳓ हुवेम
दे᳓वा धत्त᳓ रयि᳓म् अस्मे᳓ सुवी᳓रम्